अङ्गुष्ठमात्रः पुरुषो वायुभृतः क्षुधान्वितः । तस्माद्देयानि दानानि मृते बाले सुनिश्चितम् ॥ २,२५.
जन्मतः पञ्च वर्षाणि भुङ्क्ते दत्तमसंस्कृतम् । पञ्चवर्षाधिके बाले विपत्तिर्यदि जायते ॥ २,२५.
वृषोत्सर्गादिकं कर्म सपिण्डीकरणं विना । द्वादशे हनि सम्प्राप्ते कुर्याच्छ्राद्धानि षोडश ॥ २,२५.
पायसेन गुडेनापि पिण्डान्दद्याद्यथाक्रमम् । उदकुम्भप्रदानं च पद (उप) दानानि यानि च ॥ २,२५.
भोजनानि द्विजे दद्यान्महादानादि शक्तितः । दीपदानादि यत्किञ्चित्पञ्चवर्षाधिके सदा ॥ २,२५.
कर्तव्यं च खगश्रेष्ठ व्रतात्प्राक्प्रेततृप्तये । यदा नक्रियते सर्वं मुद्गलत्वं स गच्छति ॥ २,२५.
व्रतात्प्राङ्गेव देयं तु ततः पितृगणस्य च । स्वाहाकारेण वै कुर्यादेकोद्दिष्टानि षोडश ॥ २,२५.
ऋजुदर्भैस्तिलैः शुक्लैः प्राचीनावीति निश्चितम् । अपसव्यं च कर्तव्यं कृते यान्ति परां गतिम् ॥ २,२५.
पुनश्चिरायुषो भूत्वा जायन्ते स्वकुले ध्रुवम् । सर्वसौख्यप्रदः पुत्रः पित्रोः प्रीतिविवर्धनः ॥ २,२५.
आकाशमेकं हि यथा चन्द्रादित्यौ यथैकतः । घटादिषु पृथक्सर्वं पश्य रूपं च तत्समम् ॥ २,२५.
आत्मा तथैव सर्वेषु पुत्त्रेषु विचरेत्सदा । या यस्य प्रकृतिः पूर्वं शुक्रशोणितसङ्गमे ॥ २,२५.
सा (स) तेन भावयोगेन पुत्त्रास्तत्कर्मकारिणः । पितृरूपं समादाय कस्यचिज्जायते सुतः ॥ २,२५.
पितृतः कोऽपि रूपाढ्यो गुणज्ञो दानतत्परः । सदृशः कोऽपि लोकेऽस्मिन्न भूतो न भविष्यति ॥ २,२५.
अन्धादन्धो न भवति मूकान्मूको न जायते । बधिराद्बधिरो नैव विद्यावान्विदुषो न हि । अनुरूपा न दृश्यन्ते मदीयं वचनं शृणु ॥ २,२५.
गरुड उवाच । औरसक्षेत्रजाद्याश्च पुत्त्रा दशविधाः स्मृताः । संगृहीतः सुतो यस्तु दासीपुत्त्रश्च तेन किम् ॥ २,२५.
काङ्कां गतिमवाप्नोति जायो मृत्युवशं गतः । भवेन्न दुहिता यस्य न दौहित्रो न वा सुतः ॥ २,२५.
श्राद्धं तस्य कथं कार्यं विधिना केन तद्भवेत् । श्रीभगवानुवाच । मुखं दृष्ट्वा तु पुत्रस्य मुच्यते पैतृकादृणात् ॥ २,२५.
पौत्त्रस्य दर्शनाज्जन्तुर्मुच्यते चः ऋणत्रयात् । लोकानन्त्यं दिवः प्राप्तिः पुत्त्रपौत्त्र प्रपौत्त्रकैः ॥ २,२५.
अन्यक्षेत्रोद्भवाद्या ये भुक्तिमात्रप्रदाः सुताः । कुर्वीत पार्वणं श्राद्धमारैसो विधिवत्सुतः ॥ २,२५.
कुर्वन्त्यन्ये सुताः श्राद्धमे कोद्दिष्टं न पार्वणम् । ब्राह्मोढाजस्तून्नयति संगृहीतस्त्वधो नयेत् । श्राद्धं सांवत्सरं कुर्वञ्जायते नरकाय वै ॥ २,२५.
सर्वदानानि देयानि ह्यन्न दानादृते खग । संगृहीतः सुतः कुर्यादेकोद्दिष्टं न पार्वणम् ॥ २,२५.
प्रत्यब्दं पितृमातृभ्यां श्राद्धं दत्त्वा न लिप्यते । एकोद्दिष्टं परित्यज्य पार्वणं कुरुते यदि ॥ २,२५.
आत्मानं च पितॄंश्चैव स नयेद्यममन्दिरम् । संगृहीतस्तु यः केचिद्दासीपुत्त्रादयश्च ये ॥ २,२५.
तीर्थे कुर्युः पितृश्राद्धं दानं (मासं) दद्युर्द्विजन्मने । संगृहीतसुतो भूत्वा पाकं वा यः प्रयच्छति ॥ २,२५.
वृथा श्राद्धं विजानीयाच्छूद्रान्नेन यथा द्विजः । न प्रीणयति तच्छ्राद्धं पितामहमुखान्पितॄन् । एवं ज्ञात्वा स्वगश्रेष्ठ हीनजातीन्सुतांस्त्यजेत् ॥ २,२५.
(ब्राह्मण्यां ब्राह्मणाज्जातश्चाण्डालादधमः स्मृतः ) । यस्तु प्रव्रजिताज्जातो ब्राह्मण्यां शूद्रतश्च यः ॥ २,२५.
द्वावेतौ विद्धि चाण्डालौ सगोत्राद्यस्तु जायते । स्वर्यातिविहितान्पुत्रः समुत्पाद्य खगेश्वर ॥ २,२५.
तैः सुवृत्तैः सुखं प्राप्यं कुवृत्तैर्नरकं व्रजेत् । हीनजातिसमुद्भूतैः सुवृत्तैः सुखमेधते ॥ २,२५.
कलिकलुषविमुक्तः पूजितः सिद्धसङ्घैरमरचमरमालावीज्यमानोऽप्सरोभिः । पितृशतमपि बन्धून्पुत्त्रपौत्त्रप्रपौत्त्रानपि नरकनिमग्नानुद्धरेदेक एव ॥ २,२५.
श्रीगरुडमाहपुराणम् २६ गरुड उवाच । सत्यं ब्रूहि सुरश्रेष्ठ कृपां कृत्वा मयि प्रभो । मृतानां चैव जन्तूनां कदा कुर्यात्सपिण्डनम् ॥ २,२६.