मातॄणां पूजनं कार्यं वसोर्धारां च पातयेत् । वह्निं संस्थाप्य तत्रैव पूर्णं होमं तु कारयेत् ॥ २,१४.
शालग्रामं च संस्थाप्य वैष्णवं श्राद्धमाचरेत् । वृषं सम्पूज्य तत्रैव वस्त्रालङ्कारभूषणैः ॥ २,१४.
चतस्रो वत्सतर्यश्च पूर्वं समधिवासयेत् । प्रदक्षिणं ततः कुर्याद्धोमान्ते च विसर्जनम् ॥ २,१४.
इमं मन्त्रं समुच्चार्य उत्तराभिमुखः स्थितः । धर्म त्वं वृषरूपेण ब्रह्मणा निर्मितः पुरा ॥ २,१४.
तवोत्सर्गप्रभावान्मामुद्धरस्वभवार्णावात् । अबिषिच्य शुभैर्मन्त्रैः पावनैर्विधिपूर्वकम् ॥ २,१४.
तनक्रीडन्तिमन्त्रेण वृषोत्सर्गं तु कारयेत् । अभिषिञ्चेत्ततो नीलं रुद्रकुम्भो दकेन तु ॥ २,१४.
नाभिमूले समास्थाय तदम्बु मूर्धनि न्यसेत् । अन्न (आत्म) श्राद्धं ततः कुर्याद्दद्याद्दानं द्विजोत्तमे ॥ २,१४.
उदकेचैव गन्तव्यं जलं तत्र प्रदापयेत् । यदिष्टं जीवतस्त्वासीत्तच्च दद्यात्स्वशक्तितः ॥ २,१४.
न्यूनं संपूर्णतां याति वृषोत्सर्गे कृते सति । सुतृप्तो दुस्तरे मार्गे मृतो याति न संशयः ॥ २,१४.
यमलोकं न पश्यन्ति सदा दानरता नराः । यावन्न दीयते जन्तोः श्राद्धं चैकादशाहिकम् ॥ २,१४.
स्वदत्तं परदत्तं वा नेहामुत्रोपतिष्ठति । त्रयोदशा तथा सप्त पञ्च त्रीणी क्रमेण तु ॥ २,१४.
पददानानि कुर्वीत श्रद्धाभक्तिसमन्वितः । तिलपात्राणि कुर्वीत सप्त पञ्च यथाक्रमम् ॥ २,१४.
ब्राह्मणान् भोजयेत्पश्चादेकां गां च प्रदापयेत् । वृषं हि शन्नोदेवीति वेदोक्तविधिना ततः ॥ २,१४.
चतसृभिर्वत्सतरीभिः परिणयनमाचरेत् । वामे चक्रं प्रदातव्यं त्रिशूलं दक्षिणे तथा ॥ २,१४.
मूल्यं दद्याद्वृषस्यापि तं वृषं च विसर्जयेत् । एकोद्दिष्टविधानेन स्वाहाकारेण वुद्धिमान् ॥ २,१४.
कुर्यादेकादशाहं च द्वादशाहं च यत्नतः । सपिण्डीकरणादर्वाक्कुर्याच्छ्राद्धानि षोडश ॥ २,१४.
ब्राह्मणान् भोजयित्वा तु पददानानि दापयेत् । कापोसोपरि संस्थाप्य ताम्रपात्रे तथाच्युतम् ॥ २,१४.
वस्त्रेणाच्छाद्य तत्रस्थमर्घं दद्याच्छुभैः फलैः । नावमिक्षुमयीं कृत्वा पट्टसूत्रेण वेष्टयेत् ॥ २,१४.
कांस्यपात्रे घृतं स्थाप्य वैतरण्या निमित्ततः । नावारोहणं कुर्यात्पूजयेद्गरुडध्वजम् ॥ २,१४.
आत्मवित्तानुसारेण तच्च दानमनन्तकम् । भवसागरमग्नानां शोकतापार्तिदुः खिनाम् ॥ २,१४.
धर्मप्लवविहीनानां तारको हि जनार्दनः । तिला लोहं हिरण्यं च कार्पासं लवणं तथा ॥ २,१४.
सप्तधान्यं क्षितिर्गावो ह्येकैकं पावनं स्मृतम् । तिलपात्राणि कुर्वीत शय्यादानं च दापयेत् ॥ २,१४.
दीनानाथविशिष्टेभ्यो दद्याच्छक्त्या च दक्षिणाम् । एवं यः कुरुते तार्क्ष्य पुत्रवानप्यपुत्रवान् ॥ २,१४.
स सिद्धिं समवाप्नोति यथा ते ब्रह्मचारिणः । नित्यं नैमित्तिकं कुर्याद्यावज्जीवति मानवः ॥ २,१४.
यः कश्चित्क्रियते धर्मस्तत्फलं चाक्षयं भवेत् । तीर्थयात्राव्रतादीनां श्राद्धं संवत्सरस्य हि ॥ २,१४.
देवतानां गुरूणां च मातापित्रोस्तथैव च । पुण्यं देयं प्रयत्नेन प्रत्यहं वर्धते खग ॥ २,१४.
अस्मिन्यज्ञेः हियः कश्चिद्भूरिदानं प्रयच्छति । तत्तस्य चाक्षयं सर्वं वेदिकायां यथा किल ॥ २,१४.
यथा पूज्यतमा लोके यतयो ब्रह्मचारिणः । तथैव प्रतिपूज्यन्ते लोके सर्वे च नित्यशः ॥ २,१४.
वरदोऽहं सदा तस्य चतुर्वक्त्रस्तथा हरः । ते यान्ति परमांल्लोकानिति सत्यं वचो मम ॥ २,१४.
उत्सृष्टो वृषभो यत्र पिबत्यपो जलाशये । शृङ्गेणालिखते वापि भूमिं नित्यं प्रहर्षितः ॥ २,१४.