$ तिलाः पवित्रास्त्रिविधा दर्भाश्च तुलसीदालम् । निवारयन्ति चैतानि दुर्गतिं यान्तमातुरम् ॥ २,२९.
हस्ताभ्यामुद्धृतैर्दर्भैस्तोयेन प्रोक्षयेद्भुवम् । मृत्युकाले क्षिपेद्दर्भानातुरस्य करद्वये ॥ २,२९.
दर्भेषु क्षिप्यते योऽसौ दभस्तु परिवेष्टितः । विष्णुलोकं स वै याति मन्त्रहीनोऽपि मानवः ॥ २,२९.
दर्भमूलीगतो भूमौ दर्भपाणिस्तु यो मृतः । प्रायश्चित्तविशुद्धोऽसौ संसारेपारसागरे ॥ २,२९.
गोमयेनोपलिप्ते तु दर्भस्यास्तरणे स्थितः । तत्र दत्तेन दानेन सर्वं पापं व्यपोहति ॥ २,२९.
लवणं तद्रसं दिव्यं सर्वकामप्रदं नृणाम् । यस्मादन्नरसाः सर्वे नोत्कटा लवणं विना ॥ २,२९.
पितॄणां च प्रियं भव्यं तस्मात्स्वर्गप्रदं भवेत् । विष्णुदेहसमुद्भूतो यतोऽयं लवणो रसः ॥ २,२९.
विशेषाल्लवणं दानं तेन शंसन्ति योगिनः । ब्राह्मण क्षत्त्रियविशां स्त्रीणां शूद्रजनस्य च ॥ २,२९.
आतुराणां यदा प्राणाः प्रयान्ति वसुधातले । लवणं तु तदा देयं द्बारस्योद्धाटनं दिवः ॥ २,२९.
श्रीगरुडमहापुराणम् ३० श्रीकृष्ण उवाच । शृणु तार्क्ष्य परं गुह्यं दानानां दानमुत्तमम् । परमं सर्वदानानां परं गोप्यं दिवौकसाम् ॥ २,३०.
देयमेकं महादानं कार्पासं चोत्तमोत्तमम् । येन दत्तेन प्रीयन्ते भूर्भुवः स्वरिति क्रमात् ॥ २,३०.
ब्रह्माद्या देवताः सर्वाः कार्याच्च प्रीतिमाप्नुयुः । देयमेतन्महादानं प्रेतोद्धरणहेतवे ॥ २,३०.
चिरं वसेद्रुद्रलोके ततो राजा भवेदिह । रूपवान्सुभगो वाग्मी श्रीमानतुल विक्रमः । यमलोकं विनिर्जित्य स्वर्गं ताक्ष्य स गच्छति ॥ २,३०.
गां तिलांश्च क्षितं हेम यो ददाति द्विजन्मने । तस्य जन्मार्जिर्त पापं तत्क्षणादेवनश्यति ॥ २,३०.
तिला गावो महादानं महापातकनाशनम् । तद्द्वयं दीयते विप्रे नान्यवर्णे कदाचन ॥ २,३०.
कल्पितं दीयते दानं तिला गावश्चमेदिनी । अन्येषु नैव वर्णेषु पोष्यवर्गे कदाचन ॥ २,३०.
पोष्यवर्गे तथा स्त्रीषु दानं देयमकल्पितम् । आतुरे वोपरागे च द्वयं दानं विशिष्यते । आतुरे दीयते दानं तत्काले चोपतिष्ठति ॥ २,३०.
जीवतस्तु पुनर्दत्तमुपतिष्ठत्यसंस्कृतम् । सत्यंसत्यं पुनः सत्यं यद्दत्तं विकलेन्द्रिये ॥ २,३०.
यच्चानु मोदते पुत्रस्तच्च दानमनन्तकम् । अतो दद्यात्स पुत्रो वा यावज्जीवत्ससौ चिरम् । अतिवाहस्तथा प्रेतो भोगांश्च लभते यतः ॥ २,३०.
अस्वस्था तुरकाले तु देहपाते क्षितिस्थिते । देहे तथातिवाहस्य परतः प्रीणनं भवेत् ॥ २,३०.
पङ्गावन्धे च काणे च ह्यर्धोन्मीलितलोचने । तिलेषु दर्भान्संस्तीर्य दानमुक्तं तदक्षयम् ॥ २,३०.
तिला लौहं हिरण्यञ्च कार्पासं लवणं तथा । सप्तधान्यं क्षितिर्गाव एकैकं पावनं स्मृतम् ॥ २,३०.
लोहदानाद्यमस्तुष्येद्धर्म राजस्तिलार्पणात् । लवणे दीयमाने तु न भयं विद्यते यमात् ॥ २,३०.
कर्पासस्य तु दानेन न भूतेभ्यो भयं भवेत् । तारयन्ति नरं गावस्त्रिविधाश्चैव पातकात् ॥ २,३०.
हेमदानात्सुखं स्वर्गे भूमिदानान्नृपो भवेत् । हेमभूमिप्रदानाच्च न पीडा नरके भवेत् ॥ २,३०.
सर्वेऽपि यमदूताश्च यमरूपा विभीषणाः । सर्वे ते वरदा यान्ति सप्तधान्येन प्रीणिताः ॥ २,३०.
विष्णोः स्मरणमात्रेण प्राप्यते परमा गतिः । एतत्ते सर्वमाख्यातं मर्त्यैर्या गतिराप्यते ॥ २,३०.
तस्मात्पुत्रं प्रशंसन्ति ददाति पितुराज्ञया । भूमिष्ठं पितरं दृष्ट्वा ह्यर्धोन्मीलितलोचनम् ॥ २,३०.
तस्मिन् काले सुतो यस्तु सर्वदानानि दापयेत् । गयाश्राद्धाद्विशिष्येत स पुत्रः कुलनन्दनः ॥ २,३०.
स्वस्थानाच्चलितश्चासौ विकलस्य पितुस्तदा । पुत्रैर्यत्नेन कर्तव्या पितरं तारयन्ति ते ॥ २,३०.