पितॄणामन्नपानं च प्रभूतमुपतिष्ठति । पौर्णमास्याममायां वा तिलपात्राणि दापयेत् ॥ २,१४.
संक्रान्तीनां सहस्राणि सूर्यपर्वशतानि च । दत्त्वा यत्फलमाप्नोति तद्वै नीलविसर्जने ॥ २,१४.
वत्सतर्यः प्रदातव्या ब्राह्मणेभ्यः पदानि च । तिलपात्राणि देयानि शिवभक्तद्विजेषु च ॥ २,१४.
उमामहेश्वरं चैकं परिधाप्य प्रिदापयेत् । अतसीपुष्पसङ्काशं पीतवाससमच्युतम् ॥ २,१४.
ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् । प्रेतत्वान्मोक्षमिच्छन्तो ये करिष्यन्ति सत्क्रियाम् ॥ २,१४.
यास्यन्ति ते परांल्लोकानिति सत्यं वचो मम । एतत्ते सर्वमाख्यातं मया चैवोर्ध्वदैहिकम् ॥ २,१४.
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः । श्रुत्वा महात्म्यमतुलं गरुडो हर्षमागतः । मानुषाणां हितार्थाय पुनः प्रपच्छकेशवम् ॥ २,१४.
श्रीगरुडमहापुराणम् १५ गरुड उवाच । बगवन्ब्रूहि मे सर्वं यमलोकस्य निर्णयम् । जन्तोः प्रयाणमारभ्य माहात्म्यं वर्त्मविस्तरम् ॥ २,१५.
श्रीभगवानुवाच । शृणु तार्क्ष्य प्रवक्ष्यामि यममार्गस्य निर्णयम् । प्रयाणकानि सर्वाणि नगराणि च षोडश ॥ २,१५.
षाडशीतिसहस्राणि योजनानां प्रमाणतः । यमलोकस्य चोर्ध्वं वै अन्तरा मानुषस्य च ॥ २,१५.
कुकृतं दुष्कृतं वापि भुक्त्वा लोके यथार्जितम् । कर्मयोगाद्यदा कश्चिद्व्याधिरुत्पद्यते खग ॥ २,१५.
निमित्तमात्रं सर्वेषां कृतकर्मानुसारतः । यस्य यो विहितो मृत्युः स तं ध्रुवमवाप्नुयात् ॥ २,१५.
कर्मयोगाद्यदा देही मुञ्चत्यत्र निजं वपुः । तदा भूमिगतं कुर्याद्गोमयेनोपलिप्य च ॥ २,१५.
तिलान्दर्भान्विकीर्याथ मुखे स्वर्णं विनिः क्षिपेत् । तुलसींसन्निधौ कृत्वा शालग्रामशिलां तथा ॥ २,१५.
सेतु (एवं) सामादिसूक्तैस्तु मरणं मुक्तिदायकम् । शलाकास्वर्णविक्षपैः प्रतप्राणिगृहेषुच ॥ २,१५.
एका वक्त्रे तु दातव्या घ्राणयुग्मे तथा पुनः । अक्ष्णोश्च कर्णयोश्चैव द्वेद्वे देये यथाक्रमम् ॥ २,१५.
अथ लिङ्गे तथा चैका त्वेकां ब्रह्माण्डकेक्षिपेत् । करयुग्मे च कण्ठे च तुलसीं च प्रदापयेत् ॥ २,१५.
वस्त्रयुग्मं च दातव्यं कङ्कुमैश्चाक्षतैर्यजेत् । पुष्पमालायुतं कुर्यादन्यद्वारेण सन्नयेत् ॥ २,१५.
पुत्रस्तु बान्धवैः सार्धं विप्रस्तु पुरवासिभिः । पितुः प्रेतं स्वयं पुत्रः स्कन्धमारोप्य बान्धवैः ॥ २,१५.
गत्वा श्मशानदेशे तु प्राड्मुखश्चोत्तरामुखम् । अदग्धपूर्वा या भूमिश्चितां तत्रैव कारयेत् ॥ २,१५.
श्रीखण्डतुलसीकाष्ठसमित्पालाशसंभृताम् । विकलेन्द्रियसङ्घाते चैतन्ये जडतां गते ॥ २,१५.
प्रचलन्ति ततः प्राणा याम्यैर्निकटवर्तिभिः । एकीभूतं जगत्पश्येद्दैवी दृष्टिः प्रजायते ॥ २,१५.
बीभत्सं दारुणं रूपं प्रणैः कण्ठं समाश्रितैः । फेनमुद्गिरते कोपि मुखं लालाकुलं भवेत् ॥ २,१५.
दुरात्मानश्च ताड्यन्ते किङ्करैः पाशबन्धनैः । सुखेन कृतिनस्तत्र नीयन्ते नाकनायकैः ॥ २,१५.
दुः खेन पापिनो यान्ति यममार्गे च दुर्गमे । यमश्चतुर्भुजो भूत्वा शङ्खचक्रगदादिभृत् ॥ २,१५.
पुण्यकर्मरतान्सम्यक्शुभान्मित्रवदाचरेत् । आहूय पापिनः सर्वान्यमो दण्डेन रज्जयेत् ॥ २,१५.
प्रलयाम्बुदनिर्घोषस्त्वञ्जनाद्रिसमप्रभः । महिषस्थो दुराराध्यो विद्युत्तेजः समद्युतिः ॥ २,१५.
योजनत्रयविस्तारदेहो रौद्रोऽतिभीषणः । लोहदण्डधरो भीमः पाशपाणिर्दुराकृतिः ॥ २,१५.
वक्रनेत्रोऽतिभयदो दर्शनं याति पापिनाम् । अङ्गुष्ठमात्रः पुरुषो हाहा कुर्वन् कलेवरात् ॥ २,१५.
तदैव नीयते दूतैर्याम्यैर्वोक्षन्स्वकं गृहम् । निर्विचेष्टं शरीरं तु प्राणैर्मुक्तं जुगुप्सितम् ॥ २,१५.