यः पठेत्परया भक्त्या विष्णुलोकं स गच्छति स पापं भस्मसात्कृत्वा विष्णुलोकाय कल्पते ।। 33.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सुदर्शनपूजाविधिर्नाम त्रयस्त्रिंशोऽध्यायः
पुनर्देवार्चनं ब्रूहि हृषीकेश गदाधर 34.
हरिरुवाच तच्छृणुष्व जगन्नाथो येन विष्णुः प्रतुष्यति ।। 34.
मूलमन्त्रं महादेव हयग्रीवस्य वाचकम् 34.
ॐ सौं क्षौं शिरसे नमः इति प्रणवसंयुतः 34.
अस्याङ्गानि महादेव ताञ्छृणुष्व वृषध्वज ॐ क्षीं शिरसे स्वाहाशिरः प्रोक्तं क्षूं वषट् तथा ।। 34.
ॐ कारयुक्ता देवस्य शिखा ज्ञेया वृषध्वज 34.
ॐ क्षौं नेत्रत्रयाय वौषट् नेत्रं देवस्य कीर्तितम् 34.
पूजाविधिं प्रवक्ष्यामि तन्मे निगदतः श्रृणु आदौ स्नात्वा तथाचम्य ततो यागगृहं व्रजेत् ।। 34.
ततः प्रविश्य विधिवत्कुर्य्याद्वं शोषणादिकम् 34.
अण्डमुत्पाद्य च ततः ॐ कारेणैव भेदयेत् 34.
शङ्खकुन्देन्दुधवलं मृणालरजतप्रभम् शङ्खं चक्रं गदां पद्मं धारयन्तं चतुर्भुजम् ।। 34.
किरीटिनं कुण्डलिनं वनमालासमंन्वितम् 34.
भावयित्वा महात्मानं सर्वदेवैः समन्वितम् 34.
ततश्च दर्शयेन्मुद्रां शङ्खपद्मादिकां शुभाम् 34.
ततश्चावाहयेद्रुद्र देवता आसनस्य याः 34.
आवाह्य मण्डले तास्तु पूजयेत्स्वस्तिकादिके 34.
समस्तपरिवाराय अच्युताय नम इति 34.
यमुनां च महादेवीं शङ्खपद्मनिधई तथा 34.
आधाराख्यां महादेव ततः कूर्मं समर्चयेत् 34.
वैराग्यमथ चैश्वर्य्यमाग्नेयादिषु पूजयेत् 34.
सत्त्वं रजस्तमश्चैव मध्यदेशेऽथ पूजयेत् 34.
अर्कसोमाग्निसंज्ञानां मण्डलानां हि पूजनम् 34.
विमलोत्कर्षिणी ज्ञाना क्रियायोगे वृषध्वज 34.
पूर्वादिषु च पत्रेषु पूज्याश्च विमलादयः 34.
प्रणवाद्यैर्नमोऽन्तैश्च चतुर्थ्यन्तैश्च नामभिः 34.
स्नानगन्धप्रदानेन पुष्पधूपप्रदानतः 34.
कर्त्तव्यं विधिनानेन इति ते हर कीर्त्तितम् 34.
वामनासापुटेनैव आगच्छन्तं विचिन्तयेत् 34.