पितृद्वदाराणि रुन्धन्ति तन्मार्गोच्छेदकास्तथा । पितृभा गान्विगृह्णन्ति पान्थेभ्यस्तस्करा इव ॥ २,२०.
स्वं वेश्म पुनरागत्य मित्रस्थाने विशन्ति ते । तत्र स्थिता निरीक्षन्ते रोगशोकादिबन्धनाः ॥ २,२०.
पीडयन्ति ज्वरीभूय एकान्तरमिषेण तु । तृतीयकज्वरा भूत्वा शीतवातादिपीडया ॥ २,२०.
अन्यांश्च विविधान्रोगाञ्छिरोऽर्तिं च विषूचिकाम् । चिन्त यन्ति सदा तेषामुच्छिष्टादिस्थलस्थिताः ॥ २,२०.
आत्मजानां छलाल्लोका भूतसङ्घैश्च रक्षिताः । पिबन्ति ते च पानीयं भोजनोच्छिष्टयोजितम् ॥ २,२०.
एवं प्रेताः प्रवर्तन्ते नानादोषैर्विकर्मिणः ॥ २,२०.
गरुड उवाच । कथं कुर्वन्ति ते प्रेताः केन रूपेण कस्य किम् । ज्ञायते केन विधिना जल्पन्ति न वदन्ति वा ॥ २,२०.
एनं छिन्धि मनोमोहं मम चेदिच्छसि प्रियम् । कलिकाले हृषीकेश प्रेतत्वं जायते बहु ॥ २,२०.
श्रीविष्णुरुवाच । स्वकुलं पीडयेत्पेतः परच्छिद्रेण पीडयेत् । जीवन्स दृश्यते स्नेही मृतो दुष्टत्वमाप्नुयात् ॥ २,२०.
रुद्रजापी धर्मरतो देवतातिथिपूजकः । सत्यवाक्प्रियवादी च न प्रेतैः स हि पीड्यते ॥ २,२०.
सर्वक्रियापरिभ्रष्टो नास्तिको धर्मनिन्दकः । असत्यवादनिरतो नरः प्रेतैः स पीड्यते । कलौ प्रेतत्वमाप्नोति तार्क्ष्याशुद्धक्रियापरः ॥ २,२०.
कृतादौ द्वापरान्ते च न प्रेतो नैव पीडनम् । बहूनामेकजातानामेकः सौख्यं समश्नुते ॥ २,२०.
एको दुष्कृतकर्मा च एकः सन्ततिमाञ्जनः । एकः सम्पीड्यते प्रेतैरेकः सुतधनान्वितः ॥ २,२०.
एकस्य पुत्रनाशः स्यादेको दुहितृमान् भवेत् । विरोधो बन्धुभिः सार्धं प्रेतदोषेण काश्यप ॥ २,२०.
सन्ततिर्दृश्यते नैव समुत्पन्ना विनश्यति । पशुद्रव्यविनाशश्च सा पीडा प्रेतसम्भवा ॥ २,२०.
प्रकृतेः परिवर्तः स्याद्विद्वेषः सह बन्धुभिः । अकस्माद्व्यसनप्राप्तिः सा पीडा प्रेतसम्भवा ॥ २,२०.
नास्तिक्यं वृत्तिलोपश्च महालोभस्तथैव च । स्याद्धन्तकलहो नित्यं सा पीडा प्रेतसम्भवा ॥ २,२०.
पितृमातृनिहन्ता च देवब्राह्मणनिन्दकः । इत्यादोषमवाप्नोति सा पीडा प्रेतसम्भवा ॥ २,२०.
नित्यकर्मविनिंमुक्तो जपहोमविवर्जितः । परद्रव्याणां च हर्ता सा पीडा प्रेतसम्भवा ॥ २,२०.
सुवृष्टौ कृषिनाशश्च व्यवहारो विनश्यति । लोके कलहकारी च सा पीडा प्रेतसम्भवा ॥ २,२०.
मार्गे जङ्गम्यमानं तं पीडयेद्वातमण्डली । प्रेतपीडा तु सा ज्ञेया सत्यंसत्यं खगेश्वर ॥ २,२०.
हीनजात्या च सम्बन्धो हीनकर्म करोति यः । अधर्मे रमते नित्यं सा पीडा प्रेतसम्भवा ॥ २,२०.
व्यसनैर्द्रव्यनाशः स्यादुपक्रान्तं विनश्यति । चौराग्निराजभिर्हानिः सा पीडा प्रेतसम्भवा ॥ २,२०.
महारोगोपलब्धिश्च बालकानां च पीडनम् । जाया संपीढ्यते यच्च सा पीडा प्रेतसम्भवा ॥ २,२०.
श्रुतिस्मृतिपुराणेषु धर्मशास्त्रसमुद्भवे । अभावो जायते धर्मे सा पीडा प्रेतसम्भवा ॥ २,२०.
देवतीर्थद्विजानां तु निन्दांयः कुरुते नरः । प्रत्यक्षं वा परोक्षं वा सा पीडा प्रेतसम्भवा ॥ २,२०.
स्ववृत्तिहरणं यच्च स्वप्रतिष्ठाहतिस्तथा । वंशच्छेदः नदृश्येत प्रेतदोषाद्विनान्यथा ॥ २,२०.
स्त्रीणां गर्भविनाशः स्यान्न पुष्पं दृश्यते तथा । बालानां मरणं यत्र सा पीडा प्रेतसम्भवा ॥ २,२०.
भावशुद्ध्या न कुरुते श्राद्धं सांवत्सरादिकम् । स्वयमेव न कुर्वीत सा पीडा प्रेतसम्भवा ॥ २,२०.
तीर्थे गत्त्वा परासक्तः स्वकृत्यं च परित्यजेत् । धर्मकार्ये न सम्पत्तिः सा पीडा प्रेतसम्भवा ॥ २,२०.