भगवन्नतिवाहस्य नवपिण्डैस्तु किं भवेत् । कथं देवपितृभ्यश्च वाहस्यावाहनं कथम् । इदं च क्रियते देव कस्मात्पिण्डं प्रदापयेत् ॥ २,२८.
किं तत्प्रदीयते तस्य पिण्डदानादनन्तरम् । अस्थिसञ्चयनं चैव शय्यादानं किमर्थकम् ॥ २,२८.
द्वितीयेऽह्नि कुतः स्नानं चतुर्थे साग्निके द्विजे । दशमे किं मलस्नानं कार्यं सर्वजनैः सह ॥ २,२८.
कस्मात्तैलोद्वर्तनं च स्कन्धवाहान् गृहं नयेत् । तैः समुद्वर्तनं चापि दद्युः स्थलजलाश्रये ॥ २,२८.
देशमेऽहनि यः पिण्डस्तं दद्यादामिषेण तु । पिण्डं चैकादशे कस्माद्वृषोत्सर्गः कथं भवेत् ॥ २,२८.
श्राद्धानि षोडशैतानि अब्दं यावत्कुतो वद । अन्नादिचोदकेनैव षष्ट्यधिकशतत्रयम् ॥ २,२८.
दिनेदिने च दातव्यं घटान्नं प्रेततृप्तये । प्राप्ते काले च म्रियते अनित्यो मानवः प्रभो ॥ २,२८.
छिद्रं तु नैव पश्यामि कुतो जीवः स निर्गतः । कुतो गच्छन्ति भूतानि पृथिव्यापो मनस्तथा ॥ २,२८.
तेजो वदस्व मे नाथ वायुराकाशमेव च । वायवश्चैव पञ्चैते कथं गच्छन्ति चाप्तये ॥ २,२८.
लोभमोहादयः पञ्च शरीरे चैव तस्कराः । तृष्णा कामोऽप्यहङ्कारः कुतो यान्ति जनार्दन ॥ २,२८.
पुण्यं वाप्यथ वापुण्यं यत्किञ्चित्सुकृतं तथा । नष्टे देहे कुतो यान्ति दानानि विविधानि च ॥ २,२८.
सपिण्डनं किमर्थं च पूर्णे संवत्सरेऽपि वा । प्रेतस्य मेलनं सार्धं कैः समं तत्र को विधिः ॥ २,२८.
ये दग्धा ये त्वदग्धाश्च पतिता ये नराभुवि । यानि चान्यानि भूतानि तेषामन्ते भवेच्च किम् ॥ २,२८.
पापिनो ये दुराचारा मुद्गलत्वं च ये गताः । आत्मघाती ब्रह्महा च स्तेयी विश्वासघातकः ॥ २,२८.
कपिलां यः पिबेच्छूद्रो यः पठेद्वैदिकाक्षरम् । धारयेद्वा ब्रह्मसूत्रं का गतिस्तस्य माधव ॥ २,२८.
विप्रस्य ब्राह्मणी भार्या संगृही ता यदा भवेत् । तस्मात्पापाच्च भीतोऽहं तन्मे वद जगत्पते । सर्वमेतन्मया पृष्टो वद लोकहिताय वै ॥ २,२८.
श्रीगरुडमहापुराणम् २९ श्रीकृष्ण उवाच । साधु पृष्टं त्वया भद्र मानुषाणां हिताय वै । शृणुष्वावहितो भूत्वा सर्वमेवौर्ध्वदैहिकम् ॥ २,२९.
कम्यग्विभेदरहितं श्रुतिस्मृतिसमुद्धृतम् । यन्न दृष्टं सुरैः सेन्द्रैर्योगिभिर्योगचिन्तकैः ॥ २,२९.
गुह्याद्गुह्यतरं वत्स नाख्यातं कस्यचित्क्वचित् । भक्तस्त्वं हि महाभाग सर्वं ते कथयाम्यहम् ॥ २,२९.
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । येन केनाप्युपायेन कार्यं जन्म सुतस्य च ॥ २,२९.
तारयेन्नरकात्पुत्रो यदि मोक्षो न विद्यते । दाहः पुत्रेण कर्तव्यो देयः पौत्रेण पावकः ॥ २,२९.
तिलैर्दर्भैश्च भूम्यां वै कुटी धातुमती भवेत् । पञ्चरत्नानि वक्त्रे तु येन जीवः प्ररोहति ॥ २,२९.
लिप्यात्तु गोमयैर्भूमिं तिलान्दर्भांश्च निः क्षिपेत् । तस्यामेवातुरो मुक्तः सर्वं दहति पातकम् ॥ २,२९.
दर्भमूलीनयेत्स्वर्गं संस्थितं नात्र संशयः । दर्भांस्तत्र हि ये भूम्यां तिलयुक्तान संशयः ॥ २,२९.
सर्वत्र वसुधा पूता यत्र लेपो न विद्यते । यत्र लेपः स्थितस्तत्र पुनर्लेपेन शुध्यति ॥ २,२९.
यातुधानाः पिशाचाश्च राक्षसाः क्रूरकर्मिणः । अलिप्ते आतुरं मुक्तं विशन्त्येते न संशयः ॥ २,२९.
नित्यहोमं तथा श्राद्धं विप्राणां पादशोधनम् । मण्डलेन विना भूम्यां कुर्वन्त्येतच्च निष्फलम् ॥ २,२९.
आतुरो मुच्यते नैव मण्डलेन विना भुवि । ब्रह्मा रुद्रश्च विष्णुश्च श्रीर्हुताशन एव च । मण्डले चोपतिष्ठन्तस्तस्मात्कुर्वीत मण्डलम् ॥ २,२९.
अन्यथा म्रियते यस्तु बालो वृद्धो युवापि वा । योन्यन्तरं स वै गच्छेत्क्रीडते वायुना सह ॥ २,२९.
मिश्रितं लोहताम्रं तु तथैव जन्म जायते । तस्मैवं वायुभूतस्य न श्राद्धं नोदक क्रिया ॥ २,२९.