इष्ट्वा वै वाश्वमेधादीन्दद्याद्दानानि यो नरः । आरामोद्यानवाप्यादेः प्रपायाश्चैव कारकः ॥ २,२२.
कुमारीं ब्राह्मणानां तु विवाहयति शक्तितः । विद्यादोऽभयदश्चैव न प्रेतो जायते नरः ॥ २,२२.
शूद्रान्नेन तु भुक्तेन जठरस्थेन यो मृतः । दुर्मृत्युना मृतो यश्च स प्रेतो जायते नरः ॥ २,२२.
अयाज्ययाजकश्चैव याज्यानां च विवर्जकः । कारुभिश्च रतो नित्यं स प्रेतो जायते नरः ॥ २,२२.
कृत्वा मद्यपसम्पर्कं मद्यपस्त्रीनिषेवणम् । अज्ञानाद्भक्षयन्मांसं स प्रेतो जायते नरः ॥ २,२२.
देवद्रव्यं च ब्रह्मस्वं गुरुद्रव्यं तथैव च । कन्यां ददाति शुल्केन स प्रेतो जायते नरः ॥ २,२२.
मातरं भगिनीं भार्यां स्नुषां दुहितरं तथाः । अदृष्टदोषास्त्यजति स प्रेतो जादृ ॥ २,२२.
न्यासापहर्ता मित्रध्रुक्परदाररतः सदा । विश्वासघाती कूटश्च स प्रेदृ ॥ २,२२.
भ्रातृध्रुग्ब्रह्महा गोघ्नः सुरापो गुरुतल्पगः । कुलमार्गं परित्यज्य ह्यनृतोक्तौ सदा रतः । हर्ता हेम्नश्च भूमेश्च स प्रेदृ ॥ २,२२.
भीष्म उवाच । एवं ब्रुवति वै विप्रे आकाशे दुन्दुभिस्वनः । अपतत्पुष्पवर्षं च देवर्मुक्तं द्विजोपरि ॥ २,२२.
पञ्च देवविमानानि प्रेतानामागतानि वै । स्वर्गं गता विमानैस्ते दिव्यैः संपृच्छ्य तं मुनिम् ॥ २,२२.
ज्ञानं विप्रस्य सम्भाषात्पुण्यसंकीर्तनेन च । प्रेताः पापविनिर्मुक्ताः परं पदमवाप्नुयुः ॥ २,२२.
सूत उवाच । इदमाख्यानकं श्रुत्वा कम्पितोऽश्वत्थपत्रवत् । मानुषाणां हितार्थाय गरुडः पृष्टवान्पुनः ॥ २,२२.
श्रीगरुडमहापुराणम् २३ गरुड उवाच । किङ्किं कुर्वन्ति वै प्रेताः पिशाचत्वेव्यवस्थिताः । वदन्ति वा कदाचित्किं तद्वदस्व सुरेश्वर ॥ २,२३.
श्रीभगवानुवाच । तेषां स्वरूपं वक्ष्यामि चिह्नं स्वप्नं यथातथम् । क्षुत्पिपासार्दितास्ते वै प्रविशेयुः स्ववेश्मनि ॥ २,२३.
प्रतिष्ठा वायुदेहेषु शयानांस्तु स्ववंशजान् । तत्र यच्छन्ति लिङ्गानि दर्शयन्ति खगेश्वर ॥ २,२३.
स्वपुत्रस्वकलत्राणि स्वबन्धुन्तत्र गच्छति । हयो गजो वृषो मर्त्योदृश्यते विकृताननः ॥ २,२३.
शयानं विपरीतं तु आत्मानं च विपर्ययम् । उत्थितः पश्यति यस्तु तद्विन्द्यात्प्रेतनिर्मितम् ॥ २,२३.
स्वप्ने नरौ हि निगडैर्बध्यते बहुधा यदि । अन्नं च याचते स्वप्ने कुवेषः पूर्वजो मृतः ॥ २,२३.
स्वप्ने यो भुज्यमानस्य गृहीत्वान्नं पलायते । आत्मनस्तु परो वापि तृषार्तस्तु जलं पिबेत् ॥ २,२३.
वृषभारोहणं स्वप्ने वृषभैः सह गच्छति । उत्पत्य गगनं याति तीर्थे याति क्षुधातुरः ॥ २,२३.
स्ववाचा वदते यस्तु गोवृषद्विजावाजिषु । लिङ्गे गजे तथा देवे भूते प्रेते निशाचरे ॥ २,२३.
स्वप्नमध्ये तु पक्षीन्द्र प्रेतलिङ्गान्यनेकधा । स्वकलत्रं स्वबन्धुं वा स्वसुतं स्वपतिं विभुम् । विद्यमानं मृतं पश्येत्प्रेतदोषेण निश्चितम् ॥ २,२३.
याचते यः परं स्वप्ने क्षुत्तृड्भ्यां च परिप्लुतः । तीर्थे गत्वा दहेत्पिण्डान्प्रेतदौषैर्न संशयः ॥ २,२३.
निर्गच्छेद्वा गृहाद्वापि स्वप्ने पुत्रस्तथा पशुः । पिता भ्राता कलत्रं च प्रेतदोषैस्तु पश्यति ॥ २,२३.
चिह्नान्येतानि पक्षीन्द्र प्रायश्चित्तं निवेदयेत् । कृत्वा स्नानं गृहे तीर्थे श्रीवृक्षे तर्पणं जलैः ॥ २,२३.
कृष्णधान्यानि पूजां च प्रदद्याद्वेदपारगे । होमं कुर्याद्यथाशक्ति सम्पूर्णं वाचयेत्सुधीः ॥ २,२३.
एतद्धि श्रद्धया यस्तु प्रेतलिङ्गनिदर्शनम् । पठते शृणुते वापि प्रेतचिह्नं विनश्यति ॥ २,२३.
श्रीगरुडमहापुराणम् २४ गरुड उवाच । नाकाले म्रियते कश्चिदिति वेदानुशासनम् । कस्मान्मृत्युमवाप्नोति राजा वा श्रोत्रियोपि वा ॥ २,२४.
यदुक्तं ब्राह्मणा पूर्वमनृतं तद्धि दृश्यते । वेदैरुक्तं तु यद्वाक्यं शतं जीवति मानुषे ॥ २,२४.