विहाय तत्पुरं प्रेतो याति तप्तपुरं प्रति । सुतप्तनगरं प्राप्य नवमे मासि सोऽश्नुते । द्विजभोज्यं पिण्डदानं कृतं श्राद्धं सुतेन यत् ॥ २,१६.
मासि वै दशमे प्राप्ते रौद्रं स्थानं स गच्छति । दशमे मासि यद्दत्तं तद्भुक्त्वा च प्रयाति सः ॥ २,१६.
दशैकमासिकं भुक्त्वा पयोवर्षणमृच्छति । मेघास्तत्र प्रवर्षन्ति प्रेतानां दुः खदायकाः ॥ २,१६.
(ततः प्रचलितो पोतो बहुर्घमतृषार्दितः) । द्वादशे मासि यच्छ्राद्धं तत्र भुङ्क्ते सुदुः शितः ॥ २,१६.
किञ्चिन्न्यूने ततो वर्षे सार्धे चैकादशेऽथ वा । याति शीतपुरं तत्र शीतं यत्रातिदुः खदम् ॥ २,१६.
शीतार्तः क्षुधितः सोऽथ वीक्षते हि दिशो दश । तिष्ठेत्तु बान्धवः कोऽपि यो मे दुःखं व्यपोहति ॥ २,१६.
किङ्करास्तं वदन्त्येवं क्व ते पुण्यं हि तादृशम् । श्रुत्वा तेषां तु तद्वाक्यं हा दैव इति भाषते ॥ २,१६.
दैवं हि पूर्वसुकृतं तन्मया नैव सञ्चितम् । एवं सञ्चिन्त्य बहुशो धैर्यमालम्बते पुनः ॥ २,१६.
चत्वारिंशद्योजनानि चतुर्युक्तानि वै ततः । धर्मराजपुरं रम्यं गन्धर्वाप्सराकुलम् ॥ २,१६.
चतुरशीतिलक्षैश्च मूर्तामूर्तैरधिष्ठितम् । त्रयोदश प्रतीहारा धर्मराजपुरे स्थिताः ॥ २,१६.
शुभाशुभं तु यत्कर्म ते विचार्य पुनः पुनः । श्रवणा ब्रह्मणः पुत्रा मनुष्याणां च चेष्टितम् । कथयन्ति तदा लोके पूजिताः पूजिताः स्वयम् ॥ २,१६.
नरैस्तुष्टैश्च पुष्टैश्च यत्प्रोक्तं च कृतं च यत् । सर्वमावेदयन्ति स्म चित्रगुप्ते यमे च तत् ॥ २,१६.
दूराच्छ्रवणविज्ञाना दूराद्दर्शनगोचराः । एवञ्चेष्टास्तु ते ह्यष्टौ स्वर्भूपातालचारिणः ॥ २,१६.
तेषां पत्न्यस्तथै वोग्रा श्रवण्यः पृथगाह्वयाः । एवं तेषां शक्तिरस्ति यर्त्ये मर्त्याधिकारिणः ॥ २,१६.
व्रतैर्दानैस्तवैर्यश्च पूजयेदिह मानवः । जायन्ते तस्य ते सौम्याः सुखमृत्युप्रदायिनः ॥ २,१६.
श्रीगरुडमाहापुराणम् १७ गरुड उवाच । एको मे संशयो देव हृदये सम्प्रबाधते । श्रमणाः कस्य पुत्राश्च कथं यमपुरे स्थिताः ॥ २,१७.
मानुषैश्च कृतं कर्म कस्माज्जानन्ति ते प्रभो । कथं शृण्वन्ति ते सर्वे कस्माज्ज्ञानं समागतम् ॥ २,१७.
कुत्र भुञ्जन्ति देवेश क्रथयस्व प्रसादतः । पक्षिराजवचः श्रुत्वा भगवान्वाक्यमब्रवीत् ॥ २,१७.
श्रीकृष्ण उवाच । शृणुष्व वचनं सत्यं सर्वेषां सौख्यदायकम् । तदहं कथयिष्यामि श्रवणानां विचेष्टितम् ॥ २,१७.
एकीभूतं यदा सर्वं जगत्स्थावरजङ्गमम् । क्षीरोदसागरे पूर्वं मयि सुप्ते जगत्पतौ ॥ २,१७.
नाभिस्थोजस्तपस्तेपे वर्षाणि सुबहून्यपि । एकीभूतं जगत्सृष्टं भूतग्रामचतुर्विधम् ॥ २,१७.
ब्रह्मणा निर्मितं पूर्वं विष्णुना पालितं तदा । रुद्रः संहारमूर्तिश्च निर्मितो ब्रह्मणा ततः ॥ २,१७.
वायुः सर्वगतः सृष्टः सूर्यस्तेजोभिवृद्धिमान् । धर्मराजस्ततः सृष्टश्चित्रगुप्तेन संयुत) ॥ २,१७.
सृष्ट्वैतदादिकं सर्वं तपस्तेपे तु पद्मजः । गतानि बहुवर्षाणि ब्रह्मणो नाभिपङ्कजे ॥ २,१७.
योयो हि निर्मितः पूर्वं तत्तत्कर्म समाचरेत् । कस्मिंश्चित्समये तत्र ब्रह्मा लोकसमन्वितः ॥ २,१७.
रुद्रो विष्णुस्तथा धर्मः शासयन्ति वसुन्धराम् । न जानीमो वयं किञ्चिल्लोककृत्यमिहोच्यताम् ॥ २,१७.
इति चिन्तापराः सर्वे देवा विममृशुस्तदा । संचिन्त्य ब्रह्मणो मन्त्रं विबुधैः प्रेरितस्तदा ॥ २,१७.
गृहीत्वा पुष्पपत्राणि सोसृजद्द्वादशात्मजान् । तेजोराशीन्विशालाक्षान्ब्रह्मणो वचनात्तु ते ॥ २,१७.
योयं वदति लोकेस्मिञ्छुभं वा यदि वाशुभम् । प्रापयन्ति ततः शीघ्रं ब्रह्मणः कर्णगोचरम् ॥ २,१७.
दूराच्छ्रवणविज्ञानं दूराद्दर्शनगोचरम् । सर्वे शृण्वन्ति यत्पक्षिंस्तेनैव श्रवणा मताः ॥ २,१७.