सपिण्डीकरणे वृत्ते पृथक्त्वं नोपपद्यते । पृथक्पिण्डे कृते पश्चात्पुनः कुर्यात्सपिण्डनम् ॥ २,२६.
सपिण्डीकरणं कृत्वा एकोद्दिष्टं करोति यः । आत्मानं च तथा प्रेतं स नयेद्दमशासनम् ॥ २,२६.
वर्षं यावक्त्रिया कार्या नामगोत्रेण धीमता । घटादि भोजनं नित्यं पददानानि यानि च । सपिण्डीकरणे वृत्ते एकस्यैव तु दापयेत् ॥ २,२६.
अन्नं पानीयसहितं संख्यां कृत्वाब्दिकस्य च । दातव्यं ब्राह्मणे पक्षिञ्जलपूर्णघटादिकम् ॥ २,२६.
पिण्डान्ते तस्य सकला वर्षवृत्तिः स्वशक्तितः । दिव्यदेहो विमानस्थः सुखं याति यमालयम् ॥ २,२६.
जीवमाने च पितरि न हि पुत्त्रे सपिण्डता । स्त्रीणां सपिण्डनं नास्ति तथा भर्तरि जीवति ॥ २,२६.
हुताशं या समारूढा चतुर्थेऽह्नि पतिव्रता । तस्या भर्तृदिने कार्यं वृषोत्सर्गादिकं च यत् ॥ २,२६.
पुत्त्रिका पतिगोत्रा स्यादधस्तात्पुत्रजन्मनः । पुत्रोत्पत्तेः परस्तात्सा पितृगोत्रं व्रजेत्पुनः ॥ २,२६.
पतिपत्न्योः सदैकत्वं हुताशं याधिरोहति । पुत्रेणैव पृथक्श्राद्धं क्षयाख्ये तस्य वासरे ॥ २,२६.
अपुत्त्रौ चेन्मृतौ स्यातामेकचित्यां समेऽहनि । पृथक्श्राद्धानि कुर्वीत सापिड्यं पतिना सह ॥ २,२६.
पृथक्पृथक्च पिण्डेन दम्पती पतिना सह । न लिप्यते महादोषैरेतत्सत्यं वचो मम ॥ २,२६.
एकचित्यां समारूढौ दम्पती निधनं गतौ । एकपाकं प्रकुर्वीत पिण्डान्दद्यात्पृथक्पृथक् ॥ २,२६.
एकादशे वृषोत्सर्गं प्रेतश्राद्धानि षोडश । घटादिपददानानि महादानानि यानि च । वर्षं यावत्पृथक्कुर्यात्प्रेतस्तृप्तिं व्रजेच्चिरम् ॥ २,२६.
एकगोत्रे मृतानां तु स्त्रिया वा पुरुषस्य वा । स्थण्डिलं चैकतः कुर्याद्धोमं कुर्यात्पृथक्पृथक् ॥ २,२६.
एकादशेऽह्नि यच्छ्राद्धं पृथक्पिण्डाश्च भोजनम् । पाकैरेन पतिस्त्रीणामन्येषां च विगर्हितम् ॥ २,२६.
एकेनैव तु पाकेन श्राद्धानि कुरुते सुतः । एकं तु विकिरं कुर्यात्पिण्डान्दद्यद्बहूनपि । तीर्थे चापरपक्षे वा चन्द्रसूर्यग्रहेऽपि वा ॥ २,२६.
नारी भर्तारमासाद्य कुणपं दहते यदा । अग्निर्दहति गात्राणि आत्मानं नैव पीडयेत् ॥ २,२६.
दह्यते ध्मायमानानां धातूनां हि यथा मलम् । तथा नारी दहेद्देहं हुताशे ह्यमृतोपमे ॥ २,२६.
दिव्यादौ दिव्यदेहस्तु शुद्धो भवति पूरुषः । तप्ततैलेन लोहेन वह्निना नैव दह्यते ॥ २,२६.
तथा सा पतिसंयुक्ता दह्यते न कदाचन । अन्तरात्मा मृते तस्मिन्मृतोऽप्येकत्वमागतः ॥ २,२६.
भर्तृसंगं परित्यज्य अन्यत्र म्रियते यदि । भर्तृलोकं न सा याति यावदाभूतसंप्लवम् ॥ २,२६.
लक्ष्मीयुतान्परित्यज्य मातरं पितरं तथा । मृतं पतिमनुव्रज्य सा चिरं सुखमेधते ॥ २,२६.
दिव्यवर्षप्रमाणेन तिस्रः कोट्योर्ऽद्धकोटयः । तावत्कालं वसेत्स्वर्गे नक्षत्रैः सह सर्वदा ॥ २,२६.
तदन्ते चरते लोके कुले भवति भोगिनाम् । सा हि लब्धमहाप्रीतिर्भर्त्रा सह पतिव्रता ॥ २,२६.
एवं न कुरुते नारी धर्मोढा पतिसंगमम् । जन्मजन्मनि दुः खार्तादुः शीलाप्रियवादिनी ॥ २,२६.
वल्गुली गृहसोधा वा गोधा वा द्विमुखी भवेत् । स्वभर्तारं परित्यज्य परपुंसोनुवर्तिनी ॥ २,२६.
तस्मात्सर्वप्रयत्नेन स्वपतिं स्त्री निषेवते । मनसा कर्मणा वाचा मृतं जीवन्तमेव वा ॥ २,२६.
जीवमाने मृते वापि किल्बिषं कुरुते तु या । स च वैधव्यमाप्नोति जन्मजन्मनि दुर्भगा ॥ २,२६.
यद्देवेभ्यो यत्पितृभ्यः श्रद्धयैव प्रदीयते । तत्फलं भर्तृपूजातः कुर्याद्भर्त्रर्चनं ततः ॥ २,२६.
एवं कृते खगश्रेष्ठ पितृलोके चिरं वसेत् । यावदादित्यचन्द्रौ च तावद्देवसमा दिवि ॥ २,२६.