दम्पत्योः कलहश्चैव भोजने कोपसंयुतः । परद्रोहे मतिश्चैव सा पीडा प्रेतसंभवा ॥ २,२०.
पुष्पं यत्र न दृश्येन फलं तथा । विरहो भार्यया यत्र सा पीडा प्रेतसग्भवा ॥ २,२०.
येषां वै जायते चिह्नं सदोच्चाटपरं नृणाम् । स्वक्षेत्रे निष्फलं तेजः सा पीडा प्रेतसम्भवा ॥ २,२०.
स्वगोत्रघातकश्चैव हन्ति शत्रुमिवात्मजम् । न प्रीतिर्नापि सौख्यं च सा पीडा प्रेतसम्भवा ॥ २,२०.
पितृवाक्यं न कुरुते स्वपत्नीं च न सेवते । सदा क्रूरमतिर्व्यग्रः सा पीडा प्रेतसम्भवा ॥ २,२०.
विकर्मा जायते प्रेतो ह्यविधिक्रियया तथा । तत्कालदुष्टसंसर्गाद्वृषोत्सर्गादृते तथा ॥ २,२०.
दृष्टगृत्युवशाद्वापि अदग्धवपुषस्तथा । प्रेतत्वं जायते तार्क्ष्य पीड्यन्ते येन जन्तवः ॥ २,२०.
एवं ज्ञात्वा खगश्रेष्ठ प्रेतमुक्तिं समाचरेत् । यो वै न मन्यते प्रेतान्मृतः प्रेतत्वमाप्नुयात् ॥ २,२०.
प्रेतदोषः कुले यस्य सुखं तस्य न विद्यते । मतिः प्रीती रतिर्बुद्धिर्लक्ष्मीः पञ्चविनाशनम् ॥ २,२०.
तृतीये पञ्चमे पुंसि वंशच्छेदो हि जायते । दरिद्रो निर्धनश्चैव पापकर्मा भवेभवे ॥ २,२०.
ये केचित्पेतरूपा विकृतमुखदृशो रौद्ररूपाः कराला मन्यन्ते नैव गोत्रं सुतदुहितृपितॄन् भ्रातृजायां वधूं वा । कृत्वा काम्यं च रूपं सुखगतिरहिता भाषमाणा यथेष्टं हा कष्टं भोक्तुकामा विधिवशपतिताः संस्मरन्ति स्वपाकम् ॥ २,२०.
श्रीगरुडमहापुराणम् २१ गरुड उवाच । मुक्तिं यान्ति कथं प्रेतास्तदहं प्रष्टुमुत्सुकः । यन्मुक्तौ च मनुष्याणां न पीडा जायते पुनः ॥ २,२१.
एतैश्च लक्षणैर्देव पीडोक्ता प्रेतजा त्वया । तेषां कदा भवेन्मुक्तिः प्रेतत्वं न कथं भवेत् ॥ २,२१.
प्रेतत्वे हि प्रमाणं च कति वर्षाणि संख्यया । चिरं प्रेतत्वमापन्नः कथं मुक्तिमवाप्नुयात् ॥ २,२१.
श्रीकृष्ण उवाच । मुक्तिं प्रायन्ति ते प्रेतास्तदहं कथयामि ते । यदैव मनुजोऽवैति मम पीडा कृता त्वियम् ॥ २,२१.
पृच्छार्थं हितमन्विच्छन्दै वज्ञे विनिवदयेत् । स्वप्ने दृष्टः शुभो वृक्षः फलितश्चूतचम्पकः ॥ २,२१.
विप्रो वा वृषभो देवो भ्रमते तीर्थगो यदि । एवं दृष्टो यदा स्वप्नो मृतः कोऽपिस्वगोत्रजः ॥ २,२१.
स्वप्ने सत्यं परिज्ञाय दृष्टं प्रेतप्रभावतः । अद्भुतानि प्रदृश्यन्ते प्रेतदोषाद्विनिश्चितम् ॥ २,२१.
तीर्थस्नाने मतिर्यावच्चित्तं धर्मपरायणम् । धर्मापायं प्रकुरुते प्रेतपीडा तदा व्रजेत् ॥ २,२१.
तदा तत्र विनाशाय चित्तभङ्गं करोति सा । श्रेयांसि बहुविघ्नानि सम्भवन्ति पदेपदे ॥ २,२१.
अश्रेयसि प्रवृत्ति च प्रेरयन्ति पुनः पुनः । उच्चाटनं च क्रूरत्वं सर्वं प्रेतकृतं खग ॥ २,२१.
सर्वविघ्नानि सन्त्यज्य मुक्त्युपायं करोति यः । तस्य कर्मफलं साधु प्रेतवृत्तिश्च शाश्वती ॥ २,२१.
स भवेत्तेन मुक्तस्तु दत्तं श्रेयस्करं परम् । स्वयं तृप्यति भोः पक्षिन्यस्योद्देशेन दीयते ॥ २,२१.
शृणु सत्यमिदं तार्क्ष्य यद्ददाति भुनक्ति सः । आत्मानं श्रेयसा युञ्ज्यात्प्रेतस्तृप्तिं चिरं व्रजेत् ॥ २,२१.
ते तृप्ताः शुभमिच्छन्ति निजबन्धुषु सर्वदा । अज्ञातयस्तु ये दुष्टाः पीडयन्ति स्ववंशजान् ॥ २,२१.
निवारयन्ति तृप्तास्ते जायमानानुकम्पकाः । पश्चात्ते मुक्तिमायन्ति काले प्राप्ते स्वपुत्रतः । सदा बन्धुषु यच्छन्ति वृद्धिमृद्धिं खगाधिप ॥ २,२१.
दर्शनाद्भाषणाद्यस्तु चेष्टातः पीडनाद्गतिम् । न प्रापयति मूढात्मा प्रेतशापैः स लिप्यते ॥ २,२१.
अपुत्रकोऽपशुश्चैव दरिद्रो व्याधितस्तथा । वृत्तिहीनश्च हीनश्च भवेज्जन्मनिजन्मनि ॥ २,२१.
एवं ब्रुवन्ति ते प्रेताः पुनर्याभ्यं समाश्रिताः । तत्रस्थानां भवेन्मुक्तिः स्वकाले कर्मसंक्षये ॥ २,२१.
गरुड उवाच । नाम गोत्रं न दृश्येत प्रतीतिर्नैव जायते । केचिद्वदन्ति दैवज्ञाः पीडां प्रेतसमुद्भवाम् ॥ २,२१.