किमर्थं पुत्रपुत्राश्च तस्य तिष्ठन्ति चाग्रतः । किमर्थं दीपदानञ्च किमर्थं विष्णुपूजनम् ॥ २,२८.
किमर्थमातुरो दानं ददाति द्विजपुङ्गवे । बन्धून्मित्राण्यमित्रांश्च क्षमापयति तत्कथम् ॥ २,२८.
तिला लोहं हिरण्यं च कार्पासं लवणं तथा । सप्तधान्यं क्षितिर्गावो दीयते केन हे तुना ॥ २,२८.
कथं च म्रियते जन्तुर्मृतस्य च कुतो गतिः । अतिवाहशरीरं च कथं विश्रमते तदा ॥ २,२८.
शंव स्कन्धे वहेत्पुत्रो वह्निदाता च पौत्रकः । किमर्थं देव देवेश आज्येनाभ्यञ्जनं कुतः ॥ २,२८.
यमसूक्तं किमर्थं च उदीचीं दिशमाहरेत् । पानीयमेकवस्त्रेण सूर्यबिम्बनिरीक्षणम् ॥ २,२८.
यवसर्षपदूर्वाश्चपाषाणे निम्बचर्वणम् । वस्त्रं नरश्च नारी च विदध्यादधरोत्तरम् ॥ २,२८.
अन्नाद्यं गृहमागत्य भोक्तव्यं गोत्रिभिः सह । नवकानि च पिण्डानि किमर्थं वितरेत्सुतः ॥ २,२८.
किमर्थं चत्वरे दुग्धं पात्रे पक्वे च मृन्मये । काष्ठत्रयं गुणे बद्ध्वा कृत्वा रात्रौ चतुष्पथे ॥ २,२८.
निशायां दीयते दीपो यावदब्दं दिनेदिने । दाहोदकं किमर्थं च संवादः स्वजनैः सह ॥ २,२८.
भगवन्नतिवाहस्य नवपिण्डैस्तु किं भवेत् । कथं देवपितृभ्यश्च वाहस्यावाहनं कथम् । इदं च क्रियते देव कस्मात्पिण्डं प्रदापयेत् ॥ २,२८.
किं तत्प्रदीयते तस्य पिण्डदानादनन्तरम् । अस्थिसञ्चयनं चैव शय्यादानं किमर्थकम् ॥ २,२८.
द्वितीयेऽह्नि कुतः स्नानं चतुर्थे साग्निके द्विजे । दशमे किं मलस्नानं कार्यं सर्वजनैः सह ॥ २,२८.
कस्मात्तैलोद्वर्तनं च स्कन्धवाहान् गृहं नयेत् । तैः समुद्वर्तनं चापि दद्युः स्थलजलाश्रये ॥ २,२८.
देशमेऽहनि यः पिण्डस्तं दद्यादामिषेण तु । पिण्डं चैकादशे कस्माद्वृषोत्सर्गः कथं भवेत् ॥ २,२८.
श्राद्धानि षोडशैतानि अब्दं यावत्कुतो वद । अन्नादिचोदकेनैव षष्ट्यधिकशतत्रयम् ॥ २,२८.
दिनेदिने च दातव्यं घटान्नं प्रेततृप्तये । प्राप्ते काले च म्रियते अनित्यो मानवः प्रभो ॥ २,२८.
छिद्रं तु नैव पश्यामि कुतो जीवः स निर्गतः । कुतो गच्छन्ति भूतानि पृथिव्यापो मनस्तथा ॥ २,२८.
तेजो वदस्व मे नाथ वायुराकाशमेव च । वायवश्चैव पञ्चैते कथं गच्छन्ति चाप्तये ॥ २,२८.
लोभमोहादयः पञ्च शरीरे चैव तस्कराः । तृष्णा कामोऽप्यहङ्कारः कुतो यान्ति जनार्दन ॥ २,२८.
पुण्यं वाप्यथ वापुण्यं यत्किञ्चित्सुकृतं तथा । नष्टे देहे कुतो यान्ति दानानि विविधानि च ॥ २,२८.
सपिण्डनं किमर्थं च पूर्णे संवत्सरेऽपि वा । प्रेतस्य मेलनं सार्धं कैः समं तत्र को विधिः ॥ २,२८.
ये दग्धा ये त्वदग्धाश्च पतिता ये नराभुवि । यानि चान्यानि भूतानि तेषामन्ते भवेच्च किम् ॥ २,२८.
पापिनो ये दुराचारा मुद्गलत्वं च ये गताः । आत्मघाती ब्रह्महा च स्तेयी विश्वासघातकः ॥ २,२८.
कपिलां यः पिबेच्छूद्रो यः पठेद्वैदिकाक्षरम् । धारयेद्वा ब्रह्मसूत्रं का गतिस्तस्य माधव ॥ २,२८.
विप्रस्य ब्राह्मणी भार्या संगृही ता यदा भवेत् । तस्मात्पापाच्च भीतोऽहं तन्मे वद जगत्पते । सर्वमेतन्मया पृष्टो वद लोकहिताय वै ॥ २,२८.
श्रीगरुडमहापुराणम् २९ श्रीकृष्ण उवाच । साधु पृष्टं त्वया भद्र मानुषाणां हिताय वै । शृणुष्वावहितो भूत्वा सर्वमेवौर्ध्वदैहिकम् ॥ २,२९.
कम्यग्विभेदरहितं श्रुतिस्मृतिसमुद्धृतम् । यन्न दृष्टं सुरैः सेन्द्रैर्योगिभिर्योगचिन्तकैः ॥ २,२९.
गुह्याद्गुह्यतरं वत्स नाख्यातं कस्यचित्क्वचित् । भक्तस्त्वं हि महाभाग सर्वं ते कथयाम्यहम् ॥ २,२९.
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । येन केनाप्युपायेन कार्यं जन्म सुतस्य च ॥ २,२९.