प्रेत उवाच । साधु पृष्टं महाराज कथयामि निबोध ते । प्रेतत्वं न भवेद्येन दानेन सुदृढेन च ॥ २,२७.
दानं प्रेतघटं नाम सर्वाशुभविनाशनम् । दुर्लभं सर्वलोकानां दुर्गतिक्षयकारकम् ॥ २,२७.
सन्तप्तहाटकमयं तु घटं विधाय ब्रह्मोशकेशवयुतं सह लोकपालैः । क्षीराज्यपूर्णविवरं प्रणिपत्य भक्त्या विप्राय देहि तव दानशतैः किमन्यैः ॥ २,२७.
ब्रह्मा मध्ये तथा विष्णुः शङ्करः शङ्करोऽव्ययः । प्राच्यादिषु च तत्कण्ठे लोकपालान्क्रमेण तु ॥ २,२७.
सम्पूज्य विधिवद्राजन्धूपैः कुसुमचन्दनैः । ततो दुग्धाज्यसहितं घटं देयं हिरण्मयम् ॥ २,२७.
सर्वदानाधिकञ्चैतन्महापातकनाशनम् । कर्तव्यं श्रद्धया राजन्प्रेतत्वविनिवृत्तये ॥ २,२७.
श्रीभागवानुवाच । एवं संजल्षतस्तस्य प्रेतेन नियतात्मनः । सेनाजगामानुपदं हस्त्यश्वरथसंकुला ॥ २,२७.
ततो बले समायाते दत्त्वा राज्ञे महामणिम् । नमस्कृत्य पुनः प्रार्थ्य प्रेतोऽदर्शनमीयिवान् ॥ २,२७.
तस्माद्वनाद्विनिष्क्रम्य राजापि स्वपुरं ययौ । स्वपुरं स समासाद्य सर्वं तत्प्रेतभाषितम् ॥ २,२७.
चकार विधिवत्पक्षिन्नौर्ध्वदेहादिकं विधिम् । तस्य पुण्यप्रदानेन प्रेतो मुक्तो दिवं ययौ ॥ २,२७.
श्राद्धेन परदत्तेन गतः प्रेतोऽपि सद्गतिम् । किं पुनः पुत्रदत्तेन पिता यातीति चात्भुतम् ॥ २,२७.
इतिहासमिमं पुण्यं शृणोति श्रावयेच्च यः । न तौ प्रेतत्वमायातः पापाचारयुतावपि ॥ २,२७.
श्रीगरुडमहापुराणम् २८ गरुड उवाच । सर्वेपामनुकम्पार्थं ब्रूहि मे मधुसूदन । प्रेतत्वान्मुच्यते येन दानेन सुकृतेन वा ॥ २,२८.
शृकृष्ण उवाच । शृणु दानं प्रवक्ष्यामि सर्वाशु भविनाशनम् । सन्तप्तहाटकमयं घटकं विधाय ब्रह्मेशकेशवयुतं सह लोकपालैः । क्षीराज्यपूर्णविविरं प्रणिपत्य भक्त्या विप्राय देहि तव दानशतैः किमन्यैः ॥ २,२८.
गरुड उवाच । किमेत्कथितं देव विस्तरेण वदस्व मे । आमुष्मिकीं क्रीयां देव उत्क्रान्तिसमयादनु ॥ २,२८.
संसारे साधु मे नाथ ब्रूहि कृत्यं जनार्दन । यथा कार्या नरैः सम्यक्क्रिया चैवौर्ध्वदैहिकी ॥ २,२८.
कथं प्रेता महाकाया रौद्ररूपा भयानकाः । कम्भवन्ति सुरश्रेष्ठ कर्मभिः कैः शुभाशुभैः ॥ २,२८.
पिशाचाः सम्भवन्तीह कस्येदं कर्मणः फलम् । तन्मे कथय देवेश अहमिच्छामि वेदितुम् ॥ २,२८.
भूम्यां प्रक्षिप्यते कस्मात्पञ्चरत्नं कुतो मुखे । अधस्ताच्च तिला दर्भाः पादौ याम्यां व्यवस्थिताः ॥ २,२८.
किमर्थं मण्डलं भूमौ गोमयेनोपलिप्यते । किमर्थं स्मर्यते विष्णुः विष्णुसूक्तञ्च पठ्यते ॥ २,२८.
किमर्थं पुत्रपुत्राश्च तस्य तिष्ठन्ति चाग्रतः । किमर्थं दीपदानञ्च किमर्थं विष्णुपूजनम् ॥ २,२८.
किमर्थमातुरो दानं ददाति द्विजपुङ्गवे । बन्धून्मित्राण्यमित्रांश्च क्षमापयति तत्कथम् ॥ २,२८.
तिला लोहं हिरण्यं च कार्पासं लवणं तथा । सप्तधान्यं क्षितिर्गावो दीयते केन हे तुना ॥ २,२८.
कथं च म्रियते जन्तुर्मृतस्य च कुतो गतिः । अतिवाहशरीरं च कथं विश्रमते तदा ॥ २,२८.
शंव स्कन्धे वहेत्पुत्रो वह्निदाता च पौत्रकः । किमर्थं देव देवेश आज्येनाभ्यञ्जनं कुतः ॥ २,२८.
यमसूक्तं किमर्थं च उदीचीं दिशमाहरेत् । पानीयमेकवस्त्रेण सूर्यबिम्बनिरीक्षणम् ॥ २,२८.
यवसर्षपदूर्वाश्चपाषाणे निम्बचर्वणम् । वस्त्रं नरश्च नारी च विदध्यादधरोत्तरम् ॥ २,२८.
अन्नाद्यं गृहमागत्य भोक्तव्यं गोत्रिभिः सह । नवकानि च पिण्डानि किमर्थं वितरेत्सुतः ॥ २,२८.
किमर्थं चत्वरे दुग्धं पात्रे पक्वे च मृन्मये । काष्ठत्रयं गुणे बद्ध्वा कृत्वा रात्रौ चतुष्पथे ॥ २,२८.
निशायां दीयते दीपो यावदब्दं दिनेदिने । दाहोदकं किमर्थं च संवादः स्वजनैः सह ॥ २,२८.