शरीरमेव जन्तूनां स्वर्गमोक्षैकसाधनम् । देहो दत्तो हि येनैवं कोऽन्यः पूज्यतमस्ततः ॥ २,२१.
इति सञ्चिन्त्यहृदये पक्षिन्यद्यत्प्रयच्छति । तत्सर्वमात्मना भुङ्क्ते दानं वेदविदो विदुः ॥ २,२१.
पुन्नामनरकाद्यस्मात्पितरं त्रायते सुतः । तस्मात्पुत्त्र इति प्रोक्त इह चापि परत्र च ॥ २,२१.
अपमृत्युमृतौ स्यातां पितरौ कस्यचित्खग । व्रततीर्थाविवाहादिश्राद्धं संवत्सरं त्यजेत् ॥ २,२१.
स्वप्नाध्यायमिमं यस्तु प्रेत लिङ्गनिदर्शकम् । यः पठेच्छृणुयाद्वापि प्रेतचिह्नं न पश्यति ॥ २,२१.
श्रीगरुडमहापुराणम् २२ गरुड उवाच । सम्भवन्ति कथं प्रेताः केन तेषां गतिर्भवेत् । कीदृक्तेषां भवेद्रूपं भोजनं किं भवेत्प्रभो ॥ २,२२.
सुप्रीतास्ते कथं प्रेताः क्व तिष्ठन्ति सुरेश्वर । प्रसन्नः कृपया देव प्रश्रमेनं वदस्व मे ॥ २,२२.
श्रीभगवानुवाच । पापकर्मरता ये वै पूर्वकर्मवशानुगाः । जायन्ते ते मृताः प्रेतास्ताञ्छृणुष्व वदाम्यहम् ॥ २,२२.
वापीकूपतडागांश्च आरामं सुरमन्दिरम् । प्रपां सद्म सुवृक्षांश्च तथा भोजनशालिकाः ॥ २,२२.
पितृपैतामहं धर्मं किक्रीणाति स पापभाक् । मृतः प्रेतत्वमाप्नोति यावदाभूतसंप्लवम् ॥ २,२२.
गोचरं ग्रामसीमां तडागारामगह्वरम् । कर्षयन्ति च ये लोभात्प्रेतास्ते वै भवन्ति हि ॥ २,२२.
चण्डालादुदकात्सर्पाद्ब्राह्मणाद्बैद्युताग्नितः । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मिणाम् ॥ २,२२.
उद्बन्धनमृता ये च विषशस्त्रहताश्च ये । आत्मोपघातिनो ये च विषूच्यादिहतास्तथा ॥ २,२२.
महारोगैर्मृता ये च पापरोगैश्च दस्युभिः । असंस्कृतप्रमीता ये विहिताचारवर्जिताः ॥ २,२२.
वृषोत्सर्गादिलुप्ताश्चलुप्तमासिकपिण्डकाः । यस्यानयति शूद्रोग्निं तृणकाष्ठहवींषि सः ॥ २,२२.
पतनात्पर्वतानां च भित्तिपातेन ये मृताः । रजस्वलादिदोषैश्च न च भूमौ मताश्च ये ॥ २,२२.
अन्तरिक्षे मृता ये च विष्णुस्मरणवर्जिताः । सूतकैः श्वादिसंपर्कैः प्रेतभावा इह क्षितौ ॥ २,२२.
एवमादिभिरन्यैश्च कुमृत्युवशगाश्च ये । ते सर्वे प्रेतयोनिस्था विचरन्ति मरुस्थले ॥ २,२२.
मातरं भगिनीं भार्यां स्नुषां दुहितरं तथा । अदृष्टदोषां त्यजति स प्रेतो जायतेध्रुवम् ॥ २,२२.
भ्रातृध्रुग्ब्रह्महा गोघ्नः सुरापो गुरुतल्पगः । हेमक्षौमहरस्तार्क्ष्य स वै प्रेतत्वमाप्नुयात् ॥ २,२२.
न्यासापहर्ता मित्रध्रुक्परदाररतस्तथा । विश्वासघाती क्रूरस्तु स प्रेतो जायते ध्रुवम् ॥ २,२२.
कुलमार्गांश्च सन्त्यज्य परधर्मरतस्तथा । विद्यावृत्तविहीनश्च स प्रेतो जायतेध्रुवम् ॥ २,२२.
अत्रैवोदाहरन्तीममितिहासं पुरातनम् । युधिष्ठिरस्य संवादं भीष्मेण सह सुव्रत । तदहं कथयिष्यामि यच्छ्रुत्वा सौख्यमाप्नुयात् ॥ २,२२.
युधिष्ठिर उवाच । केन कर्मविपाकेन प्रेतत्वमुपजायते । केन वा मुच्यते कस्मात्तन्मे ब्रूहि पितामह । यच्छ्रुत्वा न पुनर्मोहमेवं यास्या मि सुव्रत ॥ २,२२.
भीष्म उवाच । येनैव जायते प्रेतो येनैव स विमुच्यते । प्राप्नोति नरकं घोरं दुस्तरं दैवतैरपि ॥ २,२२.
सततं श्रवणाद्यस्य पुण्यश्रवणकीर्तनात् । मानवा विप्रमुच्यन्ते आपन्नाः प्रेतयोनिषु ॥ २,२२.
श्रूयते हि पुरा वत्स ब्राह्मणः शंसितव्रतः । नाम्ना सन्तप्तकः ख्यात स्तपोर्ऽथे वनमाश्रितः ॥ २,२२.
स्वाध्याययुक्तो होमेन यो (या) गयुक्तो दयान्वितः । यजन्स सकलान्यज्ञान्युक्त्या कालं च विक्षिपन् ॥ २,२२.
ब्रहामचर्यसमायुक्तो युक्तस्तपसि मार्दवे । परलोकभयोपेतः सत्यशौचैश्च निर्मलः ॥ २,२२.
युक्तोऽहि गुरुवाक्येन युक्तश्चातिथिपूजने । आत्मयोगे सदोद्युक्तः सर्वद्वन्द्वविवर्जितः ॥ २,२२.