योगाभ्यासे सदा युक्तः संसारविजिगीषया । एवंवृत्तः सदाचारो मोक्षकाङ्क्षी जितेन्द्रियः ॥ २,२२.
बहून्यब्दानि विजने वने तस्य गतानि वै । तस्य बुद्धिस्ततो जाता तीर्थानुगमनं प्रति ॥ २,२२.
पुण्यैस्तीर्थजलैरेव शोषयिष्ये कलेवरम् । स तीर्थेत्वरितं स्नात्वा तपस्वी भास्करोदये । कृतजाप्यनमस्कारो ह्यध्वानं प्रत्यपद्यत ॥ २,२२.
एकस्मिन्दिवसे विप्रो मार्गभ्रष्टो महातपाः । ददर्शाध्वनि गच्छन्स पञ्च प्रेतान् सुदारुणान् ॥ २,२२.
अरण्ये निर्जने देशे संकटे वृक्षवर्जिते । पञ्चैतान्विकृताकारान्दृष्ट्वा वै घोरदर्शनान् । ईषत्सन्त्रस्तहृदयोऽतिष्ठदुन्मील्य लोचने ॥ २,२२.
अवलम्ब्य ततो धैर्यं भयमुत्सृज्य दूरतः । पप्रच्छ मधुराभाषी के यूयं विकृताननाः ॥ २,२२.
किञ्चाशुभं कृतं कर्म येन प्राप्ताः स्थ वैकृतम् । कथं वा चैकतः कर्म प्रस्थिताः कुत्र निश्चितम् ॥ २,२२.
प्रेतराज उवाच । स्वैः स्वैस्तु कर्मभिः प्राप्तं प्रेतत्वं हि द्विजोत्तम । परद्रोहरताः सर्वे पापमृत्युवशं गताः ॥ २,२२.
क्षुत्पिपासार्दिता नित्यं प्रेतत्वं समुपागताः । हतवाक्या हतश्रीका हत संज्ञा विचेतसः ॥ २,२२.
न जानीमो दिशं तात विदिशं चातिदुः खिताः । क्व नु गच्छामहे मूढाः पिशाचाः कर्मजा वयम् ॥ २,२२.
न माता न पितास्माकं प्रेतत्वं कर्मभिः स्वकैः । प्राप्ताः स्म सहसा जातदुः खोद्वेगसमाकुलम् ॥ २,२२.
दर्शनेन च ते ब्रह्मन्मुदिताप्यायिता वयम् । मुहूर्तन्तिष्ठ वक्ष्यामि वृत्तान्तं सर्वमादितः ॥ २,२२.
अहं पर्युषितो नाम एष सूचीमुखस्तथा । शीघ्रगो रोघ (ह) कश्चैव पञ्चमो लेखकः स्मतृतः ॥ २,२२.
एवं नाम्ना च सर्वे वै संप्राप्ताः प्रेततां वयम् । ब्राह्मण उवाच । प्रेतानां कर्मजातानां कथं वै नामसम्भवः । किञ्चित्कारणमुदिश्य येन ब्रूयाः स्वनामकान् ॥ २,२२.
प्रेतराज उवाच । मया स्वादु सदा भुक्तं दत्तं पर्युषितं द्विज ॥ २,२२.
शीघ्रं गच्छति विप्रेण याचितः क्षुधितेन वै । एतत्कारणमुद्दिश्य नाम पर्युषितं मम ॥ २,२२.
शीघ्रं गच्छति विप्रेण याचितः क्षुधितेन वै । एतत्कारणमुद्दिश्य शीघ्रगोऽयं द्विजोत्तम ॥ २,२२.
सूचिता बहवोऽनेन विप्रा अन्नाधिकाङ्क्षया । एतत्कारणमुद्दिश्य एष सूचिमुखः स्मृतः ॥ २,२२.
एकाकी मिष्टमश्राति पोष्यवर्गमृते सदा । ब्राह्मणानामभावेन रोध (ह) कस्तेन चोच्यते ॥ २,२२.
पुरायं मौनमास्थाय याचितो विलिखेद्भुवम् । तेन कर्मविपाकेन लेखको नाम चोच्यते ॥ २,२२.
प्रेतत्वं कर्मभावेन प्राप्तं नामानि च द्विज । मेषाननो लेखकोऽयं रोध (ह) कः पर्वताननः ॥ २,२२.
शीघ्रगः पुशुवक्त्रश्च सूचकः सूचिवक्त्रवान् । दुःखिता नितरां स्वमिन्पश्य रूपविपर्ययम् ॥ २,२२.
कृत्वा मायामयं रूपं विचरामो महीतले । सर्वे च विकृताकारा लम्बोष्ठा विकृताननाः ॥ २,२२.
बृहच्छरीरिणो रौद्रा जाताः स्वेनैव कर्मणा । एतत्ते सर्वमाख्यातं प्रेतत्वे कारणं मया ॥ २,२२.
ज्ञानिनोऽपि वयं सर्वे जाताः स्म तव दर्शनात् । यत्र ते श्रवणे श्रद्धा तत्पृच्छ कथयामि ते ॥ २,२२.
ब्राह्मण उवाच । ये जीवा भुवि जीवन्ति सर्वेऽप्याहारमूलकाः । युष्माकमपिचाहारं श्रोतुमिच्छामि तत्त्वतः ॥ २,२२.
प्रेता ऊचुः । यदि ते श्रवणे श्रद्धा आहाराणां द्विजोत्तम । अस्माकं तु महीभाग शृणुत्वं सुसमाहितः ॥ २,२२.
ब्राह्मण उवाच । कथयन्तु महाप्रेता आहारं च पृथक्पृथक् । इत्युक्तां ब्राह्मणेनेममूचुः प्रेताः पृथकपृथक् ॥ २,२२.
प्रेता ऊचुः । शृणु चाहारमस्माकं सर्वसत्त्बविगर्हितम् । यच्छ्रुत्वा गर्हसे ब्रह्मन् भूयोभूयश्च गर्हितम् ॥ २,२२.
श्लेष्ममूत्रपुरीषोत्थं शरीराणां मलैः सह । उच्छिष्टैश्चैव चान्यैश्च प्रेतानां भोजनं भवेत् ॥ २,२२.