कृमयो भस्म विष्ठा वा देहानां प्रकृतिः सदा । अन्धकूपे महारौद्रे दीपहस्तः पातेत्तु वै ॥ २,१९.
महापुण्यप्रभावेण मानुष्यं जन्म लभ्यते । यस्तत्प्राप्य चरेद्धर्मं स गच्छेत्परमां गतिम् ॥ २,१९.
अपि जानन्वृथा धर्मं दुः खमायाति याति च ॥ २,१९.
जातीशतेन लभते किल मानुषत्वं तत्रापि दुर्लभतरं खग भो द्विजत्वम् । यस्तत्र पालयति लालयति व्रतानि तस्यामृतं भवति हस्तगतं प्रसादात् ॥ २,१९.
श्रीगरुडमहापुराणम् २० गरुड उवाच । ये केचित्प्रेतरूपेण कुत्र वासं लभन्ति ते । प्रेतलोकाद्विनिर्मुक्ताः कथं कुत्र व्रजन्ति ते ॥ २,२०.
चतुर्युक्ताशीति लक्षैर्नरकैः पर्युपासिताः । यमेन रक्षितास्तत्र भूतैश्चैव सहस्रशः ॥ २,२०.
विचरन्ति कथं लोके नरकाच्च विनिर्गताः । गरुडोदीरितं श्रुत्वा लक्ष्मीनाथोऽब्रवीदिदम् ॥ २,२०.
श्रीकृष्ण उवाच । पक्षिराज शृणुष्व त्वं यत्र प्रेताश्चरन्ति वै । परार्थदारग्रहणाच्छ (ब) लाद्द्रोहान्निशाचराः ॥ २,२०.
तथैव सर्वपापिष्ठः स्वात्मजान्वेषणे रताः । विचरन्त्यशरीरास्ते क्षुप्तिपासार्दिता भृशम् ॥ २,२०.
बन्दीगृहवि निर्मुक्ता येभ्यो नश्यन्ति जन्तवः । ते व्यवस्यन्ति च प्रेता वधोपायं च बन्धुषु ॥ २,२०.
पितृद्वदाराणि रुन्धन्ति तन्मार्गोच्छेदकास्तथा । पितृभा गान्विगृह्णन्ति पान्थेभ्यस्तस्करा इव ॥ २,२०.
स्वं वेश्म पुनरागत्य मित्रस्थाने विशन्ति ते । तत्र स्थिता निरीक्षन्ते रोगशोकादिबन्धनाः ॥ २,२०.
पीडयन्ति ज्वरीभूय एकान्तरमिषेण तु । तृतीयकज्वरा भूत्वा शीतवातादिपीडया ॥ २,२०.
अन्यांश्च विविधान्रोगाञ्छिरोऽर्तिं च विषूचिकाम् । चिन्त यन्ति सदा तेषामुच्छिष्टादिस्थलस्थिताः ॥ २,२०.
आत्मजानां छलाल्लोका भूतसङ्घैश्च रक्षिताः । पिबन्ति ते च पानीयं भोजनोच्छिष्टयोजितम् ॥ २,२०.
एवं प्रेताः प्रवर्तन्ते नानादोषैर्विकर्मिणः ॥ २,२०.
गरुड उवाच । कथं कुर्वन्ति ते प्रेताः केन रूपेण कस्य किम् । ज्ञायते केन विधिना जल्पन्ति न वदन्ति वा ॥ २,२०.
एनं छिन्धि मनोमोहं मम चेदिच्छसि प्रियम् । कलिकाले हृषीकेश प्रेतत्वं जायते बहु ॥ २,२०.
श्रीविष्णुरुवाच । स्वकुलं पीडयेत्पेतः परच्छिद्रेण पीडयेत् । जीवन्स दृश्यते स्नेही मृतो दुष्टत्वमाप्नुयात् ॥ २,२०.
रुद्रजापी धर्मरतो देवतातिथिपूजकः । सत्यवाक्प्रियवादी च न प्रेतैः स हि पीड्यते ॥ २,२०.
सर्वक्रियापरिभ्रष्टो नास्तिको धर्मनिन्दकः । असत्यवादनिरतो नरः प्रेतैः स पीड्यते । कलौ प्रेतत्वमाप्नोति तार्क्ष्याशुद्धक्रियापरः ॥ २,२०.
कृतादौ द्वापरान्ते च न प्रेतो नैव पीडनम् । बहूनामेकजातानामेकः सौख्यं समश्नुते ॥ २,२०.
एको दुष्कृतकर्मा च एकः सन्ततिमाञ्जनः । एकः सम्पीड्यते प्रेतैरेकः सुतधनान्वितः ॥ २,२०.
एकस्य पुत्रनाशः स्यादेको दुहितृमान् भवेत् । विरोधो बन्धुभिः सार्धं प्रेतदोषेण काश्यप ॥ २,२०.
सन्ततिर्दृश्यते नैव समुत्पन्ना विनश्यति । पशुद्रव्यविनाशश्च सा पीडा प्रेतसम्भवा ॥ २,२०.
प्रकृतेः परिवर्तः स्याद्विद्वेषः सह बन्धुभिः । अकस्माद्व्यसनप्राप्तिः सा पीडा प्रेतसम्भवा ॥ २,२०.
नास्तिक्यं वृत्तिलोपश्च महालोभस्तथैव च । स्याद्धन्तकलहो नित्यं सा पीडा प्रेतसम्भवा ॥ २,२०.
पितृमातृनिहन्ता च देवब्राह्मणनिन्दकः । इत्यादोषमवाप्नोति सा पीडा प्रेतसम्भवा ॥ २,२०.
नित्यकर्मविनिंमुक्तो जपहोमविवर्जितः । परद्रव्याणां च हर्ता सा पीडा प्रेतसम्भवा ॥ २,२०.
सुवृष्टौ कृषिनाशश्च व्यवहारो विनश्यति । लोके कलहकारी च सा पीडा प्रेतसम्भवा ॥ २,२०.