श्रीकृष्ण उवाच । अपुत्त्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । तस्मात्केनाप्युपायेन पुत्त्रस्य जननं चरेत् ॥ २,१३.
यानि कानि च दानानि स्वयं दत्तानि मानवैः । तानितानि च सर्वाणि तूपतिष्ठन्ति चाग्रतः ॥ २,१३.
व्यञ्जनानि विचित्राणि भक्ष्यभोज्यानि यानि च । स्वहस्तेन प्रदत्तानि देहान्ते चाक्षयं फलम् ॥ २,१३.
गोभूहिरण्यवासांसि भोजनानि पादनि च । यत्रयत्र वसेज्जन्तुस्तत्रतत्रोपतिष्ठति ॥ २,१३.
यावत्स्वस्थं शरीरं हि तावद्धर्मं समाचरेत् । अस्वस्थः प्रेरितश्चान्यैर्नाकिञ्चित्कर्तुमर्हति ॥ २,१३.
जीवतोऽपि मृतस्येह न भूतं चौर्ध्वदैहिकम् । वायुभूतः क्षुधाविष्टो भ्रमते च दिवानिशम् ॥ २,१३.
कृमिः कीटः पतङ्गो वा जायते म्रियते पुनः । असद्गर्भे भवेत्सोऽपि जातः सद्यो विनश्यति ॥ २,१३.
यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ २,१३.
श्रीगरुडमहापुराणम् १४ गरुड उवाच । आर्तेन म्रियमाणेन यद्दत्तं तत्फलं वद । स्वस्थावस्थेन दत्तेन विधिहीनेन वा विभो ॥ २,१४.
श्रीकृष्ण उवाच । एका गौः स्वस्थचित्तस्य ह्यातुरस्य च गोशतम् । सहस्रं म्रियमाणस्य दत्तं वित्तविवर्जितम् ॥ २,१४.
मृतस्यैव पुनर्लक्षं विधिपूतं च तत्समम् । तीर्थपात्रसमायोगादेका गौर्लक्षपुण्यदा ॥ २,१४.
पात्रे दत्ते खगश्रेष्ठ अहन्यहनि वर्धते । दातुर्दानमपापाय ज्ञानिनां च प्रतिग्रहः ॥ २,१४.
विषशीतापहो मन्त्रवह्निः किं दोषभाजनम् । दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ॥ २,१४.
नापात्रे विदुषा किञ्चिदात्मनः श्रेय इच्छता । अपात्रे जातु गौर्दत्ता दातारं नरकं नयेत् ॥ २,१४.
कुलैकविंशतियुतं ग्रहीतारं च पातयेत् । देहान्तरं परिप्राप्य स्वहस्तेन कृतं च यत् ॥ २,१४.
धनं भूमिगतं यद्वत्स्वहस्तेन निवेशितम् । तद्वत्फलमवाप्नोति ह्यहं वच्मि खगेश्वर ॥ २,१४.
अपुत्रोऽपि विशेषेण क्रियां चैवान्ध्वदौहिकीम् । प्रकुर्यान्मोक्षकामश्च निर्धनश्च विशेषतः ॥ २,१४.
स्वल्पेनापि हि वित्तेन स्वयं हस्तेन यत्कृतम् । अक्षयं याति तत्सर्वं यथाज्यं च हुताशने ॥ २,१४.
एका चैकस्य दातव्या शय्या कन्या पयस्विनी । सा विक्रीता वा दहत्यासप्तमं कुलम् ॥ २,१४.
तस्मात्सर्वं प्रकुर्वीत चञ्चले जीविते सति । गृहीतदानपाथेयः सुखं याति महाध्वनि ॥ २,१४.
अन्यथा क्लिश्यते जन्तुः पाथेयरहितः पथि । एवं ज्ञात्वा खगश्रेष्ठ वृषयज्ञं समाचरेत् ॥ २,१४.
अकृत्वा म्रियते यस्तु अपुत्रो नैव मुक्तिभाक् । अपुत्रोऽपि हि यः कुर्यात्सुखं याति महापथे ॥ २,१४.
अग्निहोत्राधिभिर्यज्ञैर्दानैश्च विविधैरपि । न तां गतिमवाप्नोति वृषोत्सर्गेण या गतिः ॥ २,१४.
यज्ञानां चैव सर्वेषां वृषयज्ञस्तथोत्तमः । तस्मात्सर्वप्रयत्नेन वृषयज्ञं समाचरेत् ॥ २,१४.
गरुड उवाच । कथयस्व प्रसादेन क्षयाहं चौर्ध्वदैहिकम् । कस्मिन्काले तिथौ कस्यां विधिना केन तद्भवेत् ॥ २,१४.
कृत्वा किं फलमाप्नोति एतन्मे वद साम्प्रतम् । त्वत्प्रसादेन गोविन्द मुक्ते भवति मानवः ॥ २,१४.
श्रीकृष्ण उवाच । कार्तिकादिषु मासेषु याम्यायतगते रवौ । शुक्लपक्षे तथा पक्षिन्द्वादश्यादितिथौ शुभे ॥ २,१४.
शुभे लग्ने मुहूर्ते वा शुचौ देशे समाहितः । ब्राह्मणं तु समाहूय विधिज्ञं शुभलक्षणम् ॥ २,१४.
जपहोमैस्तथा दानैः कुर्याद्दहेस्य शोधनम् । पुण्येऽभिजित्सुनक्षत्रे ग्रहान्देवान्समर्चयेत् ॥ २,१४.
होमं कुर्याद्यथाशक्ति मन्त्रैश्च विविधैरपि । ग्रहाणां स्थापनं कुर्यात्पूर्वं चैव खगेश्वर ॥ २,१४.