अस्पृश्यं जायते तूर्णं दुर्गन्धं सर्वनिन्दितम् । त्रिधावस्था हि देहस्य कृमिविड्मस्मसंज्ञिता ॥ २,१५.
को गर्वः क्रियते तार्क्ष्य क्षणविध्वंसिभिर्नरैः । दानं वित्तादृता वाचः कीर्तिधर्मौ तथायुषः ॥ २,१५.
परोपकरणं कायादसतः सारमुद्धृतम् । तस्यैवं नीयमानस्य दूताः सन्तर्जयन्ति हि ॥ २,१५.
दर्शयन्तो भयं तीव्रं नरकाय पुनः पुनः । शीघ्रं प्रचल दुष्टात्मन् गतोऽसित्वं यमालये ॥ २,१५.
कुंभीपाकादिनरकांस्त्वां नेष्यामश्च मा चिरम् । एवं वाचस्तदा शृण्वन्बन्धूनां रुदितं तथा ॥ २,१५.
उच्चैर्हाहेति विलपन्नीयते यमकिङ्करैः । स्थाने श्राद्धं प्रकुर्वीत तथा चेकादशेऽहनि ॥ २,१५.
मृस्योत्क्रान्तिसमयात्षट्पिण्डान्क्रमशो ददेत् । मृतस्थाने तथा द्वारे चत्वरे तार्क्ष्य कारणात् ॥ २,१५.
विश्रामे काष्ठचयने तथा सञ्चयने च षट् । शृणु तत्कारणं तार्क्ष्य षट्पिण्डपरिकल्पने ॥ २,१५.
मृतस्थाने शवो नाम तेन नाम्ना प्रदीयते । तेन दत्तेन तृप्यन्ति गृहवास्त्वधिदेवताः ॥ २,१५.
तेन भूमिर्भवेत्तुष्टातदधिष्ठातृदेवता । द्वारे तु पिण्डं देयं च पान्थमित्यभिधाय तु ॥ २,१५.
दत्तेन तेन प्रीणन्ति द्वारस्था गृहदेवताः । चत्वरे खेचरो नाम तमुद्दिश्य प्रदापयेत् ॥ २,१५.
न चोपघातं कुर्वन्ति भूताद्या देवयोनयः । विश्रामे भूतसंज्ञोऽयं तेन तत्र प्रदापयेत् ॥ २,१५.
पिशाचा राक्षसा यक्षा ये चान्ये दिशि वासिनः । तस्य होतव्यदेहस्यनैवायोग्यत्वकारकाः ॥ २,१५.
चितापिण्ढप्रभृतितः प्रेतत्वमुपजायते । चितायां साधकं नाम वदन्त्येके खगेश्वर ॥ २,१५.
केचित्तं प्रेतमेवाहुर्यथा कल्पविदो बुधाः । तदादि तत्रतत्रापि प्रेतनाम्ना प्रदीयते ॥ २,१५.
इत्येवं पञ्चभिः पिण्डैः शवस्याहुतियोग्यता । अन्यथा चोपघाताय पूर्वोक्तास्ते भवन्ति हि ॥ २,१५.
उत्क्रामे प्रथमं पिण्डं तथा चार्धपयेपि च । चितायां तु तृतीयं स्यात्त्रयः पिण्डाश्च कल्पिताः ॥ २,१५.
विधाता प्रथमे पिण्डे द्वितीये गरुडध्वजः । तृतीये यमदूताश्च प्रयोगः परिकीर्तितः ॥ २,१५.
दत्ते तृतीये पिण्डेऽस्मिन्देहदोषैः प्रमुच्यते । आधारभूतजीवश्चज्वलनैर्ज्वालयेच्चिताम् ॥ २,१५.
संमृज्य चोपलिप्याथ उल्लिख्योद्धृत्य वेदिकाम् । अभ्युक्ष्योपसमाधाय वह्निं तत्रः विधानतः ॥ २,१५.
पुष्पाक्षतैश्च सम्पूज्य देवं क्रव्यादसंज्ञकम् । त्वं भूतकृज्जगद्योने त्वं लोकपरिपालकः ॥ २,१५.
उपसंहारकस्तस्मादेनं स्वर्गं मृतं नय । इति क्रव्यादमभ्यर्च्य शरीराहुतिमाचरेत् ॥ २,१५.
अर्धदग्धे तथा देहे दद्यादाज्याहुतिं ततः । लोमभ्यः स्वोतिवाक्येन कुर्याद्धोमं यथाविधि ॥ २,१५.
चितामारोप्य तं प्रेतं हुनेदाज्याहुतिं ततः । यमाय चान्तकायेति मृत्यवे ब्रह्मणे तथा ॥ २,१५.
जातवेदोमुके देया एका प्रेतमुखे तथा । ऊर्ध्वं तु ज्वालयेद्वह्निं पूर्वभागे चितां पुनः ॥ २,१५.
अस्मात्त्वमधिजातोसि त्वदयं जायतां पुनः । असौ स्वर्गाय लोकाय स्वाहा ज्वलति पावकः ॥ २,१५.
एवमाज्याहुतिं दत्त्वा तिलमिश्रां समन्त्रकाम् । ततो दाहः प्रकर्तव्यः पुत्रेण किल निश्चितम् ॥ २,१५.
रोदितव्यं ततो गाढमेवं तस्य सुखं भवेत् । दाहस्यानन्तरं तत्र कृत्वा सञ्चयनक्रियाम् ॥ २,१५.
प्रेतपिण्डं प्रदद्याच्च दाहार्तिशमनं खग । तावद्भूताः प्रतीक्षन्ते तं प्रेतं बान्धवार्थिनम् ॥ २,१५.
दाहस्यानन्तरं कार्यं पुत्रैः स्नानं सचैलकम् । तिलोदकं ततो दद्यान्नामगोत्रेण तिष्ठतु ॥ २,१५.