देयमेकं महादानं कार्पासं चोत्तमोत्तमम् । येन दत्तेन प्रीयन्ते भूर्भुवः स्वरिति क्रमात् ॥ २,३०.
ब्रह्माद्या देवताः सर्वाः कार्याच्च प्रीतिमाप्नुयुः । देयमेतन्महादानं प्रेतोद्धरणहेतवे ॥ २,३०.
चिरं वसेद्रुद्रलोके ततो राजा भवेदिह । रूपवान्सुभगो वाग्मी श्रीमानतुल विक्रमः । यमलोकं विनिर्जित्य स्वर्गं ताक्ष्य स गच्छति ॥ २,३०.
गां तिलांश्च क्षितं हेम यो ददाति द्विजन्मने । तस्य जन्मार्जिर्त पापं तत्क्षणादेवनश्यति ॥ २,३०.
तिला गावो महादानं महापातकनाशनम् । तद्द्वयं दीयते विप्रे नान्यवर्णे कदाचन ॥ २,३०.
कल्पितं दीयते दानं तिला गावश्चमेदिनी । अन्येषु नैव वर्णेषु पोष्यवर्गे कदाचन ॥ २,३०.
पोष्यवर्गे तथा स्त्रीषु दानं देयमकल्पितम् । आतुरे वोपरागे च द्वयं दानं विशिष्यते । आतुरे दीयते दानं तत्काले चोपतिष्ठति ॥ २,३०.
जीवतस्तु पुनर्दत्तमुपतिष्ठत्यसंस्कृतम् । सत्यंसत्यं पुनः सत्यं यद्दत्तं विकलेन्द्रिये ॥ २,३०.
यच्चानु मोदते पुत्रस्तच्च दानमनन्तकम् । अतो दद्यात्स पुत्रो वा यावज्जीवत्ससौ चिरम् । अतिवाहस्तथा प्रेतो भोगांश्च लभते यतः ॥ २,३०.
अस्वस्था तुरकाले तु देहपाते क्षितिस्थिते । देहे तथातिवाहस्य परतः प्रीणनं भवेत् ॥ २,३०.
पङ्गावन्धे च काणे च ह्यर्धोन्मीलितलोचने । तिलेषु दर्भान्संस्तीर्य दानमुक्तं तदक्षयम् ॥ २,३०.
तिला लौहं हिरण्यञ्च कार्पासं लवणं तथा । सप्तधान्यं क्षितिर्गाव एकैकं पावनं स्मृतम् ॥ २,३०.
लोहदानाद्यमस्तुष्येद्धर्म राजस्तिलार्पणात् । लवणे दीयमाने तु न भयं विद्यते यमात् ॥ २,३०.
कर्पासस्य तु दानेन न भूतेभ्यो भयं भवेत् । तारयन्ति नरं गावस्त्रिविधाश्चैव पातकात् ॥ २,३०.
हेमदानात्सुखं स्वर्गे भूमिदानान्नृपो भवेत् । हेमभूमिप्रदानाच्च न पीडा नरके भवेत् ॥ २,३०.
सर्वेऽपि यमदूताश्च यमरूपा विभीषणाः । सर्वे ते वरदा यान्ति सप्तधान्येन प्रीणिताः ॥ २,३०.
विष्णोः स्मरणमात्रेण प्राप्यते परमा गतिः । एतत्ते सर्वमाख्यातं मर्त्यैर्या गतिराप्यते ॥ २,३०.
तस्मात्पुत्रं प्रशंसन्ति ददाति पितुराज्ञया । भूमिष्ठं पितरं दृष्ट्वा ह्यर्धोन्मीलितलोचनम् ॥ २,३०.
तस्मिन् काले सुतो यस्तु सर्वदानानि दापयेत् । गयाश्राद्धाद्विशिष्येत स पुत्रः कुलनन्दनः ॥ २,३०.
स्वस्थानाच्चलितश्चासौ विकलस्य पितुस्तदा । पुत्रैर्यत्नेन कर्तव्या पितरं तारयन्ति ते ॥ २,३०.
किं दत्तैर्बहुभिर्दानैः पितुरन्त्येष्टिमाचरेत् । अश्वमेधो महायज्ञः कलां नार्हति षोडशीम् ॥ २,३०.
धर्मात्मा स नु पुत्रो वैदेवैरपि सुपूज्यते । दापयेद्यस्तु दानानि ह्यातुरं पितरं भुवि ॥ २,३०.
लोहदानञ्च दातव्यं भूमियुक्तेन पाणिना । यमं भीमञ्च नाप्नोति न गच्छेत्तस्य वेश्मनि ॥ २,३०.
कुठारो मुसलो दण्डः खड्गश्च च्छुरिका तथा । एतानि यमहस्तेषु दृश्यानि पापकर्मिणाम् ॥ २,३०.
तस्माल्लोहस्य दानन्तु ब्राह्मणायातुरो ददेत् । यमायुधानां सन्तुष्ट्यै दानमेतदुदाहृतम् ॥ २,३०.
गर्भस्थाः शिशवो ये च युवानः स्थविरास्तथा । एभिर्दानविशेषैस्तु निर्दहेयुः स्वपातकम् ॥ २,३०.
छुरिणः श्यामशबलौ षण्डामर्का उदुम्बराः । शबला श्यामदूता ये लोहदानेन प्रीणिताः ॥ २,३०.
पुत्राः पौत्रास्तथा बन्धुः सगोत्राः सुहहृदस्तथा । ददते नातुरे दानं ब्रह्मघ्नैस्तु समा हि ते ॥ २,३०.
पञ्चत्वे भूमियुक्तस्य शृणु तस्य च या गतिः । अतिवाहः पुनः प्रेतोवर्षोर्ध्वं सुकृतं लभेत् ॥ २,३०.
अग्नित्रयं त्रयो लोकास्त्रयो वेदास्त्रयोऽमराः । कालत्रयं त्रिसन्ध्यं च त्रयो वर्णास्त्रिशक्तयः ॥ २,३०.