सर्वदानानि देयानि ह्यन्न दानादृते खग । संगृहीतः सुतः कुर्यादेकोद्दिष्टं न पार्वणम् ॥ २,२५.
प्रत्यब्दं पितृमातृभ्यां श्राद्धं दत्त्वा न लिप्यते । एकोद्दिष्टं परित्यज्य पार्वणं कुरुते यदि ॥ २,२५.
आत्मानं च पितॄंश्चैव स नयेद्यममन्दिरम् । संगृहीतस्तु यः केचिद्दासीपुत्त्रादयश्च ये ॥ २,२५.
तीर्थे कुर्युः पितृश्राद्धं दानं (मासं) दद्युर्द्विजन्मने । संगृहीतसुतो भूत्वा पाकं वा यः प्रयच्छति ॥ २,२५.
वृथा श्राद्धं विजानीयाच्छूद्रान्नेन यथा द्विजः । न प्रीणयति तच्छ्राद्धं पितामहमुखान्पितॄन् । एवं ज्ञात्वा स्वगश्रेष्ठ हीनजातीन्सुतांस्त्यजेत् ॥ २,२५.
(ब्राह्मण्यां ब्राह्मणाज्जातश्चाण्डालादधमः स्मृतः ) । यस्तु प्रव्रजिताज्जातो ब्राह्मण्यां शूद्रतश्च यः ॥ २,२५.
द्वावेतौ विद्धि चाण्डालौ सगोत्राद्यस्तु जायते । स्वर्यातिविहितान्पुत्रः समुत्पाद्य खगेश्वर ॥ २,२५.
तैः सुवृत्तैः सुखं प्राप्यं कुवृत्तैर्नरकं व्रजेत् । हीनजातिसमुद्भूतैः सुवृत्तैः सुखमेधते ॥ २,२५.
कलिकलुषविमुक्तः पूजितः सिद्धसङ्घैरमरचमरमालावीज्यमानोऽप्सरोभिः । पितृशतमपि बन्धून्पुत्त्रपौत्त्रप्रपौत्त्रानपि नरकनिमग्नानुद्धरेदेक एव ॥ २,२५.
श्रीगरुडमाहपुराणम् २६ गरुड उवाच । सत्यं ब्रूहि सुरश्रेष्ठ कृपां कृत्वा मयि प्रभो । मृतानां चैव जन्तूनां कदा कुर्यात्सपिण्डनम् ॥ २,२६.
सपिण्डत्वे कुतो यान्ति असपिण्डे कुतो गतिः । केनैव सहपिण्डत्वं स्त्रीपुसोर्वक्तुमर्हसि ॥ २,२६.
स्त्रीपुमांशौ सहैकत्वं पाप्नुतः कथमुत्तमम् । जीवेद्भर्तरि नारीणां सपिण्डीकरणं कुतः ॥ २,२६.
भर्तृलोकं कथं यान्ति स्वर्गलोकं सुरेश्वर । अग्न्यारोहे कथं श्राद्धं वृषोत्सर्गः कथं भवेत् ॥ २,२६.
घटदानं कथं कार्यं सपिण्डीकरणे कृते । कथयस्व प्रसादेन हीताय जगतां प्रभो ॥ २,२६.
श्रीभगवानुवाच । यथावत्कथयिष्यामि सपिण्डीकरणं खग । वर्षं यावत्खगश्रेष्ठ यदाचरति मानवः ॥ २,२६.
सपिण्डने ततो वृत्ते पितृलोकं स गच्छति । तस्मात्पुत्त्रेण कर्तव्यं सपिण्डीकरणं पितुः ॥ २,२६.
संवत्सरे तु सम्पूर्णे कुर्यात्पिण्ड प्रवेशनम् । पिण्डप्रवेशविधिना तस्य नित्यं मृताह्निकम् ॥ २,२६.
निश्चितं पक्षिशार्दूल वर्षान्ते पिण्डमेलनम् । सहपिण्डे कृते प्रेतस्ततो याति परां गतिम् । तन्नाम सम्परित्यज्य ततः पितृगणो भवेत् ॥ २,२६.
त्रिपक्षे वापि षण्मासे मेलयेत्प्रपितामहैः । ज्ञात्वा वृद्धिविवाहादि स्वगोत्रविहितानि च ॥ २,२६.
विवाहं नैव कुर्वीत मृते च गृहमेधिनि । भिक्षुर्भिक्षां न गृह्णाति यावत्कुर्यात्सपिण्डनम् ॥ २,२६.
स्वगोत्रेऽप्यशुचिस्तावद्यावत्पिण्डं न मेलयेत् । मेलनात्प्रेतशब्दस्तु निवर्तेत खगेश्वर ॥ २,२६.
आनन्त्यात्कुलधर्माणां पुंसाञ्चैवायुषः क्षयात् । अस्थिरत्वाच्छरीरस्य द्वादशाहः प्रशस्यते ॥ २,२६.
निरग्निकः साग्निको वा द्वादशाहे सपिण्डयेत् ॥ २,२६.
द्वादशाहे त्रिपक्षे वा षण्मासे वत्सरेऽपि वा । सपिण्डीकरणं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥ २,२६.
सपुत्त्रस्य न कर्तव्यमेकोद्दिष्टं कदाचन । सपिण्डीकरणादूर्ध्वं यत्रयत्र प्रदीयते ॥ २,२६.
तत्रतत्र त्रयं कार्यमन्यथा पितृघातकः । त्रिभिः कुर्यादशक्तश्च पार्वणं मुनिनोदितम् ॥ २,२६.
तद्दिने तद्दिने कुर्यात्पितामहमुखान्यतः । अज्ञानाद्दिनमासानां तस्मात्पार्वणमिष्यते ॥ २,२६.
अनुत्पन्नशरीरस्य न दानं पितृभिः सह । एतैः षोडशभिः श्राद्धैः प्रेतो मुक्तस्तु जायते ॥ २,२६.
अपुत्त्रस्य सपिण्डत्वं नैव कुर्यात्स्त्रियोऽपि वा । यावज्जीव च सद्भत्र्या न कुर्यात्सहपिण्डताम् ॥ २,२६.
ब्राह्मादिषु विवाहेषु या वधूरिह संस्कृता । भर्तृगोत्रेण कर्तव्यास्तस्याः पिण्डोदकक्रियाः ॥ २,२६.