बहुधर्मसमाकीर्णे निर्वाते तोयवर्जिते । कमण्डलुप्रदानेन सुखी भवति निश्चितम् ॥ २,१८.
मृतोद्देशेन यो दद्यादुदपात्रं तु ताम्रजम् । प्रपादानसहस्रस्य तत्फलं सोऽश्नुते ध्रुवम् ॥ २,१८.
यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः । न पीडयन्ति दाक्षिण्याद्वस्त्राभरणदानतः ॥ २,१८.
सायुधा धावमानाश्च न मार्गे दृष्टिगोचराः । प्रयान्ति यमदूतास्ते मुद्रिकायाः प्रदानतः ॥ २,१८.
भाजनासनदानेन आमान्नभोजनेन च । आज्ययज्ञोपवीताभ्यां पदं सम्पूर्णतां व्रजेत् ॥ २,१८.
एवं मार्गे गच्छमानस्तृषार्तः श्रमपीडितः । महिषीरथ (दुग्ध) दानाच्च सुखी भवति निश्चितम् ॥ २,१८.
गरुड उवाच । मृतोद्देशेन यत्किञ्चिद्दीयते स्वगृहे विभो । स गच्छति महामार्गे तद्दत्तं केन गृह्यते ॥ २,१८.
श्रीभगवानुवाच । गृह्णाति वरुणो दानं मम हस्ते प्रयच्छति । अहं च भास्करे देवे भास्करात्सोऽश्नुते सुखम् ॥ २,१८.
विकर्मणः प्रभावेण वंशच्छेदे क्षिताविह । सर्वे ते नरकं यान्ति यावत्पापस्य संक्षयः ॥ २,१८.
कस्मिंश्चित्समये पूर्णे महिषासनसंस्थितः । नरकान्वीक्ष्य धर्मात्मा नानाक्रन्दसमाकुलान् ॥ २,१८.
चतुरशीतिलक्षाणां नरकाणां स ईश्वरः । तेषां मध्ये श्रेष्ठतमा घोरा या एकविंशतिः ॥ २,१८.
तामिस्त्रं लोहशङ्कुश्च महारौरवशाल्मली । रौरवं कुड्वलं कालसूत्रकं पूतिमृतिका ॥ २,१८.
सङ्घातं लोहतोदं च सविषं सम्प्रतापनम् । महानरककालोलः सजीवनमहापथः ॥ २,१८.
अवीचिरन्धता मिस्त्रः कुम्भोपाकस्तथैव च । असिपत्रवनं चैव पतनश्चैकविंशतिः ॥ २,१८.
येषां तु नरके घोरे बह्वब्दानि गतानि वै । सन्तातर्नैव विद्यते दूतत्वं ते तु (प्रेत्य) यान्ति हि ॥ २,१८.
यमेन प्रेषितास्ते वै मानुषस्य मृतस्य तु । दिनेदिने प्रगृह्णन्ति दत्तमन्नाद्यपानकम् ॥ २,१८.
प्रेतस्यैव विलुण्ठन्ति मध्ये मार्गे बुभुक्षिताः । मासान्ते भोजनं पिण्डमेके यच्छन्ति तत्र वै ॥ २,१८.
तृप्तिं प्रयान्ति ते सर्वे प्रत्यहं चैव वत्सरम् । एवमादिकृतैः पुण्यैः क्रमात्सौरिपुरं व्रजेत् ॥ २,१८.
ततः संवत्सरस्यान्ते प्रत्यासन्ने यमालये । बहुभीतकरे प्रेतो हस्तमात्रं समुत्सृजेत् ॥ २,१८.
दिवसैर्दशभिर्जातं तं देहं दशपिण्डजम् । जामदग्न्यस्येव रामं दृष्ट्वा तेजः प्रसर्पति ॥ २,१८.
कर्मजं देहमाश्रित्य पूर्वदेहं समुत्सजेत् । अङ्गुष्ठमात्रो वायुश्च शमीपत्रंसमारुहेत् ॥ २,१८.
व्रजंस्तिष्ठन्पदैकेन यथैवैकेन गच्छति । यथा तृणजलौकेव देही कर्मानुगोऽवशः ॥ २,१८.
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ २,१८.
श्रीगरुडमहापुराणम् १९ श्रीभगवानुवाच । वायुभूतः क्षधाविष्टः कर्मजं देहमाश्रितः । ते देहं स समासाद्य यमेन सह गच्छति ॥ २,१९.
चित्रगुप्तपुरं तत्र योजनानां तु विंशतिः । कायस्थास्तत्र पश्यन्ति पापपुण्यानि सर्वशः ॥ २,१९.
महादानेषुदत्तेषु गतस्तत्र सुखी भवेत् । योजनानां चतुर्विंशत्पुरं वैवस्वतं शुभम् ॥ २,१९.
लोहं लवणकार्पासं तिलपात्रं च यैर्नरैः । दत्तं तेनैव तृप्यन्ति यमस्य पुरचारिणः ॥ २,१९.
गत्वा च तत्र ते सर्वे प्रतीहारं वदन्ति हि । धर्मध्वजप्रतीहारस्तत्र तिष्ठति सर्वदा ॥ २,१९.
सप्तधान्यस्य दानेन प्रीतो धर्मध्वजो भवेत् । तत्र गत्वा प्रतीहारो ब्रूते तस्य शुभाशुभम् ॥ २,१९.
धर्मराजस्य यद्रूपं सन्तः सुकृतिनो जनाः । पश्यन्ति च दुरात्मानो यमरूपं सुभीषणम् ॥ २,१९.