तत्राहं न्यवसं भूयो देवार्चनरतः सदा । वैश्यो जात्या सुदेवोऽहं नाम्ना विदितमस्तु ते ॥ २,२७.
हव्येन तर्पिता देवाः कव्येन पितरस्तथा । विविधैर्दानयोगैश्च विप्राः सन्तर्पिता मया ॥ २,२७.
आवाहाश्च विवाहाश्च मया वै सुनिवेशिताः । दीनानाथविशिष्टेभ्यो मया दत्तमनेकधा ॥ २,२७.
तत्सर्वं विफलं तात मम दैवादुपागतम् । यथा मे निष्फलं जातं सुकृतं तद्वदामि ते ॥ २,२७.
न मेऽस्ति सन्ततिस्तात न सुहृन्न च बान्धवः । न च मित्रं हि मे तादृग्यः कुर्यादौर्ध्वदैहिकम् ॥ २,२७.
प्रेतत्वं सुस्थिरं तेन मम जातं नृपोत्तम । एकादशं त्रिपक्षं च षाण्मासिकमथाब्दिकम् । प्रतिमास्यानि चान्यानि एवं श्राद्धानि षोडश ॥ २,२७.
यस्यैतानि न दीयन्ते प्रेतश्राद्धानि भूपते । प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥ २,२७.
एवं ज्ञात्वा महाराज प्रेतत्वादुद्धरस्व माम् । वर्णानां चापि सर्वेषां राजा बन्धुरिहोच्यते ॥ २,२७.
तन्मां तारय राजेन्द्र मणिरत्नं ददामि ते । यथा मम शुभावाप्तिर्भवेन्नृपवरोत्तम ॥ २,२७.
तथा कार्यं महाबाहो कृपा यदि मयीष्यते । आत्मनश्च कुरु क्षिप्रं सर्वमेवौर्ध्वेदैहिकम् ॥ २,२७.
नृपतिरुवाच । कथं प्रेता भवन्तीह कृतैरप्यौर्ध्वदैहिकैः । पिशाचाश्च भवन्तीह कर्मभिः कैश्च तद्वद ॥ २,२७.
प्रेत उवाच । देवद्रव्यं च ब्रह्मस्वं स्त्रीबालधनसञ्चयम् । ये हरन्ति नृपश्रेष्ठ प्रेतयोनिं व्रजन्ति ते ॥ २,२७.
तापसीं च सगोत्रां च अगम्यां ये भजन्ति हि । भवन्ति ते महाप्रेता अम्बुजानि हरन्ति ये ॥ २,२७.
प्रवालवज्रहर्तारो ये च वस्त्रापहारकाः । तथा हिरण्यहर्तारः संयुगेऽसन्मुखागताः ॥ २,२७.
कृतघ्ना नास्तिका रौद्रास्तथा साहसिका नराः । पञ्चयज्ञविनिर्मुक्ता महादानरताश्च ये ॥ २,२७.
स्वामिद्रोहकरा मित्रब्राह्मद्रोहकराश्च ये । तीर्थपापकरा राजञ्जायन्ते प्रेतयोनयः । एवमाद्या महाराज जायन्ते प्रेतयोनयः ॥ २,२७.
राजोवाच । कथं मुक्ता भवन्तीह प्रेतत्वात्त्वं च तेऽपि च । कथं चापि मया कार्यमौर्ध्वदैहिकमात्मनः । विधिना केन तत्कार्यं सर्वमेतद्वदस्व मे ॥ २,२७.
प्रेत उवाच । शृणु राजेन्द्र संक्षेपाद्विधिं नारायणात्मकम् । सच्छास्त्रश्रवणं विष्णोः पूजा सज्जनसंगतिः ॥ २,२७.
प्रेतयोनिविनाशाय भवन्तीति मया श्रुतम् । अतो वक्ष्यामि ते विष्णुपूजां प्रेतत्वनाशिनीम् ॥ २,२७.
सुवर्णद्वयमाहृत्य मूर्तिं भूप प्रकल्पयेत् । नारायणस्य देवस्य सर्वाभरणभूषिताम् ॥ २,२७.
पीतवस्त्रयुगाच्छन्नां चन्दनागुरुचर्चिताम् । स्नापयेद्विविधैस्तोयैरधिवास्य यजेत्ततः ॥ २,२७.
पूर्वे तु श्रीधरं देवं दक्षिणे मधुसूदनम् । पश्चिमे वानमं देवमुत्तरे च गदाधरम् ॥ २,२७.
मध्ये पितामहं पूज्य तथा देवं महेश्वरम् । पूजयेच्च विधानेन गन्धपुष्पादिभिः पृथक् ॥ २,२७.
ततः प्रदक्षिणीकृत्य अग्नौ सन्तर्प्य देवताः । घृतेन दध्ना क्षीरेण विश्वान्देवांस्तथा नृप ॥ २,२७.
ततः स्नातो विनीतात्मा यजमानः समाहितः । नारायणाग्रे विधिवत्स्वक्रियामौर्ध्वदैहिकीम् ॥ २,२७.
आरभेत विनीतात्मा क्रोधलोभविवर्जितः । श्राद्धानि कुर्यात्सर्वाणि वृषस्योत्सर्जनं तथा ॥ २,२७.
त्रयोदशानां विप्राणां वस्त्रच्छत्राण्युपानहौ । अङ्गुलीयकमुक्तानि भाजनासनभोजनैः ॥ २,२७.
सान्नाश्च सोदका देया घटाः प्रेतहिताय वै । शय्यादानमथो दत्त्वा घटं प्रेतस्य निर्वपेत् ॥ २,२७.
नारायणेति सन्नाम संपुटस्थं समर्चयेत् । एवं कृत्वाथ विधिवच्छुभाशुभफलं लभेत् ॥ २,२७.
राजोवाच । कथं प्रेतघटं कुर्याद्दद्यात्केन विधानतः । ब्रूहि सर्वानुकम्पार्थं घटं प्रेतविमुक्तिदम् ॥ २,२७.