पुनश्चिरायुषो भूत्त्वा जायन्ते विपुले कुले । पतिव्रता यथा नारी भर्तृदुःखं न विन्दति ॥ २,२६.
सर्वमेतद्धि कथितं मया तव खगेश्वर । विशेषं कथयिष्यामि मृतस्यैव सुखप्रदम् ॥ २,२६.
द्वादशाहे कृतं सर्वं वर्षं यावत्सपिण्डनम् । पुनः कुर्यात्सदा नित्यं घटान्नं प्रतिमासिकम् ॥ २,२६.
कृतस्य करणं नास्ति प्रेतकार्यादृते खग । यः करोति नरः कश्चित्कृत्पूर्वं विनश्यति ॥ २,२६.
मृतस्यैव पुनः कुर्यात्प्रेतोऽक्षय्यमवाप्नुयात् । प्रतिमासं घटा देया सोदना जलपूरिताः ॥ २,२६.
अर्वाक्च वृद्धेः करणाच्च तार्क्ष्य सपिण्डनं यः कुरुते हि पुत्रः । तथापि मासं प्रतिपिण्डमेकमन्नं च कुम्भं सजलं च दद्यात् ॥ २,२६.
श्रीगरुडमहापुराणम् २७ तार्क्ष्य उवाच । कथं प्रेता वसन्त्यत्र कीदृग्रूपा भवन्ति ते । महाप्रेताः पिशाचाश्च कैःकैः कर्मफलैर्विभो । सर्वेषामनुकम्पार्थं ब्रूहि मे मधुसूदन ॥ २,२७.
प्रेतत्वान्मुच्यते येन दानेन च शुभे न च । तन्मे कथय देवेश मम चेदिच्छसि प्रियम् ॥ २,२७.
श्रीकृष्ण उवाच । साधु पृष्टं त्वया तार्क्ष्य मानुषाणां हिताय वै । शृणुचावहितो भूत्वा यद्वच्मि प्रेतलक्षणम् ॥ २,२७.
गुह्यद्गुह्यतरं ह्येतन्नाख्येयं यस्य कस्यचित् । भक्तस्त्वं हि महाबाहो तेन ते कथयाम्यहम् ॥ २,२७.
पुरा त्रेतायुगे तात राजासीद्बभ्रुवाहनः । महोदयपुरे रम्ये धर्मनिष्ठो महाबलः ॥ २,२७.
यज्वा दानपतिः श्रीमान्ब्रह्मण्यः साधुसंमतः । शीलाचारगुणोपेतो दयादाक्षिण्यसंयुतः ॥ २,२७.
प्रजाः पालयते नित्यं पुत्रानिव महाबलः । क्षत्त्रधर्मरतो नित्यं स दण्ड्यान्दण्डयन्नृपः ॥ २,२७.
स कदाचिन्महाबाहुः ससैन्योमृगयां गतः । वनं विवेश गहनं नानावृक्षसमन्वितम् ॥ २,२७.
शार्दूलशतसंजुष्टं नानापक्षिनिनादितम् । वनमध्ये तदा राजा मृगं दूरादपश्यत ॥ २,२७.
तेन विद्धो मृगोऽतीव बाणेन सुदृढेन च । बाणमादाय तं तस्य स वनेऽदर्शनं ययौ ॥ २,२७.
कक्षे तच्छोणितस्त्रावात्स राजानुजगाम तम् । ततो मृगप्रसङ्गेन वनमन्यद्विवेश सः ॥ २,२७.
क्षुत्क्षामकण्ठो नृपतिः श्रमसन्तापमूर्छितः । जलस्थानं समासाद्य साश्व एवावगाहत ॥ २,२७.
पीत्वा तदु दकं शीतं पद्मगन्धाधिवासितम् । तत उत्तीर्य सलिलाद्विमलाद्बभ्रुवाहनः ॥ २,२७.
न्यग्रोधवृक्षमासाद्य शीतच्छायं मनोहरम् । महाविटपिनं हृद्यं पक्षिसङ्घातनादितम् ॥ २,२७.
वनस्य तस्य सर्वस्य केतुभूतमिवोच्छ्रितम् । तं महातरुमासाद्य निषसाद महीपतिः ॥ २,२७.
अथ प्रेतं ददर्शासौ क्षुत्तृष्णाव्याकुलेन्द्रियम् । उत्कचं मलिनं कुब्जं (रूक्षं) निर्मांसं भीमदर्शनम् ॥ २,२७.
स्नायुबद्धास्थिचरणं धावमानमितस्ततः । अन्यैश्च बहुभिः प्रेतैः समन्तात्परिवारितम् ॥ २,२७.
तं दृष्ट्वा विकृतं घोरं विस्मितो बभ्रुवाहनः । प्रेतोऽपि दृष्ट्वा तां घोरामटवीमागतं नृपम् ॥ २,२७.
तदा हृष्टमना भूत्वा तस्यान्तिकमुपागतः । अब्रवीत्स तदा तार्क्ष्य प्रेतराजो नृपं वचः ॥ २,२७.
प्रेतभावो मया त्यक्तः प्राप्तोऽस्मि परमां गतिम् । त्वत्संयोगान्महाबाहो नास्तिधन्यतरो मम ॥ २,२७.
नृपतिरुवाच । कृष्णवर्णः करालास्यस्त्वं प्रेत इव लक्ष्यसे । कथयस्व मम प्रीत्या यथैवं चासि तत्त्वतः ॥ २,२७.
तथा पृष्टः स वै राज्ञा प्रोवाच सकलं स्वकम् ॥ २,२७.
प्रेत उवाच । कथयामि नृपश्रेष्ठ सर्वमेवादितस्तव । प्रेतत्वे कारणं श्रुत्वा दयां कर्तुं ममार्हसि ॥ २,२७.
वैदिशं नाम नगरं सर्वसम्पत्समन्वितम् । नानाजनपदाकीर्णं नानारत्नसमाकुलम् । नानापुण्यसमायुक्तं नानावृक्षसमाकुलम् ॥ २,२७.