शृणोति पक्षिशार्दूल स च पापैर्न लिप्यते । इह लोके सुखं भुक्त्वा स्वर्गलोके महीयते ॥ २,१७.
श्रीगरुडमहापुराणम् १८ श्रीकृष्ण उवाच । श्रवणानां वचः श्रुत्वा क्षणं ध्यात्वा पुनस्ततः । यत्कृतं तु मनुष्यैश्चपुण्यं पापमहर्निशम् ॥ २,१८.
तत्सर्वं च परिज्ञाय चित्रगुप्तो निवेदयेत् । चित्रगुप्तस्ततः सर्वं कर्म तस्मै वदत्यथ ॥ २,१८.
वाचैव यत्कृतं कर्म कृतं चैव तु कायिकम् । मानसं च तथा कर्म कृतं भुङ्क्ते शुभाशुभम् ॥ २,१८.
एवं ते कथितस्तार्क्ष्य प्रेतमार्गस्य निर्णयः । विश्रान्ति दानि सर्वाणि स्थानानि कथितानि ते ॥ २,१८.
तमुद्दिश्य ददात्यन्नं सुखं याति महाध्वनि । दिवा रात्रौ तमुद्दिश्य स्थाने दीपप्रदो भवेत् ॥ २,१८.
अन्धकारे महाघोरे श्वपूर्णे लक्ष्यवर्जिते । दीप्तेऽध्वनि च ते यान्ति दीपो दत्तश्च यैर्नरैः ॥ २,१८.
कार्तिके च चतुर्दश्यां दीपदानं सुखाय वै । अथ वक्ष्यामि संक्षेपाद्यममार्गस्य निष्कृतिम् ॥ २,१८.
वृषोत्सर्गस्य पुण्येन पितृलोकं स गच्छति । एकादशाहपिण्डेन शुद्धदेहो भवेत्ततः ॥ २,१८.
उदकुम्भप्रदानेन किङ्करास्तृप्तिमाप्नुयुः ॥ २,१८.
शय्यादानाद्बिमानस्थो याति स्वर्गेषु मानवः । तदह्नि दीयते सर्वं द्वादशाहे विशेषतः ॥ २,१८.
पदानि सर्ववस्तूनि वरिष्ठानि त्रयोदशे । यो ददाति मृतस्येह जीवन्नप्यात्महेतवे ॥ २,१८.
तदाश्रितो महामार्गे वैनतेय स गच्छति । एक एवास्ति सर्वत्रे व्यवहारः खगाधिप ॥ २,१८.
उत्तमाधममध्यानां तत्तदावर्जनं भवेत् । यावद्भाग्यं भवेद्यस्य तावन्मार्गेऽतिरिच्यते ॥ २,१८.
स्वयं स्वस्येन यद्दत्तं तत्तत्राधिकरोति तम् । मृते यद्बान्धवैर्दत्तं तदाश्रित्य सुखी भवेत् ॥ २,१८.
गरुड उवाच । कस्मात्पदानि देयानि किंविधानि त्रयोदश । दीयते कस्य देवेश तद्वदस्व यथातथम् ॥ २,१८.
श्रीभगवानुवाच । छत्त्रोपानहवस्त्राणि मुद्रिका च कमण्डलुः । आसनं भाजनं चैव पदं सप्तविधं स्मृतम् ॥ २,१८.
आतपस्तत्र यो रौद्रो दह्यते येन मानवः । छत्रदानेन सुच्छाया जायते प्रेततुष्टिदा ॥ २,१८.
असिपत्रवनं घोरं सोऽतिक्रामति वै ध्रुवम् । अश्वारूढाश्च गच्छन्ति ददते य उपानहौ ॥ २,१८.
आसने स्वागते (भोजने) चैव दत्तं तस्मै द्विजायते । सुखेन भुङ्क्ते स प्रेतः पथि गच्छञ्छनैः शनैः ॥ २,१८.
बहुधर्मसमाकीर्णे निर्वाते तोयवर्जिते । कमण्डलुप्रदानेन सुखी भवति निश्चितम् ॥ २,१८.
मृतोद्देशेन यो दद्यादुदपात्रं तु ताम्रजम् । प्रपादानसहस्रस्य तत्फलं सोऽश्नुते ध्रुवम् ॥ २,१८.
यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः । न पीडयन्ति दाक्षिण्याद्वस्त्राभरणदानतः ॥ २,१८.
सायुधा धावमानाश्च न मार्गे दृष्टिगोचराः । प्रयान्ति यमदूतास्ते मुद्रिकायाः प्रदानतः ॥ २,१८.
भाजनासनदानेन आमान्नभोजनेन च । आज्ययज्ञोपवीताभ्यां पदं सम्पूर्णतां व्रजेत् ॥ २,१८.
एवं मार्गे गच्छमानस्तृषार्तः श्रमपीडितः । महिषीरथ (दुग्ध) दानाच्च सुखी भवति निश्चितम् ॥ २,१८.
गरुड उवाच । मृतोद्देशेन यत्किञ्चिद्दीयते स्वगृहे विभो । स गच्छति महामार्गे तद्दत्तं केन गृह्यते ॥ २,१८.
श्रीभगवानुवाच । गृह्णाति वरुणो दानं मम हस्ते प्रयच्छति । अहं च भास्करे देवे भास्करात्सोऽश्नुते सुखम् ॥ २,१८.
विकर्मणः प्रभावेण वंशच्छेदे क्षिताविह । सर्वे ते नरकं यान्ति यावत्पापस्य संक्षयः ॥ २,१८.
कस्मिंश्चित्समये पूर्णे महिषासनसंस्थितः । नरकान्वीक्ष्य धर्मात्मा नानाक्रन्दसमाकुलान् ॥ २,१८.