पुनर्जन्माप्नुयान्मर्त्यस्तस्माद्देयमृते शिशोः । पुराणे गीयते गाथा सर्वथा प्रतिभाति मे ॥ २,२४.
मिष्टान्नं भोजनं देयं दाने शक्तिस्तु दुर्लभा । भोज्ये भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः ॥ २,२४.
विभवे दानशक्तिश्च नाल्पस्य तपसः फलम् । दानाद्भोगानवाप्नोति सौख्यं तीर्थस्य सेवनात् । सुभाषणान्मृतो यस्तु स विद्वान्धर्मवित्तमः ॥ २,२४.
अदत्तदानाच्च भवेद्दरिद्रो दरिद्रभावाच्च करोतिपापम् । पापप्रभावान्नरकं प्रयाति पुनर्दरिद्रः पुनरेव पापी ॥ २,२४.
श्रीगरुडमहापुराणम् २५ श्रीविष्णुरुवाच । अतः परं प्रवक्ष्यामि पुरुषस्त्री विनिर्णयम् । जीवन्वापि मृतो वापि पञ्चवर्षाधिकोऽपि वा ॥ २,२५.
पूर्णे तु पञ्चमे वर्षे पुमांश्चैव प्रतिष्ठितः । सर्वैन्द्रियाणि जानाति रूपारूपविपर्ययौ ॥ २,२५.
पूर्वकर्मविपाकेन प्राणिनां वधबन्धनम् । विप्रादीनन्त्यजान्सर्वान्पापं मारयति ध्रुवम् ॥ २,२५.
गर्भे नष्टे क्रिया नास्ति दुग्धं देयं मृते शिशौ । परं च पायसं क्षीरं दद्याद्वलविपत्तितः ॥ २,२५.
एकादशाहं द्वादशाहं वृषं वृषविधिं विना । महादानविहीनं च कुमारे कृत्यमादिशेत् ॥ २,२५.
कुमाराणां चैव बालानां भोजनं वस्त्रवेष्टनम् । बाले वा तरुणे वृद्धे घटो भवति वै मृते ॥ २,२५.
भूमौ विनिः क्षिपेद्बालं द्विमासोनं द्विवार्षिकम् । ततः परं खगश्रेष्ठ देहदाहो विधोयते ॥ २,२५.
शिशुरा दन्तजननाद्बालः स्याद्यावदाशिखम् । कथ्यते सर्वशास्त्रेषु कुमारो मौञ्जिबन्धनात् ॥ २,२५.
शूद्रादीनां कथं कुर्यात्संशयो मौञ्जिवर्जनात् । गर्भाच्च नवमं हित्वा शिशुरामासषोडशम् ॥ २,२५.
बालश्चाथ परञ्ज्ञेय आमाससप्तविंशति । आ पञ्च वर्षात्कौमारः पौगण्डो नवहांयनः ॥ २,२५.
किशोरः षोडशाब्दः स्यात्ततो यौवनमादिशेत् । मृतोऽपि पञ्चमे वर्षे अवृतः सवृतोऽपि वा ॥ २,२५.
पूर्वोक्तमेव कर्तव्यमीहते दशपिण्डकम् । स्वल्पकर्मप्रसङ्गाच्च स्वल्पाद्विषयबन्धनात् ॥ २,२५.
स्वल्षाद्वपुषि वस्त्राच्च क्रियां स्वल्पामपीच्छति । यावदुपचयो जन्तुर्यावद्विषयवेष्टितः ॥ २,२५.
यद्यद्यस्योपजीव्यं स्यात्तत्तद्देयमिहेच्छति । ब्रह्मबीजोद्भवाः पुत्रा देवर्षोणां च वल्लभाः ॥ २,२५.
यमेन यमदूतैश्च शास्यन्ते निश्चितं खग । बालो वृद्धो युबा वापि घटमिच्छन्ति देहिनः ॥ २,२५.
सुखं दुः खं सदा वेत्ति देही वै सर्वगस्त्विह । परित्यज्य तदात्मानं जीर्णां त्वचमिवोरगः ॥ २,२५.
अङ्गुष्ठमात्रः पुरुषो वायुभृतः क्षुधान्वितः । तस्माद्देयानि दानानि मृते बाले सुनिश्चितम् ॥ २,२५.
जन्मतः पञ्च वर्षाणि भुङ्क्ते दत्तमसंस्कृतम् । पञ्चवर्षाधिके बाले विपत्तिर्यदि जायते ॥ २,२५.
वृषोत्सर्गादिकं कर्म सपिण्डीकरणं विना । द्वादशे हनि सम्प्राप्ते कुर्याच्छ्राद्धानि षोडश ॥ २,२५.
पायसेन गुडेनापि पिण्डान्दद्याद्यथाक्रमम् । उदकुम्भप्रदानं च पद (उप) दानानि यानि च ॥ २,२५.
भोजनानि द्विजे दद्यान्महादानादि शक्तितः । दीपदानादि यत्किञ्चित्पञ्चवर्षाधिके सदा ॥ २,२५.
कर्तव्यं च खगश्रेष्ठ व्रतात्प्राक्प्रेततृप्तये । यदा नक्रियते सर्वं मुद्गलत्वं स गच्छति ॥ २,२५.
व्रतात्प्राङ्गेव देयं तु ततः पितृगणस्य च । स्वाहाकारेण वै कुर्यादेकोद्दिष्टानि षोडश ॥ २,२५.
ऋजुदर्भैस्तिलैः शुक्लैः प्राचीनावीति निश्चितम् । अपसव्यं च कर्तव्यं कृते यान्ति परां गतिम् ॥ २,२५.
पुनश्चिरायुषो भूत्वा जायन्ते स्वकुले ध्रुवम् । सर्वसौख्यप्रदः पुत्रः पित्रोः प्रीतिविवर्धनः ॥ २,२५.
आकाशमेकं हि यथा चन्द्रादित्यौ यथैकतः । घटादिषु पृथक्सर्वं पश्य रूपं च तत्समम् ॥ २,२५.