अश्रद्दधानमशुचिं नास्तिकं त्यक्तमङ्गलम् । परद्रोहानृतरं ब्राह्मणं यत (म) मन्दिरम् ॥ २,२४.
अरक्षितारं राजानं नित्यं धर्मविवर्जितम् । क्रूरं व्यसनिनं मूर्खं वेदवादबहिष्कृतम् । प्रजापीडनकर्तारं राजानं यमशासनम् ॥ २,२४.
प्रापयन्ति वशं मृत्योस्ततो याति च यातनाम् । स्वकर्माणि परित्यज्य मुख्यवृत्तानि यानि च ॥ २,२४.
परकर्मरतो नित्यं यमलोकं स गच्छति । शूद्रः करोतिः यत्किञ्चिद्विजशुश्रूषणं विना ॥ २,२४.
उत्तमाधममध्ये वा यमलोके स पच्यते । स्नानं दानं जपो होमो स्वाध्यायो दवर्ताच्चनम् ॥ २,२४.
यस्मिन्दिने न सेव्यन्ते स वृथा दिवसो नृणाम् । अनित्यमध्रुवं देहमनाधारं रसोद्भवम् ॥ २,२४.
अन्नोदकमये देहे गुणानेतान्वदाम्यहम् । यत्प्रातः संस्कृतं सायं नूनमन्नं विनश्यति ॥ २,२४.
तदीयरससम्पुष्टकाये का बत नित्यता । गतं ज्ञात्वा तु पक्षीन्द्र वपुरर्धं स्वकर्मभिः ॥ २,२४.
नरः पापविनाशाय कुर्वीत परमौषधम् । देहः किमन्नदातुः स्विन्निषेक्तुर्मातुरेव वा ॥ २,२४.
उभयोर्वा प्रभोर्वापि बालनोग्नेः शुनोऽपि वा । कस्तत्र परमो यज्ञः कृमिविड्भस्मसंज्ञके ॥ २,२४.
कर्तव्यः परमो यत्नः पातकस्य विनाशने । अनेकभवसम्भूतं पातकं तु त्रिधा कृतम् ॥ २,२४.
यदा प्राप्नोति मानुष्यं तदा सर्वं तपत्यपि । सर्वजन्मानि संस्मृत्य विषादी कृतचेतनः ॥ २,२४.
अवेक्ष्य गर्भवासांश्च कर्मजा गतयस्तथा । मानुषोदरवासी चेत्तदा भवति पातकी ॥ २,२४.
अण्डजादिषु भूतेषु यत्रयत्र प्रसर्पति । आधयो व्याधयः क्लेशा जरारूपविपर्ययः ॥ २,२४.
गर्भवासाद्विनिर्मुक्तस्त्वज्ञानतिमिरावृतः । न जानातिः खगश्रेष्ठ बालभावं समाश्रितः ॥ २,२४.
यौवने तिमिरान्धश्च यः पश्यति स मुक्तिभाक् । आधानान्मृत्युमाप्नोति बालो वा स्थविरो युवा ॥ २,२४.
सधनो निर्धनश्चैव सुकुमारः कुरूपवान् । अविद्वांश्चैव विद्वांश्च ब्राह्मणास्त्वितरो जनः ॥ २,२४.
तपोरतो योगशीलो महाज्ञानी च यो नरः । महादानरतः श्रीमान्धर्मात्मातुलविक्रमः । विना मानुपदेहं तु सुखं दुः खं न विन्दति ॥ २,२४.
प्राकृतैः कर्मपाशैस्तु मृत्युमाप्नोति मानवः । आधानात्पञ्च वर्षाणि स्वल्पपापैर्विपच्यते ॥ २,२४.
पञ्चवर्षाधिको भूत्वा महापापैर्विपच्यते । योनिं पूरयते यस्मान्मृतोऽप्यायाति याति च ॥ २,२४.
मृतो दानप्रभावेण जीवन्मर्त्यश्चिरं भुवि । सूत उवाच । इति कृष्णवचः श्रुत्वा गरुडो वाक्यमब्रवीत् ॥ २,२४.
गरुड उवाच । मृते बाले कथं कुर्यात्पिण्डदानादिकाः क्रियाः । गर्भेषु च विपन्नानामाचूडाकरणाच्छिशोः ॥ २,२४.
कथं किं केन दातव्यं मृतान्ते को विधिः स्मृतः । गरुडोक्तमिति श्रुत्वा विष्णुर्वाक्यमथाब्रवीत् ॥ २,२४.
श्रीविष्णुरुवाच । यदि गर्भो विपद्यते स्त्रवते वापि योषितः । यावन्मासं स्थितो गर्भस्तावद्दिनमशौचकम् ॥ २,२४.
तस्य किञ्चिन्न कर्तव्यमात्मनः श्रेय इच्छता । ततो जाते विपन्ने तु आ चूडाकरणाच्छिशोः ॥ २,२४.
दुग्धं भोज्यं ताशक्ति बालानां च प्रदीयते । आ चूडात्पञ्चवर्षे तु देहदाहो विधीयते ॥ २,२४.
दुग्धं तस्य प्रदेयं स्याद्बालानां भोजनं शुभम् । पञ्चवर्षाधिके प्रेते स्वजातिविहितानि च ॥ २,२४.
कुर्यात्कर्माणि सर्वाणि चोदकुम्भादि पायसम् । दातव्यं तु खगश्रेष्ठ ऋणसम्बन्धकस्तु सः ॥ २,२४.
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । कर्तव्यं पक्षिशार्दूल पुनर्देहक्षयाय वै ॥ २,२४.
तस्मै यद्रोचते देयमदत्त्वा निर्धने कुले । स्वल्पायुर्निर्धनो भूत्वा रतिभक्तिविवर्जितः ॥ २,२४.