ततः प्रविश्य विधिवत्कुर्य्याद्वं शोषणादिकम् 34.
अण्डमुत्पाद्य च ततः ॐ कारेणैव भेदयेत् 34.
शङ्खकुन्देन्दुधवलं मृणालरजतप्रभम् शङ्खं चक्रं गदां पद्मं धारयन्तं चतुर्भुजम् ।। 34.
किरीटिनं कुण्डलिनं वनमालासमंन्वितम् 34.
भावयित्वा महात्मानं सर्वदेवैः समन्वितम् 34.
ततश्च दर्शयेन्मुद्रां शङ्खपद्मादिकां शुभाम् 34.
ततश्चावाहयेद्रुद्र देवता आसनस्य याः 34.
आवाह्य मण्डले तास्तु पूजयेत्स्वस्तिकादिके 34.
समस्तपरिवाराय अच्युताय नम इति 34.
यमुनां च महादेवीं शङ्खपद्मनिधई तथा 34.
आधाराख्यां महादेव ततः कूर्मं समर्चयेत् 34.
वैराग्यमथ चैश्वर्य्यमाग्नेयादिषु पूजयेत् 34.
सत्त्वं रजस्तमश्चैव मध्यदेशेऽथ पूजयेत् 34.
अर्कसोमाग्निसंज्ञानां मण्डलानां हि पूजनम् 34.
विमलोत्कर्षिणी ज्ञाना क्रियायोगे वृषध्वज 34.
पूर्वादिषु च पत्रेषु पूज्याश्च विमलादयः 34.
प्रणवाद्यैर्नमोऽन्तैश्च चतुर्थ्यन्तैश्च नामभिः 34.
स्नानगन्धप्रदानेन पुष्पधूपप्रदानतः 34.
कर्त्तव्यं विधिनानेन इति ते हर कीर्त्तितम् 34.
वामनासापुटेनैव आगच्छन्तं विचिन्तयेत् 34.
आवाहनं प्रकर्त्तव्यं देवदेवस्य शङ्खिनः 34.
न्यासं कृत्वा च तत्रस्थं चिन्तयेत्परमेश्वरम् 34.
इन्द्रादिलोकपालैश्च संयुक्तं विष्णुमव्ययम् 34.
पाद्यार्घ्याचमनीयानि ततो दद्याच्च विष्णवे 34.
देवं संस्थाप्य विधिवद्वस्त्रं दद्याद्वृषध्वज 34.
ततश्च मण्डले रुद्र ध्यायेद्देवं परेश्वरम् 34.
दद्याद्भैरवदेवाय मूलमन्त्रेण शङ्कर 34.
ॐ क्षीं शिरसे नमश्च शिरसः पूजनं भवेत् 34.
ॐ क्षैं कवचाय नमः कवचं परिपूजयेत् 34.
ॐ क्षः अस्त्राय नम इति अस्त्रं चानेन पूजयेत् 34.