वृषभारोहणं स्वप्ने वृषभैः सह गच्छति । उत्पत्य गगनं याति तीर्थे याति क्षुधातुरः ॥ २,२३.
स्ववाचा वदते यस्तु गोवृषद्विजावाजिषु । लिङ्गे गजे तथा देवे भूते प्रेते निशाचरे ॥ २,२३.
स्वप्नमध्ये तु पक्षीन्द्र प्रेतलिङ्गान्यनेकधा । स्वकलत्रं स्वबन्धुं वा स्वसुतं स्वपतिं विभुम् । विद्यमानं मृतं पश्येत्प्रेतदोषेण निश्चितम् ॥ २,२३.
याचते यः परं स्वप्ने क्षुत्तृड्भ्यां च परिप्लुतः । तीर्थे गत्वा दहेत्पिण्डान्प्रेतदौषैर्न संशयः ॥ २,२३.
निर्गच्छेद्वा गृहाद्वापि स्वप्ने पुत्रस्तथा पशुः । पिता भ्राता कलत्रं च प्रेतदोषैस्तु पश्यति ॥ २,२३.
चिह्नान्येतानि पक्षीन्द्र प्रायश्चित्तं निवेदयेत् । कृत्वा स्नानं गृहे तीर्थे श्रीवृक्षे तर्पणं जलैः ॥ २,२३.
कृष्णधान्यानि पूजां च प्रदद्याद्वेदपारगे । होमं कुर्याद्यथाशक्ति सम्पूर्णं वाचयेत्सुधीः ॥ २,२३.
एतद्धि श्रद्धया यस्तु प्रेतलिङ्गनिदर्शनम् । पठते शृणुते वापि प्रेतचिह्नं विनश्यति ॥ २,२३.
श्रीगरुडमहापुराणम् २४ गरुड उवाच । नाकाले म्रियते कश्चिदिति वेदानुशासनम् । कस्मान्मृत्युमवाप्नोति राजा वा श्रोत्रियोपि वा ॥ २,२४.
यदुक्तं ब्राह्मणा पूर्वमनृतं तद्धि दृश्यते । वेदैरुक्तं तु यद्वाक्यं शतं जीवति मानुषे ॥ २,२४.
जीवन्ति मानुषे लोके सर्वे वर्णा द्विजातयः । अन्त्यजाम्लेच्छजाश्चैव खण्डे भारतसंज्ञके ॥ २,२४.
न दृश्यते कलौ तच्च कस्माद्देव समादिश । (आधानान्मृत्युमाप्नोति बालो वा स्थविरो युबा ॥ २,२४.
सधनो निर्धनो वापि सुकुमारः सुरूपवान् । अविद्वांश्चैव विद्वांश्च ब्राह्मणस्त्वितरो जनः ॥ २,२४.
तपोरतो योगशीलो महाज्ञानी च यो नरः । सर्वज्ञानरतः श्रीमान्धर्मात्मातुलविक्रमः ॥ २,२४.
) सर्वमेतदशषेण जायते वसुधातले । कस्मान्मृत्युमवाप्नोति राजा वा श्रोत्रियोऽपि वा ॥ २,२४.
श्रीभगवानुवाच । साधुसाधु महाप्राज्ञ यस्त्वं भक्तोऽसि मे प्रियः । श्रूयतां वचनं गुह्यं नानादेशविनाशनम् ॥ २,२४.
विधातृविहितो मृत्युः शीघ्रमादाय गच्छति । ततो वक्ष्यामि पक्षीन्द्र काश्यपेय महाद्युते ॥ २,२४.
मानुषः शतजीवीति पुरा वेदेन भाषितम् । विकर्मणः प्रभावेण शीघ्रं चापि विनश्यति ॥ २,२४.
वेदानभ्यसनेनैव कुलाचारं न सेवते । आलस्यात्कर्मणां त्यागो निषिद्धेऽप्यादरः सदा ॥ २,२४.
यत्र तत्र गृहेऽश्राति परक्षेत्ररतस्तथा । एतैरन्यैर्महादोषैर्जायते चायुषः क्षयः ॥ २,२४.
अश्रद्दधानमशुचिं नास्तिकं त्यक्तमङ्गलम् । परद्रोहानृतरं ब्राह्मणं यत (म) मन्दिरम् ॥ २,२४.
अरक्षितारं राजानं नित्यं धर्मविवर्जितम् । क्रूरं व्यसनिनं मूर्खं वेदवादबहिष्कृतम् । प्रजापीडनकर्तारं राजानं यमशासनम् ॥ २,२४.
प्रापयन्ति वशं मृत्योस्ततो याति च यातनाम् । स्वकर्माणि परित्यज्य मुख्यवृत्तानि यानि च ॥ २,२४.
परकर्मरतो नित्यं यमलोकं स गच्छति । शूद्रः करोतिः यत्किञ्चिद्विजशुश्रूषणं विना ॥ २,२४.
उत्तमाधममध्ये वा यमलोके स पच्यते । स्नानं दानं जपो होमो स्वाध्यायो दवर्ताच्चनम् ॥ २,२४.
यस्मिन्दिने न सेव्यन्ते स वृथा दिवसो नृणाम् । अनित्यमध्रुवं देहमनाधारं रसोद्भवम् ॥ २,२४.
अन्नोदकमये देहे गुणानेतान्वदाम्यहम् । यत्प्रातः संस्कृतं सायं नूनमन्नं विनश्यति ॥ २,२४.
तदीयरससम्पुष्टकाये का बत नित्यता । गतं ज्ञात्वा तु पक्षीन्द्र वपुरर्धं स्वकर्मभिः ॥ २,२४.
नरः पापविनाशाय कुर्वीत परमौषधम् । देहः किमन्नदातुः स्विन्निषेक्तुर्मातुरेव वा ॥ २,२४.
उभयोर्वा प्रभोर्वापि बालनोग्नेः शुनोऽपि वा । कस्तत्र परमो यज्ञः कृमिविड्भस्मसंज्ञके ॥ २,२४.