शुभाशुभं तु यत्कर्म ते विचार्य पुनः पुनः । श्रवणा ब्रह्मणः पुत्रा मनुष्याणां च चेष्टितम् । कथयन्ति तदा लोके पूजिताः पूजिताः स्वयम् ॥ २,१६.
नरैस्तुष्टैश्च पुष्टैश्च यत्प्रोक्तं च कृतं च यत् । सर्वमावेदयन्ति स्म चित्रगुप्ते यमे च तत् ॥ २,१६.
दूराच्छ्रवणविज्ञाना दूराद्दर्शनगोचराः । एवञ्चेष्टास्तु ते ह्यष्टौ स्वर्भूपातालचारिणः ॥ २,१६.
तेषां पत्न्यस्तथै वोग्रा श्रवण्यः पृथगाह्वयाः । एवं तेषां शक्तिरस्ति यर्त्ये मर्त्याधिकारिणः ॥ २,१६.
व्रतैर्दानैस्तवैर्यश्च पूजयेदिह मानवः । जायन्ते तस्य ते सौम्याः सुखमृत्युप्रदायिनः ॥ २,१६.
श्रीगरुडमाहापुराणम् १७ गरुड उवाच । एको मे संशयो देव हृदये सम्प्रबाधते । श्रमणाः कस्य पुत्राश्च कथं यमपुरे स्थिताः ॥ २,१७.
मानुषैश्च कृतं कर्म कस्माज्जानन्ति ते प्रभो । कथं शृण्वन्ति ते सर्वे कस्माज्ज्ञानं समागतम् ॥ २,१७.
कुत्र भुञ्जन्ति देवेश क्रथयस्व प्रसादतः । पक्षिराजवचः श्रुत्वा भगवान्वाक्यमब्रवीत् ॥ २,१७.
श्रीकृष्ण उवाच । शृणुष्व वचनं सत्यं सर्वेषां सौख्यदायकम् । तदहं कथयिष्यामि श्रवणानां विचेष्टितम् ॥ २,१७.
एकीभूतं यदा सर्वं जगत्स्थावरजङ्गमम् । क्षीरोदसागरे पूर्वं मयि सुप्ते जगत्पतौ ॥ २,१७.
नाभिस्थोजस्तपस्तेपे वर्षाणि सुबहून्यपि । एकीभूतं जगत्सृष्टं भूतग्रामचतुर्विधम् ॥ २,१७.
ब्रह्मणा निर्मितं पूर्वं विष्णुना पालितं तदा । रुद्रः संहारमूर्तिश्च निर्मितो ब्रह्मणा ततः ॥ २,१७.
वायुः सर्वगतः सृष्टः सूर्यस्तेजोभिवृद्धिमान् । धर्मराजस्ततः सृष्टश्चित्रगुप्तेन संयुत) ॥ २,१७.
सृष्ट्वैतदादिकं सर्वं तपस्तेपे तु पद्मजः । गतानि बहुवर्षाणि ब्रह्मणो नाभिपङ्कजे ॥ २,१७.
योयो हि निर्मितः पूर्वं तत्तत्कर्म समाचरेत् । कस्मिंश्चित्समये तत्र ब्रह्मा लोकसमन्वितः ॥ २,१७.
रुद्रो विष्णुस्तथा धर्मः शासयन्ति वसुन्धराम् । न जानीमो वयं किञ्चिल्लोककृत्यमिहोच्यताम् ॥ २,१७.
इति चिन्तापराः सर्वे देवा विममृशुस्तदा । संचिन्त्य ब्रह्मणो मन्त्रं विबुधैः प्रेरितस्तदा ॥ २,१७.
गृहीत्वा पुष्पपत्राणि सोसृजद्द्वादशात्मजान् । तेजोराशीन्विशालाक्षान्ब्रह्मणो वचनात्तु ते ॥ २,१७.
योयं वदति लोकेस्मिञ्छुभं वा यदि वाशुभम् । प्रापयन्ति ततः शीघ्रं ब्रह्मणः कर्णगोचरम् ॥ २,१७.
दूराच्छ्रवणविज्ञानं दूराद्दर्शनगोचरम् । सर्वे शृण्वन्ति यत्पक्षिंस्तेनैव श्रवणा मताः ॥ २,१७.
स्थित्वा चैव तथाकाशे जन्तूनां चेष्टितं च यत् । तज्ज्ञात्वा धर्मराजाग्रे मृत्युकाले वदन्ति च ॥ २,१७.
धर्मं चार्थं च कामं च मोक्षं च कथयन्ति ते । एको हि धर्ममार्गश्च द्वितीयश्चार्थमार्गकः ॥ २,१७.
अपरः काममार्गश्च मोक्षमार्गश्चतुर्थकः । उत्तमा धममार्गेण वैनतेय प्रयान्ति हि ॥ २,१७.
अर्थदाता विमानैस्तु अश्वैः कामप्रदायकः । हंसयुक्तविमानैश्च मोक्षाकाङ्क्षी विसर्पति ॥ २,१७.
इतरः पादचारेण त्वसिपत्रवनानि च । पाषाणैः कण्टकैः क्लिष्टः पाशबद्धोऽथ याति वै ॥ २,१७.
यः कश्चिन्मानुषे लोके श्रवणान्पूजयेदिह । वर्धन्या जलपात्रेम पक्वान्नपरिपूर्णया ॥ २,१७.
श्रवणान्पूजयेत्तत्र मया सह खगेश्वर । तस्याहं तत्प्रदास्यामि यत्सुरैरपि दुर्लभम् ॥ २,१७.
संभोज्य ब्राह्मणान् भक्त्या त्वेकादश शुभाञ्छुचीन् । द्वादशं सकलत्रं च मम प्रीत्यै प्रपूजयेत् ॥ २,१७.
देवैः सर्वैश्च संपूज्य स्वर्गं यान्ति सुखेप्सया । तैः पूजितैरह तुष्टश्चित्रगुप्तेन धर्मराट् ॥ २,१७.
तैस्तुष्टैर्मत्पुरं यान्ति लोका धर्मपारायणाः । श्रवणानां च माहात्म्यमुत्पत्तिं चेष्टितं शुभम् ॥ २,१७.