एकादशाहे प्रेतस्य यस्य नोत्सृज्यते वृषः । प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥ २,१३.
गरुड उवाच । सर्पाद्धि प्राप्तमृत्यूनामग्निदाहादि न क्रिया । जलेन शृङ्गिणा वापि शस्त्राद्यैर्म्रियते यदि ॥ २,१३.
असन्मृत्युमृतानां च कथं शुद्धिर्भवत्प्रभो । एतन्मे संशयं देव च्छेत्तुमर्हस्यशेषतः ॥ २,१३.
श्रीकृष्ण उवाच । षण्मासैर्ब्राह्मणः शुध्येद्युग्मे सार्धे तु बाहुजः । सार्धमासेन वैश्यस्तु शूद्रो मासेन शुध्यति ॥ २,१३.
दत्त्वा दानान्यशेषाणि सुतीर्थे म्रियते यदि । ब्रह्मचारी शुचिर्भूत्वा न स यातीह दुर्गतिम् ॥ २,१३.
वृषोत्सर्गादिकं कृत्वा यतिधर्मं समाचरेत् । यतित्वे मृत्युमाप्नोति स गच्छेद्ब्रह्मशाख्वतम् ॥ २,१३.
विकर्म कुरुते यस्तु शिष्टाचारविवर्जितः । वृषोत्सर्गादिकं कृत्वा न गच्छेद्यमशासनम् ॥ २,१३.
पुत्त्रो वा सोदरो वापि पौत्रो बन्धुजनस्तथा । गोत्रिणश्चार्थभागी च मृते कुर्याद्वृषोत्सवम् ॥ २,१३.
पुत्राभावे तु पत्नी स्याद्दौहित्त्रो दुहीतापि वा । पुत्त्रेषु विद्यमानेषु वृषं नान्येन कारयेत् ॥ २,१३.
गरुड उवाच । पुत्त्रा यस्य न विद्यन्ते नरा नार्यः सुरेश्वर । एतन्मे संशयं देव च्छेतुमर्हस्यशेषतः ॥ २,१३.
श्रीकृष्ण उवाच । अपुत्त्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । तस्मात्केनाप्युपायेन पुत्त्रस्य जननं चरेत् ॥ २,१३.
यानि कानि च दानानि स्वयं दत्तानि मानवैः । तानितानि च सर्वाणि तूपतिष्ठन्ति चाग्रतः ॥ २,१३.
व्यञ्जनानि विचित्राणि भक्ष्यभोज्यानि यानि च । स्वहस्तेन प्रदत्तानि देहान्ते चाक्षयं फलम् ॥ २,१३.
गोभूहिरण्यवासांसि भोजनानि पादनि च । यत्रयत्र वसेज्जन्तुस्तत्रतत्रोपतिष्ठति ॥ २,१३.
यावत्स्वस्थं शरीरं हि तावद्धर्मं समाचरेत् । अस्वस्थः प्रेरितश्चान्यैर्नाकिञ्चित्कर्तुमर्हति ॥ २,१३.
जीवतोऽपि मृतस्येह न भूतं चौर्ध्वदैहिकम् । वायुभूतः क्षुधाविष्टो भ्रमते च दिवानिशम् ॥ २,१३.
कृमिः कीटः पतङ्गो वा जायते म्रियते पुनः । असद्गर्भे भवेत्सोऽपि जातः सद्यो विनश्यति ॥ २,१३.
यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ २,१३.
श्रीगरुडमहापुराणम् १४ गरुड उवाच । आर्तेन म्रियमाणेन यद्दत्तं तत्फलं वद । स्वस्थावस्थेन दत्तेन विधिहीनेन वा विभो ॥ २,१४.
श्रीकृष्ण उवाच । एका गौः स्वस्थचित्तस्य ह्यातुरस्य च गोशतम् । सहस्रं म्रियमाणस्य दत्तं वित्तविवर्जितम् ॥ २,१४.
मृतस्यैव पुनर्लक्षं विधिपूतं च तत्समम् । तीर्थपात्रसमायोगादेका गौर्लक्षपुण्यदा ॥ २,१४.
पात्रे दत्ते खगश्रेष्ठ अहन्यहनि वर्धते । दातुर्दानमपापाय ज्ञानिनां च प्रतिग्रहः ॥ २,१४.
विषशीतापहो मन्त्रवह्निः किं दोषभाजनम् । दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ॥ २,१४.
नापात्रे विदुषा किञ्चिदात्मनः श्रेय इच्छता । अपात्रे जातु गौर्दत्ता दातारं नरकं नयेत् ॥ २,१४.
कुलैकविंशतियुतं ग्रहीतारं च पातयेत् । देहान्तरं परिप्राप्य स्वहस्तेन कृतं च यत् ॥ २,१४.
धनं भूमिगतं यद्वत्स्वहस्तेन निवेशितम् । तद्वत्फलमवाप्नोति ह्यहं वच्मि खगेश्वर ॥ २,१४.
अपुत्रोऽपि विशेषेण क्रियां चैवान्ध्वदौहिकीम् । प्रकुर्यान्मोक्षकामश्च निर्धनश्च विशेषतः ॥ २,१४.
स्वल्पेनापि हि वित्तेन स्वयं हस्तेन यत्कृतम् । अक्षयं याति तत्सर्वं यथाज्यं च हुताशने ॥ २,१४.
एका चैकस्य दातव्या शय्या कन्या पयस्विनी । सा विक्रीता वा दहत्यासप्तमं कुलम् ॥ २,१४.
तस्मात्सर्वं प्रकुर्वीत चञ्चले जीविते सति । गृहीतदानपाथेयः सुखं याति महाध्वनि ॥ २,१४.