चतुरशीतिलक्षाणां नरकाणां स ईश्वरः । तेषां मध्ये श्रेष्ठतमा घोरा या एकविंशतिः ॥ २,१८.
तामिस्त्रं लोहशङ्कुश्च महारौरवशाल्मली । रौरवं कुड्वलं कालसूत्रकं पूतिमृतिका ॥ २,१८.
सङ्घातं लोहतोदं च सविषं सम्प्रतापनम् । महानरककालोलः सजीवनमहापथः ॥ २,१८.
अवीचिरन्धता मिस्त्रः कुम्भोपाकस्तथैव च । असिपत्रवनं चैव पतनश्चैकविंशतिः ॥ २,१८.
येषां तु नरके घोरे बह्वब्दानि गतानि वै । सन्तातर्नैव विद्यते दूतत्वं ते तु (प्रेत्य) यान्ति हि ॥ २,१८.
यमेन प्रेषितास्ते वै मानुषस्य मृतस्य तु । दिनेदिने प्रगृह्णन्ति दत्तमन्नाद्यपानकम् ॥ २,१८.
प्रेतस्यैव विलुण्ठन्ति मध्ये मार्गे बुभुक्षिताः । मासान्ते भोजनं पिण्डमेके यच्छन्ति तत्र वै ॥ २,१८.
तृप्तिं प्रयान्ति ते सर्वे प्रत्यहं चैव वत्सरम् । एवमादिकृतैः पुण्यैः क्रमात्सौरिपुरं व्रजेत् ॥ २,१८.
ततः संवत्सरस्यान्ते प्रत्यासन्ने यमालये । बहुभीतकरे प्रेतो हस्तमात्रं समुत्सृजेत् ॥ २,१८.
दिवसैर्दशभिर्जातं तं देहं दशपिण्डजम् । जामदग्न्यस्येव रामं दृष्ट्वा तेजः प्रसर्पति ॥ २,१८.
कर्मजं देहमाश्रित्य पूर्वदेहं समुत्सजेत् । अङ्गुष्ठमात्रो वायुश्च शमीपत्रंसमारुहेत् ॥ २,१८.
व्रजंस्तिष्ठन्पदैकेन यथैवैकेन गच्छति । यथा तृणजलौकेव देही कर्मानुगोऽवशः ॥ २,१८.
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ २,१८.
श्रीगरुडमहापुराणम् १९ श्रीभगवानुवाच । वायुभूतः क्षधाविष्टः कर्मजं देहमाश्रितः । ते देहं स समासाद्य यमेन सह गच्छति ॥ २,१९.
चित्रगुप्तपुरं तत्र योजनानां तु विंशतिः । कायस्थास्तत्र पश्यन्ति पापपुण्यानि सर्वशः ॥ २,१९.
महादानेषुदत्तेषु गतस्तत्र सुखी भवेत् । योजनानां चतुर्विंशत्पुरं वैवस्वतं शुभम् ॥ २,१९.
लोहं लवणकार्पासं तिलपात्रं च यैर्नरैः । दत्तं तेनैव तृप्यन्ति यमस्य पुरचारिणः ॥ २,१९.
गत्वा च तत्र ते सर्वे प्रतीहारं वदन्ति हि । धर्मध्वजप्रतीहारस्तत्र तिष्ठति सर्वदा ॥ २,१९.
सप्तधान्यस्य दानेन प्रीतो धर्मध्वजो भवेत् । तत्र गत्वा प्रतीहारो ब्रूते तस्य शुभाशुभम् ॥ २,१९.
धर्मराजस्य यद्रूपं सन्तः सुकृतिनो जनाः । पश्यन्ति च दुरात्मानो यमरूपं सुभीषणम् ॥ २,१९.
तं दृष्ट्वा भयभीतस्तु हाहेति वदते जनः । कृतं दानं च यैर्मर्त्यैस्तेषां नास्ति भयं क्वचित् ॥ २,१९.
प्राप्तं सुकृतिनं दृष्ट्वा स्थानाच्च लति सूर्यजः । एष मे मण्डलं भित्त्वा ब्रह्मलोकं प्रयास्यति ॥ २,१९.
दानेन सुलभो धर्मो यममार्गः सुखावहः । एष मार्गो विशालोऽत्र न केनाप्य नुगम्यते । दानपुण्यं विना वत्स न गच्छेद्धर्ममन्दिरम् ॥ २,१९.
तस्मिन्मार्गे तु रौद्रे वै भीषणा यमकिङ्कराः । एकैकस्य पुरस्याग्रे तिष्ठत्येकसहस्रकम् ॥ २,१९.
पचन्ति पापिनं प्राप्य उदके यातनाकराः । गृह्णन्ति मासमासान्ते पादशेषं तु तद्भवेत् ॥ २,१९.
और्ध्वदैहिकदानानि यैर्न दत्तानि काश्यप । महाकष्टेन ते यान्ति तस्माद्देयानि शक्तितः । अदत्त्वा पशुवद्यान्ति गृहीतो वन्धबन्धनैः ॥ २,१९.
एवं कृतेन सम्पश्येत्स नरः भूतकर्मणा । दैविकीं पैतृकीं योनिं मानुषीं वाथ नारकीम् ॥ २,१९.
धर्मराजस्य वचनान्मुक्तिर्भवति वा ततः । मानुष्यं तत्त्वतः प्राप्य स पुत्त्रः पुत्त्रतां व्रजेत् ॥ २,१९.
यथायथा कृतं कर्म तान्तां योनिं व्रजेन्नरः । तत्तथैव च भुञ्जानो विचरेत्सर्वलोकगः ॥ २,१९.
अशाश्वतं परिज्ञाय सर्वलोकोत्तरं सुखम् । यदा भवति मानुष्यं तदा धर्मं समाचरेत् ॥ २,१९.