प्रेतत्वं कर्मभावेन प्राप्तं नामानि च द्विज । मेषाननो लेखकोऽयं रोध (ह) कः पर्वताननः ॥ २,२२.
शीघ्रगः पुशुवक्त्रश्च सूचकः सूचिवक्त्रवान् । दुःखिता नितरां स्वमिन्पश्य रूपविपर्ययम् ॥ २,२२.
कृत्वा मायामयं रूपं विचरामो महीतले । सर्वे च विकृताकारा लम्बोष्ठा विकृताननाः ॥ २,२२.
बृहच्छरीरिणो रौद्रा जाताः स्वेनैव कर्मणा । एतत्ते सर्वमाख्यातं प्रेतत्वे कारणं मया ॥ २,२२.
ज्ञानिनोऽपि वयं सर्वे जाताः स्म तव दर्शनात् । यत्र ते श्रवणे श्रद्धा तत्पृच्छ कथयामि ते ॥ २,२२.
ब्राह्मण उवाच । ये जीवा भुवि जीवन्ति सर्वेऽप्याहारमूलकाः । युष्माकमपिचाहारं श्रोतुमिच्छामि तत्त्वतः ॥ २,२२.
प्रेता ऊचुः । यदि ते श्रवणे श्रद्धा आहाराणां द्विजोत्तम । अस्माकं तु महीभाग शृणुत्वं सुसमाहितः ॥ २,२२.
ब्राह्मण उवाच । कथयन्तु महाप्रेता आहारं च पृथक्पृथक् । इत्युक्तां ब्राह्मणेनेममूचुः प्रेताः पृथकपृथक् ॥ २,२२.
प्रेता ऊचुः । शृणु चाहारमस्माकं सर्वसत्त्बविगर्हितम् । यच्छ्रुत्वा गर्हसे ब्रह्मन् भूयोभूयश्च गर्हितम् ॥ २,२२.
श्लेष्ममूत्रपुरीषोत्थं शरीराणां मलैः सह । उच्छिष्टैश्चैव चान्यैश्च प्रेतानां भोजनं भवेत् ॥ २,२२.
गृहाणि चाप्यशौचानि प्रकीर्णोपस्कराणि च । मलिनानि प्रसूतानि प्रेता भुञ्जन्ति तत्र वै ॥ २,२२.
नास्ति सत्यं गृहे यत्र न शौचं न च संयमः । पतितैर्दस्युभिः सङ्गः प्रेता भुञ्जन्ति तत्र वै ॥ २,२२.
बलिमन्त्रविहीनानि होमहीनानि यानि च । स्वाध्याय व्रतहीनानि प्रेता भुञ्जन्ति तत्र वै ॥ २,२२.
न लज्जा न च मर्यादा यदात्र स्त्रीजितो गृही । गुरवो यत्र पूज्या न प्रेता भुञ्जन्ति तत्र वै ॥ २,२२.
यत्र लोभस्तथा क्रोधो निद्रा शोको भयं मदः । आलस्यं कलहो नित्यं प्रेता भुञ्जन्ति तत्र वै ॥ २,२२.
भर्तृहीना च या नारी परवीर्यं निषेवते । बीजं मूत्रसमायुर्क्त प्रेता भुञ्जन्ति तत्तु वै ॥ २,२२.
लज्जा मे जायते तात वदतो भोजनं स्वकम् । यत्स्त्रीरजो योनिगतं प्रेता भुञ्जन्ति तत्तु वै ॥ २,२२.
निर्विण्णाः प्रेतभावेन पृच्छामि त्वां दृढव्रत । यथा न भविता प्रेतस्तन्मे वद तपोधन । नित्यं मृत्युर्वरं जन्तोः प्रेतत्वं मा भवेत्क्वचित् ॥ २,२२.
ब्राह्मण उवाच । उपवासपरो नित्यं कृच्छ्रचान्द्रायणे रतः । व्रतैश्च विविधैः पूतो न प्रेतो जायते नरः ॥ २,२२.
एकादश्यां व्रतं कुर्वञ्जागरेण समन्वितम् । अपरैः सुकृतैः पूतो न प्रेतो न प्रेतो जायते नरः ॥ २,२२.
इष्ट्वा वै वाश्वमेधादीन्दद्याद्दानानि यो नरः । आरामोद्यानवाप्यादेः प्रपायाश्चैव कारकः ॥ २,२२.
कुमारीं ब्राह्मणानां तु विवाहयति शक्तितः । विद्यादोऽभयदश्चैव न प्रेतो जायते नरः ॥ २,२२.
शूद्रान्नेन तु भुक्तेन जठरस्थेन यो मृतः । दुर्मृत्युना मृतो यश्च स प्रेतो जायते नरः ॥ २,२२.
अयाज्ययाजकश्चैव याज्यानां च विवर्जकः । कारुभिश्च रतो नित्यं स प्रेतो जायते नरः ॥ २,२२.
कृत्वा मद्यपसम्पर्कं मद्यपस्त्रीनिषेवणम् । अज्ञानाद्भक्षयन्मांसं स प्रेतो जायते नरः ॥ २,२२.
देवद्रव्यं च ब्रह्मस्वं गुरुद्रव्यं तथैव च । कन्यां ददाति शुल्केन स प्रेतो जायते नरः ॥ २,२२.
मातरं भगिनीं भार्यां स्नुषां दुहितरं तथाः । अदृष्टदोषास्त्यजति स प्रेतो जादृ ॥ २,२२.
न्यासापहर्ता मित्रध्रुक्परदाररतः सदा । विश्वासघाती कूटश्च स प्रेदृ ॥ २,२२.
भ्रातृध्रुग्ब्रह्महा गोघ्नः सुरापो गुरुतल्पगः । कुलमार्गं परित्यज्य ह्यनृतोक्तौ सदा रतः । हर्ता हेम्नश्च भूमेश्च स प्रेदृ ॥ २,२२.
भीष्म उवाच । एवं ब्रुवति वै विप्रे आकाशे दुन्दुभिस्वनः । अपतत्पुष्पवर्षं च देवर्मुक्तं द्विजोपरि ॥ २,२२.