त्रयोदशेऽह्नि स प्रेतो गृहीतो यमकिङ्करैः । तस्मिन्मार्गे ब्रजत्येको गृहीत इव मर्कटः ॥ २,१५.
तथव स व्रजन्मार्गे पुत्रपुत्रेति च ब्रुवन् । हाहेति क्रन्दते नित्यं कीदृशं तु मया कृतम् ॥ २,१५.
मानुष्यं लभ्यते कस्मादिति ब्रूते प्रसर्पति । महता पुण्ययोगेन मानुष्यं जन्म लभ्यते ॥ २,१५.
न तत्प्राप्य प्रदत्तं हि याचकेभ्यः स्वकं धनम् । पराधीनं तदभवदिति ब्रूते (रौति) सगद्गदः ॥ २,१५.
किङ्करैः पीड्यतेऽत्यर्थं स्मरते पूर्वदैहिकम् ॥ २,१५.
सुखस्य दुः खस्य न कोपि दाता परो ददातीति कुबुद्धिरेषा । पुरा कृतं कर्म सदैव भुज्यते देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २,१५.
मया न दत्तं न हुतं हुताशने तपो न तप्तं हिमशैलगह्वरे । न सेवितं गाङ्गमहो महाजलं देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २,१५.
न नित्यदानं न गावाह्निकं कृतं न वेददानं न च शास्त्रपुस्तकम् । पुरा नदृष्टं न च सेवितोऽध्वा देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २,१५.
जलाशयो नैव कृतो हि निर्जले मनुष्यहेतोः पशुपक्षिहेतवे । गोतृप्तिहेतोर्न कृतं हि गोचरं देहिन्क्वचिन्नस्तर यत्त्वया कृतम् ॥ २,१५.
मया न भुक्तं पतिसङ्गसौख्यं वह्निप्रवेशो न कृतो मृते सति । तस्मिन्मृते तद्व्रतपालनं वा देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २,१५.
मासोपवासैर्न विशोषितं वपुश्चान्द्रायणैर्वा नियमैश्च संहतैः । नारीशरीरं बहुदुः खभाजनं लब्धं मया पूर्वकृतैर्विकर्मभिः ॥ २,१५.
उक्तानि वाच्यानि मया नराणामतः शृणुष्वावहितोऽपि पक्षिन् । स्त्रीणां शरीरं प्रतिलभ्य देही ब्रवीति कर्माणि कृतानि पूर्वम् ॥ २,१५.
श्रीगरुडमहापुराणम् १६ श्रीभगवानुवाच । एवं विलपतस्तस्य प्रेतस्यैवं खगेश्वर । क्रन्दमानस्य नितरां पीडितस्य च किङ्करैः ॥ २,१६.
सप्तदश दिनान्येको वायुमार्गे विकृष्यते । अष्टादशे त्वहोरात्रे पूर्वं याम्यपुरं व्रजेत् ॥ २,१६.
तस्मिन्पुरवरे रम्ये प्रेतानां च गणो महान् । पुष्पभद्रा नदी तत्रन्यग्रोधः प्रियदर्शनः ॥ २,१६.
पुरे स तत्र विश्रामं प्राप्यते यमकिङ्करैः । जायापुत्रादिकं सौख्यं स्मरेत्तत्र सुदुः खितः ॥ २,१६.
रुदते करुणैर्वाक्यै स्तृषार्तः श्रमपीडितः । स्वधनं स्वकलत्राणि गृहं पुत्राः सुखानि च ॥ २,१६.
भृत्यमित्राणि चान्यच्च सर्वं शोचति वै तदा । क्षुधार्तस्य पुरे तस्मिन्किङ्करैस्तस्य चोच्यते ॥ २,१६.
किङ्करा ऊचुः । क्व धनं क्व सुता जाया क्व गृहं क्व त्वमीदृशः । स्वकर्मोपार्जितं भुङ्क्ष्व चिरं गच्छ महापथे ॥ २,१६.
जानासि शंबलवशं बलमध्वगानां नो शंबलः प्रयतते परलोकपान्थ । गन्तव्यमस्ति तव निश्चितमेव तेन मार्गेण यत्र भवतः क्रयविक्रयौ न ॥ २,१६.
यमदूतोदितं वाक्यं पक्षिन्नैवं त्वया श्रुतम् । एवमुक्तस्ततः सर्वैर्हन्यमानः स मुद्गरैः ॥ २,१६.
अत्र दत्तं सुतैः पात्रे (त्रैः) स्नेहाद्वा कृपयाथ वा । मासिकं पिण्डमश्राति ततः सौरिपुरं व्रजेत् ॥ २,१६.
तत्र नाम्ना तु राजा वै जङ्गमः कालरूपधृक् । तं दृष्ट्वा भयभीतस्तु विश्रामे कुरुते मतिम् ॥ २,१६.
उदकं चान्नसंयुक्तं भुङ्क्ते तस्मिन्पुरे गतः । त्रैपक्षिके तु यद्दत्तं तत्पुरं स व्यतिक्रमेत् ॥ २,१६.
नगेन्द्रनगरे रम्ये प्रेतो याति दिवानिशम् । गच्छन्वनानि रौद्राणि दृष्ट्वा क्रन्दति तत्र सः ॥ २,१६.
भीषणैः क्लिश्यमानस्तु रुदते च पुनः पुनः । मासद्वयावसाने तु तत्पुरं सोऽतिगच्छति ॥ २,१६.
भुक्त्वा चान्नं जलं पीत्वा यद्दत्तं वान्धवैरिह । क्लिश्यमानस्ततः पाशैर्नोयते यमकिङ्करैः ॥ २,१६.
तृतीये मासि सम्प्राप्ते गन्धर्वनगरं शुभम् । तृतीयं मासिकं भुक्त्वा तत्र गच्छत्यसौ पुरः ॥ २,१६.
शैलागमं चतुर्थे स मासे प्राप्नोति वै पुरम् । पाषाणास्तत्र वर्षन्ति प्रेतस्योपरि संस्थिताः ॥ २,१६.
चतुर्थमासिके श्राद्धं भुक्ते तत्र सुखी भवेत् ॥ २,१६.