गोचरं ग्रामसीमां तडागारामगह्वरम् । कर्षयन्ति च ये लोभात्प्रेतास्ते वै भवन्ति हि ॥ २,२२.
चण्डालादुदकात्सर्पाद्ब्राह्मणाद्बैद्युताग्नितः । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मिणाम् ॥ २,२२.
उद्बन्धनमृता ये च विषशस्त्रहताश्च ये । आत्मोपघातिनो ये च विषूच्यादिहतास्तथा ॥ २,२२.
महारोगैर्मृता ये च पापरोगैश्च दस्युभिः । असंस्कृतप्रमीता ये विहिताचारवर्जिताः ॥ २,२२.
वृषोत्सर्गादिलुप्ताश्चलुप्तमासिकपिण्डकाः । यस्यानयति शूद्रोग्निं तृणकाष्ठहवींषि सः ॥ २,२२.
पतनात्पर्वतानां च भित्तिपातेन ये मृताः । रजस्वलादिदोषैश्च न च भूमौ मताश्च ये ॥ २,२२.
अन्तरिक्षे मृता ये च विष्णुस्मरणवर्जिताः । सूतकैः श्वादिसंपर्कैः प्रेतभावा इह क्षितौ ॥ २,२२.
एवमादिभिरन्यैश्च कुमृत्युवशगाश्च ये । ते सर्वे प्रेतयोनिस्था विचरन्ति मरुस्थले ॥ २,२२.
मातरं भगिनीं भार्यां स्नुषां दुहितरं तथा । अदृष्टदोषां त्यजति स प्रेतो जायतेध्रुवम् ॥ २,२२.
भ्रातृध्रुग्ब्रह्महा गोघ्नः सुरापो गुरुतल्पगः । हेमक्षौमहरस्तार्क्ष्य स वै प्रेतत्वमाप्नुयात् ॥ २,२२.
न्यासापहर्ता मित्रध्रुक्परदाररतस्तथा । विश्वासघाती क्रूरस्तु स प्रेतो जायते ध्रुवम् ॥ २,२२.
कुलमार्गांश्च सन्त्यज्य परधर्मरतस्तथा । विद्यावृत्तविहीनश्च स प्रेतो जायतेध्रुवम् ॥ २,२२.
अत्रैवोदाहरन्तीममितिहासं पुरातनम् । युधिष्ठिरस्य संवादं भीष्मेण सह सुव्रत । तदहं कथयिष्यामि यच्छ्रुत्वा सौख्यमाप्नुयात् ॥ २,२२.
युधिष्ठिर उवाच । केन कर्मविपाकेन प्रेतत्वमुपजायते । केन वा मुच्यते कस्मात्तन्मे ब्रूहि पितामह । यच्छ्रुत्वा न पुनर्मोहमेवं यास्या मि सुव्रत ॥ २,२२.
भीष्म उवाच । येनैव जायते प्रेतो येनैव स विमुच्यते । प्राप्नोति नरकं घोरं दुस्तरं दैवतैरपि ॥ २,२२.
सततं श्रवणाद्यस्य पुण्यश्रवणकीर्तनात् । मानवा विप्रमुच्यन्ते आपन्नाः प्रेतयोनिषु ॥ २,२२.
श्रूयते हि पुरा वत्स ब्राह्मणः शंसितव्रतः । नाम्ना सन्तप्तकः ख्यात स्तपोर्ऽथे वनमाश्रितः ॥ २,२२.
स्वाध्याययुक्तो होमेन यो (या) गयुक्तो दयान्वितः । यजन्स सकलान्यज्ञान्युक्त्या कालं च विक्षिपन् ॥ २,२२.
ब्रहामचर्यसमायुक्तो युक्तस्तपसि मार्दवे । परलोकभयोपेतः सत्यशौचैश्च निर्मलः ॥ २,२२.
युक्तोऽहि गुरुवाक्येन युक्तश्चातिथिपूजने । आत्मयोगे सदोद्युक्तः सर्वद्वन्द्वविवर्जितः ॥ २,२२.
योगाभ्यासे सदा युक्तः संसारविजिगीषया । एवंवृत्तः सदाचारो मोक्षकाङ्क्षी जितेन्द्रियः ॥ २,२२.
बहून्यब्दानि विजने वने तस्य गतानि वै । तस्य बुद्धिस्ततो जाता तीर्थानुगमनं प्रति ॥ २,२२.
पुण्यैस्तीर्थजलैरेव शोषयिष्ये कलेवरम् । स तीर्थेत्वरितं स्नात्वा तपस्वी भास्करोदये । कृतजाप्यनमस्कारो ह्यध्वानं प्रत्यपद्यत ॥ २,२२.
एकस्मिन्दिवसे विप्रो मार्गभ्रष्टो महातपाः । ददर्शाध्वनि गच्छन्स पञ्च प्रेतान् सुदारुणान् ॥ २,२२.
अरण्ये निर्जने देशे संकटे वृक्षवर्जिते । पञ्चैतान्विकृताकारान्दृष्ट्वा वै घोरदर्शनान् । ईषत्सन्त्रस्तहृदयोऽतिष्ठदुन्मील्य लोचने ॥ २,२२.
अवलम्ब्य ततो धैर्यं भयमुत्सृज्य दूरतः । पप्रच्छ मधुराभाषी के यूयं विकृताननाः ॥ २,२२.
किञ्चाशुभं कृतं कर्म येन प्राप्ताः स्थ वैकृतम् । कथं वा चैकतः कर्म प्रस्थिताः कुत्र निश्चितम् ॥ २,२२.
प्रेतराज उवाच । स्वैः स्वैस्तु कर्मभिः प्राप्तं प्रेतत्वं हि द्विजोत्तम । परद्रोहरताः सर्वे पापमृत्युवशं गताः ॥ २,२२.
क्षुत्पिपासार्दिता नित्यं प्रेतत्वं समुपागताः । हतवाक्या हतश्रीका हत संज्ञा विचेतसः ॥ २,२२.
न जानीमो दिशं तात विदिशं चातिदुः खिताः । क्व नु गच्छामहे मूढाः पिशाचाः कर्मजा वयम् ॥ २,२२.