ओदनानि च सक्तूंश्च शाकमूलफलादिना । प्रथमेऽहनि यद्दद्यात्तद्दद्यादुत्तरेऽहनि ॥ २,१५.
दिनानि दश पिण्डांश्च कुर्वन्त्यत्र सुतादयः । प्रत्यहं ते विभज्यन्ते चतुर्भागाः खगेश्वर ॥ २,१५.
भागद्वयं तु देहार्थं प्रीतिदं भूतपञ्चके । तृतीयं यमदूतानां चतुर्थं चोपजीव्यति ॥ २,१५.
अहोरात्रैस्तु नवभिः प्रेतो निष्पत्तिमाप्नुयात् । जन्तोर्निष्पन्नदेहस्य दशमे वलवत्क्षुधा ॥ २,१५.
न विधिर्नैव मन्त्रश्च न स्वधावाहनाशिषः । नाम गोत्रं समुच्चार्य यद्दत्तं तद्दशाहिकम् ॥ २,१५.
दग्धे देहे पुनर्देहमेवमुत्पद्यते खग । प्रथमेऽहनि यः पिण्डस्तेन मूर्धा प्रजायते ॥ २,१५.
ग्रीवा स्कन्धौ द्वितीये च तृतीये हृदयं भवेत् । चतुर्थेन भवेत्पृष्ठं पञ्चमे नाभिरेव च ॥ २,१५.
षट्सप्तमे कटी गुह्यमृरू चाप्यष्टमे तथा । तालू पादौ च नवमे दशमेऽह्नि क्षुधा भवेत् ॥ २,१५.
देहं प्राप्तः क्षुधाविष्टो गृहे द्वारे च तिष्ठति । दशमेऽहनि यः पिण्डस्तं दद्यादामिषेण तु ॥ २,१५.
यतो देहे समुत्पन्ने प्रेतोऽतीव क्षुधान्वितः । अतस्त्वामिषबाह्येन क्षुधा तस्य न नश्यति ॥ २,१५.
एकादशे द्वादशाहे प्रेतो भुङ्क्ते दिनद्वयम् । योषितः पुरुषास्यापि प्रेतशब्दं समुच्चरेत् ॥ २,१५.
दीपमन्नं जलं वस्त्रं यत्किञ्चिद्वस्तु दीयते । प्रेतशब्देन तद्देयं मृस्यानन्ददायकम् ॥ २,१५.
त्रयोदशेऽह्नि स प्रेतो नीयते च महापथे । पिण्डजं देहमाश्रित्य दिवा नक्तं बुभुक्षितः ॥ २,१५.
शीतोष्णशङ्कुक्रव्यादवह्निमार्गस्तु पापिनाम् । क्षुधा तृष्णात्मिका चैव सव्व सौम्यं कृतात्मनाम् ॥ २,१५.
मार्गे चैतानि दुः खानि असिपत्रवनान्विते । क्षुत्पिपासार्दितो नित्यं यमदृतैः प्रपीडितः ॥ २,१५.
अहन्यहनि वै प्रेतो योजनानां शतद्वयम् । चत्वारिंशत्तथा सप्त अहोरात्रेण गच्छति ॥ २,१५.
गृहीतो यमपाशैश्च हाहेति रुदिते तु सः । स्वगृहं तु परित्यज्य याम्यं पुरमनुव्रजेत् ॥ २,१५.
क्रमेण याति स प्रेतः पुरं याम्यं शुभाशुभम् । अतीत्य तानितान्येव मार्गे पुरवराणि च ॥ २,१५.
याम्यं सौरिपुरं नगेन्द्रभवनं गन्धर्वशैलागमौ । क्रोञ्चं क्रूरपुरं विचित्रभवनं बह्वापदं दुः खदम् ॥ २,१५.
नानाक्रन्दपुरं सुतप्रभवनं रौद्रं पयोवर्षणं शीताढ्यं बहुधर्मभीतभवनं याम्यं पुरं चाग्रतः ॥ २,१५.
त्रयोदशेऽह्नि स प्रेतो गृहीतो यमकिङ्करैः । तस्मिन्मार्गे ब्रजत्येको गृहीत इव मर्कटः ॥ २,१५.
तथव स व्रजन्मार्गे पुत्रपुत्रेति च ब्रुवन् । हाहेति क्रन्दते नित्यं कीदृशं तु मया कृतम् ॥ २,१५.
मानुष्यं लभ्यते कस्मादिति ब्रूते प्रसर्पति । महता पुण्ययोगेन मानुष्यं जन्म लभ्यते ॥ २,१५.
न तत्प्राप्य प्रदत्तं हि याचकेभ्यः स्वकं धनम् । पराधीनं तदभवदिति ब्रूते (रौति) सगद्गदः ॥ २,१५.
किङ्करैः पीड्यतेऽत्यर्थं स्मरते पूर्वदैहिकम् ॥ २,१५.
सुखस्य दुः खस्य न कोपि दाता परो ददातीति कुबुद्धिरेषा । पुरा कृतं कर्म सदैव भुज्यते देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २,१५.
मया न दत्तं न हुतं हुताशने तपो न तप्तं हिमशैलगह्वरे । न सेवितं गाङ्गमहो महाजलं देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २,१५.
न नित्यदानं न गावाह्निकं कृतं न वेददानं न च शास्त्रपुस्तकम् । पुरा नदृष्टं न च सेवितोऽध्वा देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २,१५.
जलाशयो नैव कृतो हि निर्जले मनुष्यहेतोः पशुपक्षिहेतवे । गोतृप्तिहेतोर्न कृतं हि गोचरं देहिन्क्वचिन्नस्तर यत्त्वया कृतम् ॥ २,१५.
मया न भुक्तं पतिसङ्गसौख्यं वह्निप्रवेशो न कृतो मृते सति । तस्मिन्मृते तद्व्रतपालनं वा देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २,१५.