शय्यादानाद्बिमानस्थो याति स्वर्गेषु मानवः । तदह्नि दीयते सर्वं द्वादशाहे विशेषतः ॥ २,१८.
पदानि सर्ववस्तूनि वरिष्ठानि त्रयोदशे । यो ददाति मृतस्येह जीवन्नप्यात्महेतवे ॥ २,१८.
तदाश्रितो महामार्गे वैनतेय स गच्छति । एक एवास्ति सर्वत्रे व्यवहारः खगाधिप ॥ २,१८.
उत्तमाधममध्यानां तत्तदावर्जनं भवेत् । यावद्भाग्यं भवेद्यस्य तावन्मार्गेऽतिरिच्यते ॥ २,१८.
स्वयं स्वस्येन यद्दत्तं तत्तत्राधिकरोति तम् । मृते यद्बान्धवैर्दत्तं तदाश्रित्य सुखी भवेत् ॥ २,१८.
गरुड उवाच । कस्मात्पदानि देयानि किंविधानि त्रयोदश । दीयते कस्य देवेश तद्वदस्व यथातथम् ॥ २,१८.
श्रीभगवानुवाच । छत्त्रोपानहवस्त्राणि मुद्रिका च कमण्डलुः । आसनं भाजनं चैव पदं सप्तविधं स्मृतम् ॥ २,१८.
आतपस्तत्र यो रौद्रो दह्यते येन मानवः । छत्रदानेन सुच्छाया जायते प्रेततुष्टिदा ॥ २,१८.
असिपत्रवनं घोरं सोऽतिक्रामति वै ध्रुवम् । अश्वारूढाश्च गच्छन्ति ददते य उपानहौ ॥ २,१८.
आसने स्वागते (भोजने) चैव दत्तं तस्मै द्विजायते । सुखेन भुङ्क्ते स प्रेतः पथि गच्छञ्छनैः शनैः ॥ २,१८.
बहुधर्मसमाकीर्णे निर्वाते तोयवर्जिते । कमण्डलुप्रदानेन सुखी भवति निश्चितम् ॥ २,१८.
मृतोद्देशेन यो दद्यादुदपात्रं तु ताम्रजम् । प्रपादानसहस्रस्य तत्फलं सोऽश्नुते ध्रुवम् ॥ २,१८.
यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः । न पीडयन्ति दाक्षिण्याद्वस्त्राभरणदानतः ॥ २,१८.
सायुधा धावमानाश्च न मार्गे दृष्टिगोचराः । प्रयान्ति यमदूतास्ते मुद्रिकायाः प्रदानतः ॥ २,१८.
भाजनासनदानेन आमान्नभोजनेन च । आज्ययज्ञोपवीताभ्यां पदं सम्पूर्णतां व्रजेत् ॥ २,१८.
एवं मार्गे गच्छमानस्तृषार्तः श्रमपीडितः । महिषीरथ (दुग्ध) दानाच्च सुखी भवति निश्चितम् ॥ २,१८.
गरुड उवाच । मृतोद्देशेन यत्किञ्चिद्दीयते स्वगृहे विभो । स गच्छति महामार्गे तद्दत्तं केन गृह्यते ॥ २,१८.
श्रीभगवानुवाच । गृह्णाति वरुणो दानं मम हस्ते प्रयच्छति । अहं च भास्करे देवे भास्करात्सोऽश्नुते सुखम् ॥ २,१८.
विकर्मणः प्रभावेण वंशच्छेदे क्षिताविह । सर्वे ते नरकं यान्ति यावत्पापस्य संक्षयः ॥ २,१८.
कस्मिंश्चित्समये पूर्णे महिषासनसंस्थितः । नरकान्वीक्ष्य धर्मात्मा नानाक्रन्दसमाकुलान् ॥ २,१८.
चतुरशीतिलक्षाणां नरकाणां स ईश्वरः । तेषां मध्ये श्रेष्ठतमा घोरा या एकविंशतिः ॥ २,१८.
तामिस्त्रं लोहशङ्कुश्च महारौरवशाल्मली । रौरवं कुड्वलं कालसूत्रकं पूतिमृतिका ॥ २,१८.
सङ्घातं लोहतोदं च सविषं सम्प्रतापनम् । महानरककालोलः सजीवनमहापथः ॥ २,१८.
अवीचिरन्धता मिस्त्रः कुम्भोपाकस्तथैव च । असिपत्रवनं चैव पतनश्चैकविंशतिः ॥ २,१८.
येषां तु नरके घोरे बह्वब्दानि गतानि वै । सन्तातर्नैव विद्यते दूतत्वं ते तु (प्रेत्य) यान्ति हि ॥ २,१८.
यमेन प्रेषितास्ते वै मानुषस्य मृतस्य तु । दिनेदिने प्रगृह्णन्ति दत्तमन्नाद्यपानकम् ॥ २,१८.
प्रेतस्यैव विलुण्ठन्ति मध्ये मार्गे बुभुक्षिताः । मासान्ते भोजनं पिण्डमेके यच्छन्ति तत्र वै ॥ २,१८.
तृप्तिं प्रयान्ति ते सर्वे प्रत्यहं चैव वत्सरम् । एवमादिकृतैः पुण्यैः क्रमात्सौरिपुरं व्रजेत् ॥ २,१८.
ततः संवत्सरस्यान्ते प्रत्यासन्ने यमालये । बहुभीतकरे प्रेतो हस्तमात्रं समुत्सृजेत् ॥ २,१८.
दिवसैर्दशभिर्जातं तं देहं दशपिण्डजम् । जामदग्न्यस्येव रामं दृष्ट्वा तेजः प्रसर्पति ॥ २,१८.