स्वगोत्रेऽप्यशुचिस्तावद्यावत्पिण्डं न मेलयेत् । मेलनात्प्रेतशब्दस्तु निवर्तेत खगेश्वर ॥ २,२६.
आनन्त्यात्कुलधर्माणां पुंसाञ्चैवायुषः क्षयात् । अस्थिरत्वाच्छरीरस्य द्वादशाहः प्रशस्यते ॥ २,२६.
निरग्निकः साग्निको वा द्वादशाहे सपिण्डयेत् ॥ २,२६.
द्वादशाहे त्रिपक्षे वा षण्मासे वत्सरेऽपि वा । सपिण्डीकरणं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥ २,२६.
सपुत्त्रस्य न कर्तव्यमेकोद्दिष्टं कदाचन । सपिण्डीकरणादूर्ध्वं यत्रयत्र प्रदीयते ॥ २,२६.
तत्रतत्र त्रयं कार्यमन्यथा पितृघातकः । त्रिभिः कुर्यादशक्तश्च पार्वणं मुनिनोदितम् ॥ २,२६.
तद्दिने तद्दिने कुर्यात्पितामहमुखान्यतः । अज्ञानाद्दिनमासानां तस्मात्पार्वणमिष्यते ॥ २,२६.
अनुत्पन्नशरीरस्य न दानं पितृभिः सह । एतैः षोडशभिः श्राद्धैः प्रेतो मुक्तस्तु जायते ॥ २,२६.
अपुत्त्रस्य सपिण्डत्वं नैव कुर्यात्स्त्रियोऽपि वा । यावज्जीव च सद्भत्र्या न कुर्यात्सहपिण्डताम् ॥ २,२६.
ब्राह्मादिषु विवाहेषु या वधूरिह संस्कृता । भर्तृगोत्रेण कर्तव्यास्तस्याः पिण्डोदकक्रियाः ॥ २,२६.
आसुरादिविवा हेषु या व्यूढा कन्यका भवेत् । तस्यास्तु पितृगोत्रेण कुर्यात्पिण्डोदकक्रियाः ॥ २,२६.
पितुः पुत्त्रेण कर्तव्यं सपिण्डीकरणं सदा । पुत्त्राभावे तु पत्नी स्यात्पत्न्यभावे सहोदरः ॥ २,२६.
भ्राता वा भ्रातृपुत्त्रो वा सपिण्डः शिष्य एव वा । सपिण्डनक्रियां कृत्वा कुर्यान्नान्दीमुखं ततः ॥ २,२६.
ज्येष्ठस्यैव कनिष्ठेन भ्रातृपुत्त्रेण भार्यया । सपिण्डीकरणं कार्यं पुत्रहीने नरे खग ॥ २,२६.
भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान् भवेत् । सर्वेते तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ २,२६.
सर्वेषां पुत्रहीनानां पत्नी कुर्यात्सपिण्डनम् । ऋत्विजा कारयेद्वापि पुरोहितमथापि वा ॥ २,२६.
कृतचूडोपनीतश्च पितुः श्राद्धं समाचरेत् । उच्चारयेत्स्वधाकारं न तु वेदाक्षराण्यसौ ॥ २,२६.
भर्त्रादिभिस्त्रिभिः कार्यं सपिण्डीकरणं स्त्रियाः । पितृव्यभ्रातृपुत्रेण सोदरेण कनीयसा ॥ २,२६.
अर्वाक्संवत्सरात्सन्धौ पूर्णे संवत्सरेऽपि वा । ये सपिण्डीकृताः प्रेतास्तेषां न स्यात्पृथक्क्रिया ॥ २,२६.
सपिण्डने कृते वत्स पृथक्त्वं तु विगर्हितम् । यस्तु कुर्यात्पृथक्पिण्डं पितृहा सोऽभिजायते ॥ २,२६.
सपिण्डीकरणे वृत्ते पृथक्त्वं नोपपद्यते । पृथक्पिण्डे कृते पश्चात्पुनः कुर्यात्सपिण्डनम् ॥ २,२६.
सपिण्डीकरणं कृत्वा एकोद्दिष्टं करोति यः । आत्मानं च तथा प्रेतं स नयेद्दमशासनम् ॥ २,२६.
वर्षं यावक्त्रिया कार्या नामगोत्रेण धीमता । घटादि भोजनं नित्यं पददानानि यानि च । सपिण्डीकरणे वृत्ते एकस्यैव तु दापयेत् ॥ २,२६.
अन्नं पानीयसहितं संख्यां कृत्वाब्दिकस्य च । दातव्यं ब्राह्मणे पक्षिञ्जलपूर्णघटादिकम् ॥ २,२६.
पिण्डान्ते तस्य सकला वर्षवृत्तिः स्वशक्तितः । दिव्यदेहो विमानस्थः सुखं याति यमालयम् ॥ २,२६.
जीवमाने च पितरि न हि पुत्त्रे सपिण्डता । स्त्रीणां सपिण्डनं नास्ति तथा भर्तरि जीवति ॥ २,२६.
हुताशं या समारूढा चतुर्थेऽह्नि पतिव्रता । तस्या भर्तृदिने कार्यं वृषोत्सर्गादिकं च यत् ॥ २,२६.
पुत्त्रिका पतिगोत्रा स्यादधस्तात्पुत्रजन्मनः । पुत्रोत्पत्तेः परस्तात्सा पितृगोत्रं व्रजेत्पुनः ॥ २,२६.
पतिपत्न्योः सदैकत्वं हुताशं याधिरोहति । पुत्रेणैव पृथक्श्राद्धं क्षयाख्ये तस्य वासरे ॥ २,२६.
अपुत्त्रौ चेन्मृतौ स्यातामेकचित्यां समेऽहनि । पृथक्श्राद्धानि कुर्वीत सापिड्यं पतिना सह ॥ २,२६.