दत्तेन तेन प्रीणन्ति द्वारस्था गृहदेवताः । चत्वरे खेचरो नाम तमुद्दिश्य प्रदापयेत् ॥ २,१५.
न चोपघातं कुर्वन्ति भूताद्या देवयोनयः । विश्रामे भूतसंज्ञोऽयं तेन तत्र प्रदापयेत् ॥ २,१५.
पिशाचा राक्षसा यक्षा ये चान्ये दिशि वासिनः । तस्य होतव्यदेहस्यनैवायोग्यत्वकारकाः ॥ २,१५.
चितापिण्ढप्रभृतितः प्रेतत्वमुपजायते । चितायां साधकं नाम वदन्त्येके खगेश्वर ॥ २,१५.
केचित्तं प्रेतमेवाहुर्यथा कल्पविदो बुधाः । तदादि तत्रतत्रापि प्रेतनाम्ना प्रदीयते ॥ २,१५.
इत्येवं पञ्चभिः पिण्डैः शवस्याहुतियोग्यता । अन्यथा चोपघाताय पूर्वोक्तास्ते भवन्ति हि ॥ २,१५.
उत्क्रामे प्रथमं पिण्डं तथा चार्धपयेपि च । चितायां तु तृतीयं स्यात्त्रयः पिण्डाश्च कल्पिताः ॥ २,१५.
विधाता प्रथमे पिण्डे द्वितीये गरुडध्वजः । तृतीये यमदूताश्च प्रयोगः परिकीर्तितः ॥ २,१५.
दत्ते तृतीये पिण्डेऽस्मिन्देहदोषैः प्रमुच्यते । आधारभूतजीवश्चज्वलनैर्ज्वालयेच्चिताम् ॥ २,१५.
संमृज्य चोपलिप्याथ उल्लिख्योद्धृत्य वेदिकाम् । अभ्युक्ष्योपसमाधाय वह्निं तत्रः विधानतः ॥ २,१५.
पुष्पाक्षतैश्च सम्पूज्य देवं क्रव्यादसंज्ञकम् । त्वं भूतकृज्जगद्योने त्वं लोकपरिपालकः ॥ २,१५.
उपसंहारकस्तस्मादेनं स्वर्गं मृतं नय । इति क्रव्यादमभ्यर्च्य शरीराहुतिमाचरेत् ॥ २,१५.
अर्धदग्धे तथा देहे दद्यादाज्याहुतिं ततः । लोमभ्यः स्वोतिवाक्येन कुर्याद्धोमं यथाविधि ॥ २,१५.
चितामारोप्य तं प्रेतं हुनेदाज्याहुतिं ततः । यमाय चान्तकायेति मृत्यवे ब्रह्मणे तथा ॥ २,१५.
जातवेदोमुके देया एका प्रेतमुखे तथा । ऊर्ध्वं तु ज्वालयेद्वह्निं पूर्वभागे चितां पुनः ॥ २,१५.
अस्मात्त्वमधिजातोसि त्वदयं जायतां पुनः । असौ स्वर्गाय लोकाय स्वाहा ज्वलति पावकः ॥ २,१५.
एवमाज्याहुतिं दत्त्वा तिलमिश्रां समन्त्रकाम् । ततो दाहः प्रकर्तव्यः पुत्रेण किल निश्चितम् ॥ २,१५.
रोदितव्यं ततो गाढमेवं तस्य सुखं भवेत् । दाहस्यानन्तरं तत्र कृत्वा सञ्चयनक्रियाम् ॥ २,१५.
प्रेतपिण्डं प्रदद्याच्च दाहार्तिशमनं खग । तावद्भूताः प्रतीक्षन्ते तं प्रेतं बान्धवार्थिनम् ॥ २,१५.
दाहस्यानन्तरं कार्यं पुत्रैः स्नानं सचैलकम् । तिलोदकं ततो दद्यान्नामगोत्रेण तिष्ठतु ॥ २,१५.
ततो जनपदैः सर्वैर्दातव्या करतालिका । विष्णुर्विष्णुरिति ब्रूयाद्गुणैः प्रेतमुदीरयेत् ॥ २,१५.
जनाः सर्वे समास्तस्य गृहमागत्य सर्वशः । द्वारस्य दक्षिणे भागे गोमयं गौरसर्षपान् ॥ २,१५.
निधाय वरुणं देवमन्तर्धाय स्ववेश्मनि । भक्षयेन्निम्बपत्राणि घृतं प्राश्य गृहं व्रजेत् ॥ २,१५.
केचिद्दुग्धेन सिञ्चन्ति चितास्थानं खगेश्वर । अश्रुपातं न कुर्वीत दद्यादस्मै जलाञ्जलीन् ॥ २,१५.
श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥ २,१५.
दुग्धं च मृन्मये पात्रे तोयं दद्याद्दिनत्रयम् । सूर्ये चास्तं गते तार्क्ष्य वलभ्यां चत्वरेऽपि वा ॥ २,१५.
बद्धः संमूढहृदयो देहमिच्छन्कृतानुगः । श्मशानं चत्वरं गेहं वीक्षन्याम्यैः स नीयते ॥ २,१५.
गर्ते पिण्डा दशाहं च दातव्याश्च दिनेदिने । जलाञ्जलीः प्रदातव्याः प्रेतमुद्दिश्य नित्यशः ॥ २,१५.
तावद्वृद्धिश्च कर्तव्या यावत्पिण्डं दशाहिकम् । पुत्त्रेण हि क्रिया कार्या भार्यया तदभावतः ॥ २,१५.
तदभावे च शिष्येण तदभावे सहोदरः । श्मशाने चान्यतीर्थे वा जलं पिण्डं च दापयेत् ॥ २,१५.