आवाह्य मण्डले देवं कृत्वा न्यासं तु तस्य च 32.
स्नानं वस्त्रं तथाचामं गन्धं पुष्पं च धूपकम् कुर्य्याच्छङ्कर मूलेन जपं चापि समर्पयेत् ।। 32.
इदं स्तोत्रं जपेत्पश्चाद्वासुदेवमनुस्मरन् 32.
प्रद्युम्नायादिदेवायानिरुद्धाय नमोनमः 32.
नरपूज्याय कीर्त्याय स्तुत्याय वरदाय च 32.
सृष्टिसंहारकर्त्रे च ब्रह्मणः पतये नमः 32.
कलिकल्मषहर्त्रे च सुरेशाय नमोनमः 32.
बहुरूपाय तीर्थाय त्रिगुणायागुणाय च 32.
मोक्षद्वाराय धर्माय निर्माणाय नमोनमः 32.
संसारसागरे घोरे निमग्नं मां समुद्धर 32.
त्वामेव सर्वगं विष्णुं गतोऽहं शरणं गतः 32.
एवं स्तुवीत देवेशं सर्वक्लेशविनाशनम् 32.
पञ्चतत्त्वसमायुक्तं ध्यायोद्विष्णुं नरो हृदि 32.
सर्वकामप्रदा श्रेष्ठा वासुदेवस्य शङ्कर 32.
इदं च यः पठेद्रुद्र पञ्चतत्त्वार्चनं नरः 32.
सुदर्शनस्य पूजां मे वद शङ्खगदाधर 33.
हरिरुवाच स्नानमादौ प्रकुर्वीत पूजयेच्च हरिं तत ।। 33.
मूलमन्त्रेण वै न्यासं मूलमन्त्रं श्रृणुष्व च 33.
कथितः सर्वदुष्टानां नाशको मन्त्रभेदकः 33.
शङ्कचक्रगदापद्मधरं सौम्यं किरीटिनम् 33.
पूजयेद्गन्धपुष्पाद्यैरुपचारैर्महेश्वर 33.
एवं यः कुरुते रुद्र ! चक्रस्यार्चनमुत्तमम् 33.
एतत्स्तोत्रं जपेत्पश्चात्सर्वव्याधिविनाशनम् 33.
ज्वालामालाप्रदीप्ताय सहस्राराय चक्षुषे 33.
सुचक्राय विचक्राय सर्वमन्त्रविभेदिने 33.
पालनार्थाय लोकानां दुष्टासुरविनाशिने 33.
नमश्चक्षुः स्वरूपाय संसारभयभेदिने 33.
ग्रहातिग्रहरूपाय ग्रहाणां पतये नमः 33.
भक्तानुग्रहदात्रे च भक्तगोप्त्रे नमोनमः 33.
विष्णुशस्त्राय चक्राय नमो भूयो नमोनमः 33.