यमदूतोदितं वाक्यं पक्षिन्नैवं त्वया श्रुतम् । एवमुक्तस्ततः सर्वैर्हन्यमानः स मुद्गरैः ॥ २,१६.
अत्र दत्तं सुतैः पात्रे (त्रैः) स्नेहाद्वा कृपयाथ वा । मासिकं पिण्डमश्राति ततः सौरिपुरं व्रजेत् ॥ २,१६.
तत्र नाम्ना तु राजा वै जङ्गमः कालरूपधृक् । तं दृष्ट्वा भयभीतस्तु विश्रामे कुरुते मतिम् ॥ २,१६.
उदकं चान्नसंयुक्तं भुङ्क्ते तस्मिन्पुरे गतः । त्रैपक्षिके तु यद्दत्तं तत्पुरं स व्यतिक्रमेत् ॥ २,१६.
नगेन्द्रनगरे रम्ये प्रेतो याति दिवानिशम् । गच्छन्वनानि रौद्राणि दृष्ट्वा क्रन्दति तत्र सः ॥ २,१६.
भीषणैः क्लिश्यमानस्तु रुदते च पुनः पुनः । मासद्वयावसाने तु तत्पुरं सोऽतिगच्छति ॥ २,१६.
भुक्त्वा चान्नं जलं पीत्वा यद्दत्तं वान्धवैरिह । क्लिश्यमानस्ततः पाशैर्नोयते यमकिङ्करैः ॥ २,१६.
तृतीये मासि सम्प्राप्ते गन्धर्वनगरं शुभम् । तृतीयं मासिकं भुक्त्वा तत्र गच्छत्यसौ पुरः ॥ २,१६.
शैलागमं चतुर्थे स मासे प्राप्नोति वै पुरम् । पाषाणास्तत्र वर्षन्ति प्रेतस्योपरि संस्थिताः ॥ २,१६.
चतुर्थमासिके श्राद्धं भुक्ते तत्र सुखी भवेत् ॥ २,१६.
ततो याति पुरं प्रेतः क्रूरं मासे तु पञ्चमे । इह दत्तं सुतैर्भुङ्क्ते प्रेतो वै तत्पुरे स्थितः । षष्ठे मासि ततः प्रेतो याति क्रौञ्चाबिधं पुरम् ॥ २,१६.
तत्र दत्तेन पिण्डेन श्राद्धेनाप्यायितः पुरे । मुहूर्तार्धं तु विश्रम्य कम्पमानः सुदुः खितः ॥ २,१६.
तत्पुरं स व्यतिक्रम्य तर्जितो यमकिङ्करैः । प्रयाति चित्रनगरं विचित्रो यत्र पार्थिवः ॥ २,१६.
यमस्यैवानुजः सौरिर्यत्र राज्यं प्रशास्ति हि । मासैस्तु पञ्चभिः सार्धैरूपषाण्मासिकं भवेत् ॥ २,१६.
ऊनषाण्मासिकं तत्र भुङ्क्ते याम्यसमाहतः । मार्गे पुनः पुनस्तस्य बुभुक्षा पीडयत्यलम् ॥ २,१६.
सन्तिष्ठते मृते कोऽपि मदीयः सुतबान्धवः । सौख्यं यो मे जनयति पततः शोकसागरे ॥ २,१६.
एवं मार्गे विलपति वार्यमाणश्च किङ्करैः । आयान्ति संमुखास्तत्र कैवर्तास्तु सहस्रशः ॥ २,१६.
वयं ते तर्तुकामाय महावैतरणीं नदीम् । शतयोजनविस्तीर्णां पूयशोणितसंकुलाम् ॥ २,१६.
नानाझषसमाकीर्णां नानापक्षिगणैर्वृताम् । वयं त्वां तारयिष्यामः सुखेनेति वदन्ति ते ॥ २,१६.
अन्तरं देहि भो पान्थ बहुला चेद्रुचिस्तव । तेन तत्र प्रदत्ता गौस्तया नावा प्रसर्पति । मनुजानां हितं दानमन्ते वैतरणी स्मृता ॥ २,१६.
परापापं दहेत्सर्वं विष्णुलोकं च सा नयेत् । न दत्ता चेत्खगश्रेष्ठ तां समेत्य समज्जति ॥ २,१६.
स्वस्थावस्थे शरीरेऽत्र वैतरण्या व्रतं चरेत् । देया च विदुषे धेनुस्तां नदीं तर्तुमिच्छता ॥ २,१६.
अवदन्मज्जमानस्तु निन्दत्यात्मानमात्मना । पाथेयार्थं मया किञ्चिन्न प्रदत्तं द्विजायच ॥ २,१६.
न दत्तं न हुतं जप्तं न स्नातं न कृतं स्तुतम् । यादृशं कर्म चरितं मूढ भुङ्क्ष्वेति तादृशम् ॥ २,१६.
तदैव हृदि संमूढस्ताडितो भाषते भटैः । वैतरण्याः परतटे भुङ्क्ते दत्तं घटादिकम् ॥ २,१६.
ऊनषाण्मासिकश्राद्धं भुक्त्वा गच्छति चाग्रतः । तार्क्ष्य तत्र विशेषेण भोजयीत द्विजाञ्छुभान् ॥ २,१६.
चत्वारिंशत्तथा सप्त योजनानि शतद्वयम् । प्रयाति प्रत्यहं तार्क्ष्य अहोरात्रेण कर्शितः ॥ २,१६.
सप्तमे मासि सम्प्राप्ते पुरं बह्वापदं व्रजेत् । तत्र भुक्त्व प्रदत्तं यच्छ्राद्धं सप्तममासिकम् ॥ २,१६.
अष्टमे मासि सम्प्राप्ते नानाक्रन्दपुरं व्रजेत् । नानाक्रन्दगणान्दृष्ट्वा क्रन्दमानान्सुदारुणम् ॥ २,१६.
स्वयं च शून्यहृदयः समाक्रन्दति दुः खितः । तन्मासिकं च यच्छ्राद्धं भुक्त्वा तत्र सुखी भवेत् ॥ २,१६.