न स्वप्नश्चैष्टितं नैव दर्शनं न कदाचन । किं कर्तव्यं सुरश्रेष्ठ तत्र मे ब्रूहि निश्चितम् ॥ २,२१.
श्रीभगवानुवाच । सत्यं वाप्यनृतं वापि वदन्ति क्षितिदेवताः । तदा सञ्चिन्त्य हृदये सत्यमेतद्द्विजेरितम् ॥ २,२१.
भावभक्तिं पुरस्कृत्य पितृभक्तिपरायणः । कृत्वा कृष्णबलिं चैव पुरश्चरण पूर्वकम् ॥ २,२१.
जपहोमैस्तथा दानैः प्रकुर्याद्देहसोधनम् । कृतेन तेन विघ्नानि विनश्यन्ति खगेश्वर ॥ २,२१.
भूतप्रेतपिशाचैर्वा स चेदन्यैः प्रपीड्यते । पित्रुद्देशेन वै कुर्यान्नारायणबलिं तदा । विमुक्तः सर्वपीडाभ्य इति सत्यं वचो मम ॥ २,२१.
पितृपीडा भवेद्यत्र कृत्यैरन्यैर्न मुच्यते । तस्मात्सर्वप्रयत्नेन पितृभक्तिपरो भवेत् ॥ २,२१.
नवमे दशमे वर्षे पिक्षुद्देशेन वै पुमान् । गायत्त्रीमयुतं जप्त्वा दशांशेन च होमयेत् ॥ २,२१.
कृत्वा कृष्णबलिं पूर्वं वृषोत्सर्गादिकाः क्रियाः । सर्वोपद्रवहीनस्तु सर्वसौख्यमवाप्नुयात् । उत्तमं लोकमाप्नोति ज्ञातिप्राधान्यमेव च ॥ २,२१.
पितृमा तृसमं लोके नास्त्यन्यद्दैवतं परम् । तस्मात्सर्वप्रयत्नेन पूजयेत्पितरौ सदा ॥ २,२१.
हितानामुपदेष्टा हि प्रत्यक्षं दैवतं पिता । अन्या या देवता लोके न देहप्रभवो हि ताः ॥ २,२१.
शरीरमेव जन्तूनां स्वर्गमोक्षैकसाधनम् । देहो दत्तो हि येनैवं कोऽन्यः पूज्यतमस्ततः ॥ २,२१.
इति सञ्चिन्त्यहृदये पक्षिन्यद्यत्प्रयच्छति । तत्सर्वमात्मना भुङ्क्ते दानं वेदविदो विदुः ॥ २,२१.
पुन्नामनरकाद्यस्मात्पितरं त्रायते सुतः । तस्मात्पुत्त्र इति प्रोक्त इह चापि परत्र च ॥ २,२१.
अपमृत्युमृतौ स्यातां पितरौ कस्यचित्खग । व्रततीर्थाविवाहादिश्राद्धं संवत्सरं त्यजेत् ॥ २,२१.
स्वप्नाध्यायमिमं यस्तु प्रेत लिङ्गनिदर्शकम् । यः पठेच्छृणुयाद्वापि प्रेतचिह्नं न पश्यति ॥ २,२१.
श्रीगरुडमहापुराणम् २२ गरुड उवाच । सम्भवन्ति कथं प्रेताः केन तेषां गतिर्भवेत् । कीदृक्तेषां भवेद्रूपं भोजनं किं भवेत्प्रभो ॥ २,२२.
सुप्रीतास्ते कथं प्रेताः क्व तिष्ठन्ति सुरेश्वर । प्रसन्नः कृपया देव प्रश्रमेनं वदस्व मे ॥ २,२२.
श्रीभगवानुवाच । पापकर्मरता ये वै पूर्वकर्मवशानुगाः । जायन्ते ते मृताः प्रेतास्ताञ्छृणुष्व वदाम्यहम् ॥ २,२२.
वापीकूपतडागांश्च आरामं सुरमन्दिरम् । प्रपां सद्म सुवृक्षांश्च तथा भोजनशालिकाः ॥ २,२२.
पितृपैतामहं धर्मं किक्रीणाति स पापभाक् । मृतः प्रेतत्वमाप्नोति यावदाभूतसंप्लवम् ॥ २,२२.
गोचरं ग्रामसीमां तडागारामगह्वरम् । कर्षयन्ति च ये लोभात्प्रेतास्ते वै भवन्ति हि ॥ २,२२.
चण्डालादुदकात्सर्पाद्ब्राह्मणाद्बैद्युताग्नितः । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मिणाम् ॥ २,२२.
उद्बन्धनमृता ये च विषशस्त्रहताश्च ये । आत्मोपघातिनो ये च विषूच्यादिहतास्तथा ॥ २,२२.
महारोगैर्मृता ये च पापरोगैश्च दस्युभिः । असंस्कृतप्रमीता ये विहिताचारवर्जिताः ॥ २,२२.
वृषोत्सर्गादिलुप्ताश्चलुप्तमासिकपिण्डकाः । यस्यानयति शूद्रोग्निं तृणकाष्ठहवींषि सः ॥ २,२२.
पतनात्पर्वतानां च भित्तिपातेन ये मृताः । रजस्वलादिदोषैश्च न च भूमौ मताश्च ये ॥ २,२२.
अन्तरिक्षे मृता ये च विष्णुस्मरणवर्जिताः । सूतकैः श्वादिसंपर्कैः प्रेतभावा इह क्षितौ ॥ २,२२.
एवमादिभिरन्यैश्च कुमृत्युवशगाश्च ये । ते सर्वे प्रेतयोनिस्था विचरन्ति मरुस्थले ॥ २,२२.
मातरं भगिनीं भार्यां स्नुषां दुहितरं तथा । अदृष्टदोषां त्यजति स प्रेतो जायतेध्रुवम् ॥ २,२२.
भ्रातृध्रुग्ब्रह्महा गोघ्नः सुरापो गुरुतल्पगः । हेमक्षौमहरस्तार्क्ष्य स वै प्रेतत्वमाप्नुयात् ॥ २,२२.