पङ्गावन्धे च काणे च ह्यर्धोन्मीलितलोचने । तिलेषु दर्भान्संस्तीर्य दानमुक्तं तदक्षयम् ॥ २,३०.
तिला लौहं हिरण्यञ्च कार्पासं लवणं तथा । सप्तधान्यं क्षितिर्गाव एकैकं पावनं स्मृतम् ॥ २,३०.
लोहदानाद्यमस्तुष्येद्धर्म राजस्तिलार्पणात् । लवणे दीयमाने तु न भयं विद्यते यमात् ॥ २,३०.
कर्पासस्य तु दानेन न भूतेभ्यो भयं भवेत् । तारयन्ति नरं गावस्त्रिविधाश्चैव पातकात् ॥ २,३०.
हेमदानात्सुखं स्वर्गे भूमिदानान्नृपो भवेत् । हेमभूमिप्रदानाच्च न पीडा नरके भवेत् ॥ २,३०.
सर्वेऽपि यमदूताश्च यमरूपा विभीषणाः । सर्वे ते वरदा यान्ति सप्तधान्येन प्रीणिताः ॥ २,३०.
विष्णोः स्मरणमात्रेण प्राप्यते परमा गतिः । एतत्ते सर्वमाख्यातं मर्त्यैर्या गतिराप्यते ॥ २,३०.
तस्मात्पुत्रं प्रशंसन्ति ददाति पितुराज्ञया । भूमिष्ठं पितरं दृष्ट्वा ह्यर्धोन्मीलितलोचनम् ॥ २,३०.
तस्मिन् काले सुतो यस्तु सर्वदानानि दापयेत् । गयाश्राद्धाद्विशिष्येत स पुत्रः कुलनन्दनः ॥ २,३०.
स्वस्थानाच्चलितश्चासौ विकलस्य पितुस्तदा । पुत्रैर्यत्नेन कर्तव्या पितरं तारयन्ति ते ॥ २,३०.
किं दत्तैर्बहुभिर्दानैः पितुरन्त्येष्टिमाचरेत् । अश्वमेधो महायज्ञः कलां नार्हति षोडशीम् ॥ २,३०.
धर्मात्मा स नु पुत्रो वैदेवैरपि सुपूज्यते । दापयेद्यस्तु दानानि ह्यातुरं पितरं भुवि ॥ २,३०.
लोहदानञ्च दातव्यं भूमियुक्तेन पाणिना । यमं भीमञ्च नाप्नोति न गच्छेत्तस्य वेश्मनि ॥ २,३०.
कुठारो मुसलो दण्डः खड्गश्च च्छुरिका तथा । एतानि यमहस्तेषु दृश्यानि पापकर्मिणाम् ॥ २,३०.
तस्माल्लोहस्य दानन्तु ब्राह्मणायातुरो ददेत् । यमायुधानां सन्तुष्ट्यै दानमेतदुदाहृतम् ॥ २,३०.
गर्भस्थाः शिशवो ये च युवानः स्थविरास्तथा । एभिर्दानविशेषैस्तु निर्दहेयुः स्वपातकम् ॥ २,३०.
छुरिणः श्यामशबलौ षण्डामर्का उदुम्बराः । शबला श्यामदूता ये लोहदानेन प्रीणिताः ॥ २,३०.
पुत्राः पौत्रास्तथा बन्धुः सगोत्राः सुहहृदस्तथा । ददते नातुरे दानं ब्रह्मघ्नैस्तु समा हि ते ॥ २,३०.
पञ्चत्वे भूमियुक्तस्य शृणु तस्य च या गतिः । अतिवाहः पुनः प्रेतोवर्षोर्ध्वं सुकृतं लभेत् ॥ २,३०.
अग्नित्रयं त्रयो लोकास्त्रयो वेदास्त्रयोऽमराः । कालत्रयं त्रिसन्ध्यं च त्रयो वर्णास्त्रिशक्तयः ॥ २,३०.
पादादूर्ध्वं कटिं यावत्तावद्ब्रह्याधितिष्ठति । ग्रीवां यावद्धरिर्नाभेः शरीरे मनुजस्य च ॥ २,३०.
मस्तके तिष्ठतीशानो व्यक्ताव्यक्तो महेश्वरः । एकमूर्तेस्त्रयो भागा ब्रह्मा विष्णुहेश्वराः ॥ २,३०.
अहं प्राणः शरीरस्थो भूतग्रामचतुष्टये । धर्माधर्मे मतिं दद्यात्सुखदुःखे कृताकृते ॥ २,३०.
जन्तोर्वुद्धिं समास्थाय पूर्वमर्माधिवासिताम् । अहमेव तथा जीवान्प्रेरयामि च कर्मसु । स्वर्गं च नरकं मोक्षं प्रयान्ति प्राणिनो ध्रुवम् ॥ २,३०.
स्वर्गस्थं नरकस्थं वा श्राद्धे वाप्यायनं भवेत् । तस्माच्छ्राद्धानि कुर्वीत त्रिविधानि विचक्षणः ॥ २,३०.
मत्स्यं कर्मं च वाराहं नारसिंहञ्च वामनम् । रामं रामं च कृष्णं च बुद्धं चैव सकल्किनम् । एतानि दश नामानि स्मर्तव्यानि सदा बुधैः ॥ २,३०.
स्वर्गं जीवाः सुखं यान्ति च्युताः स्वर्गाच्च मानवाः । लब्ध्वा सुखं च वित्तं च दयादाक्षिण्यसंयुताः । पुत्रपौत्रैर्धनैराढ्या जीवेयुः शरदां शतम् ॥ २,३०.
आतुरे च ददेद्दानं विष्णुपूजाञ्च कारयेत् । अष्टाक्षरं तथा मन्त्रं जपेद्वा द्वादशाक्षरम् ॥ २,३०.
पूजयेच्छुक्लपुष्पैश्च नैवेद्यैर्घृतपाचितैः । तथा गन्धैश्च धूपैश्च श्रुतिस्मृतिमनूदितैः ॥ २,३०.
विष्णुर्माता पिता विष्णुर्विष्णुः स्वजनबान्धवाः । यत्र विष्णुं न पश्यामि तेन वासेन किं मम ॥ २,३०.