तारयेन्नरकात्पुत्रो यदि मोक्षो न विद्यते । दाहः पुत्रेण कर्तव्यो देयः पौत्रेण पावकः ॥ २,२९.
तिलैर्दर्भैश्च भूम्यां वै कुटी धातुमती भवेत् । पञ्चरत्नानि वक्त्रे तु येन जीवः प्ररोहति ॥ २,२९.
लिप्यात्तु गोमयैर्भूमिं तिलान्दर्भांश्च निः क्षिपेत् । तस्यामेवातुरो मुक्तः सर्वं दहति पातकम् ॥ २,२९.
दर्भमूलीनयेत्स्वर्गं संस्थितं नात्र संशयः । दर्भांस्तत्र हि ये भूम्यां तिलयुक्तान संशयः ॥ २,२९.
सर्वत्र वसुधा पूता यत्र लेपो न विद्यते । यत्र लेपः स्थितस्तत्र पुनर्लेपेन शुध्यति ॥ २,२९.
यातुधानाः पिशाचाश्च राक्षसाः क्रूरकर्मिणः । अलिप्ते आतुरं मुक्तं विशन्त्येते न संशयः ॥ २,२९.
नित्यहोमं तथा श्राद्धं विप्राणां पादशोधनम् । मण्डलेन विना भूम्यां कुर्वन्त्येतच्च निष्फलम् ॥ २,२९.
आतुरो मुच्यते नैव मण्डलेन विना भुवि । ब्रह्मा रुद्रश्च विष्णुश्च श्रीर्हुताशन एव च । मण्डले चोपतिष्ठन्तस्तस्मात्कुर्वीत मण्डलम् ॥ २,२९.
अन्यथा म्रियते यस्तु बालो वृद्धो युवापि वा । योन्यन्तरं स वै गच्छेत्क्रीडते वायुना सह ॥ २,२९.
मिश्रितं लोहताम्रं तु तथैव जन्म जायते । तस्मैवं वायुभूतस्य न श्राद्धं नोदक क्रिया ॥ २,२९.
मम स्वेदसमुद्भूतास्तिलास्तार्क्ष्य पवित्रकाः । असुरा दानवा दैत्यास्तृप्यन्ति तिलदानतः ॥ २,२९.
तिलाः श्वेतास्तिलाः कृष्णास्तिला गोमूत्रसन्निभाः । ते मे दहन्तु पापानि शरीरेण कृतानि च ॥ २,२९.
एक एव तिलद्रोणो हेमद्रोणतिलैः समः । तर्पणे दानहोमे च दत्तो भवति चाक्षयः ॥ २,२९.
दर्भा मल्लोमसम्भूतास्तिलाः स्वेदसमुद्भवाः । तृप्ताः स्युर्देवता दानैः श्राद्धेन पितरस्तथा । प्रयोगविधिना ब्रह्मा विश्वञ्चाप्युपजीवनात् ॥ २,२९.
सव्ययज्ञोपवीतेन ब्रह्माद्यास्तृप्तिमान्पुयुः । अपसव्येन तृप्यन्ति पितरो दिविदेवताः ॥ २,२९.
अपसव्यादितो ब्रह्मा दर्भमध्ये तु केशवः । दर्भाग्रे शङ्करं विद्यात्त्रयो देवाः [https://vedastudy.yolasite.com/kusha1.php कुशे] स्थिताः ॥ २,२९.
विप्रा मन्त्राः कुशा वह्निस्तुलसी च खगेश्वर । नैते निर्माल्यतां यान्ति क्रियमाणाः पुनः पुनः ॥ २,२९.
कुशाः पिण्डेषु निर्माल्याः ब्राह्मणाः प्रेतभोजने । मन्त्राः शूद्रेषु पतिताश्चितायाश्च हुताशनः ॥ २,२९.
तुलसी ब्राह्मणा गावो विष्णुरेकादशी खग । पञ्च प्रवहणान्येव भवाब्धौ मज्जतां सताम् ॥ २,२९.
विष्णुरेकादशी गीता तुलसीविप्रधेनवः । अपारे दुर्गसंकारे षट्पदी मुक्तिदायिनी ॥ २,२९.
$ तिलाः पवित्रास्त्रिविधा दर्भाश्च तुलसीदालम् । निवारयन्ति चैतानि दुर्गतिं यान्तमातुरम् ॥ २,२९.
हस्ताभ्यामुद्धृतैर्दर्भैस्तोयेन प्रोक्षयेद्भुवम् । मृत्युकाले क्षिपेद्दर्भानातुरस्य करद्वये ॥ २,२९.
दर्भेषु क्षिप्यते योऽसौ दभस्तु परिवेष्टितः । विष्णुलोकं स वै याति मन्त्रहीनोऽपि मानवः ॥ २,२९.
दर्भमूलीगतो भूमौ दर्भपाणिस्तु यो मृतः । प्रायश्चित्तविशुद्धोऽसौ संसारेपारसागरे ॥ २,२९.
गोमयेनोपलिप्ते तु दर्भस्यास्तरणे स्थितः । तत्र दत्तेन दानेन सर्वं पापं व्यपोहति ॥ २,२९.
लवणं तद्रसं दिव्यं सर्वकामप्रदं नृणाम् । यस्मादन्नरसाः सर्वे नोत्कटा लवणं विना ॥ २,२९.
पितॄणां च प्रियं भव्यं तस्मात्स्वर्गप्रदं भवेत् । विष्णुदेहसमुद्भूतो यतोऽयं लवणो रसः ॥ २,२९.
विशेषाल्लवणं दानं तेन शंसन्ति योगिनः । ब्राह्मण क्षत्त्रियविशां स्त्रीणां शूद्रजनस्य च ॥ २,२९.
आतुराणां यदा प्राणाः प्रयान्ति वसुधातले । लवणं तु तदा देयं द्बारस्योद्धाटनं दिवः ॥ २,२९.
श्रीगरुडमहापुराणम् ३० श्रीकृष्ण उवाच । शृणु तार्क्ष्य परं गुह्यं दानानां दानमुत्तमम् । परमं सर्वदानानां परं गोप्यं दिवौकसाम् ॥ २,३०.