एकः करोति पापानि फलं भुङ्क्ते महाजनः । भोक्तारो विप्रयुज्यन्ते कर्ता दोषेण लिप्यते ॥ २,१२.
कोऽपि मृत्युं न जयति बालो वृद्धो युवापि वा । सुखदुः खादिको वापि पुनरायाति याति च ॥ २,१२.
सर्वेषां पश्यतामेव मृतः सर्वं परित्यजेत् । एकः प्रजायते जन्तुरेक एव प्रलीयते ॥ २,१२.
एकोऽपि भुङ्क्ते सुकृतमेक एव च दुष्कृतम् । मृतं शरीरमुत्सृज्य काष्ठलोष्टसमङ्क्षितौ ॥ २,१२.
बान्धवा विमुखा यान्ति धर्मस्तमनुगच्छति । गृहेष्वर्था निवर्तन्ते श्मशानान्मित्रबान्धवाः ॥ २,१२.
शरीरं वह्निरादत्ते सुकृतं दुष्कृतं व्रजेत् । शरीरं वह्निना दग्धं पुण्यं पापं सह स्थितम् ॥ २,१२.
शुभं वा यदि वा पापं भुङ्क्ते सर्वत्र मानवः । यदनस्तमिते सूर्ये न दत्तं धनमर्थिनाम् ॥ २,१२.
न जाने तस्य तद्वित्तं प्रातः कस्य भविष्यति । रारटीति धनं तस्य को मे भर्ता भविष्यति ॥ २,१२.
न दत्तं द्विजमुख्येभ्यः परोपकृतये तथा । पूर्वजन्मकृतात्पुण्याद्यल्लब्धं बहु चाल्पकम् ॥ २,१२.
तदीदृशं परिज्ञाय धर्मार्थे दीयते धनम् । धनेन धार्यते धर्मः श्रद्धापूतेन चेतसा ॥ २,१२.
श्रद्धाविरहितो धर्मो नेहामुत्र च तत्फलम् । धर्माच्च जायते ह्यर्थो धर्मात्कामोऽपि जायते ॥ २,१२.
धर्म एवापवर्गाय तस्माद्धर्मं समाचरेत् । श्रद्धया साध्यते धर्मो बहुभिर्नार्थराशिभिः ॥ २,१२.
अकिञ्चना हि मुनयः श्रद्धावन्तो दिवं गताः । अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पक्षिन्प्रेत्य चेह न तत्फलम् ॥ २,१२.
thumb|500px|ओंकारेश्वर क्षेत्रे नन्दिनः प्रतिमानि। प्रतिमा बाह्यमुखी अथवा अन्तर्मुखी अस्ति। श्रीगरुडमहापुराणम् १३ गरुड उवाच । कर्मणा केन देवेश प्रेतत्वं नैव जायते । पृथिव्यां सर्वजन्तूनां तद्ब्रूहि परमेश्वर ॥ २,१३.
श्रीकृष्ण उवाच । अथ वक्ष्यामि संक्षेपात्क्षयाहादौर्ध्वदैहिकम् । स्वहस्तेनैव कर्तव्यं मोक्षकामैस्तु मानवैः ॥ २,१३.
स्त्रीणामपि विशेषेण पञ्चवर्षाधिके शिशौ । वृषोत्सर्गादिकं कर्म प्रेतत्वविनिवृत्तये । वृषोत्सर्गादृते नान्यत्किञ्चिदस्ति महीतले ॥ २,१३.
जीवन्वापि मृतो वापि वृषोत्सर्गं करोति यः । प्रेतत्वं न भवेत्तस्य विना दानमखव्रतैः ॥ २,१३.
गरुड उवाच । कस्मिन्काले वृषोत्सर्गं जीवन्वापि मृतोऽपि वा । कुर्यात्सुरवरश्रेष्ठ ब्रूहि मे मधुसूदन ॥ २,१३.
किं फलं तु भवेदन्ते कृतैः श्राद्धैस्तु षोडशैः ॥ २,१३.
श्रीकृष्ण उवाच । अकृत्वा तु वृषोत्सर्गं कुरुते पिण्डपातनम् । नोपतिष्ठति तच्छ्रेयो दातुः प्रेतस्य निष्फलम् ॥ २,१३.
एकादशाहे प्रेतस्य यस्य नोत्सृज्यते वृषः । प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥ २,१३.
गरुड उवाच । सर्पाद्धि प्राप्तमृत्यूनामग्निदाहादि न क्रिया । जलेन शृङ्गिणा वापि शस्त्राद्यैर्म्रियते यदि ॥ २,१३.
असन्मृत्युमृतानां च कथं शुद्धिर्भवत्प्रभो । एतन्मे संशयं देव च्छेत्तुमर्हस्यशेषतः ॥ २,१३.
श्रीकृष्ण उवाच । षण्मासैर्ब्राह्मणः शुध्येद्युग्मे सार्धे तु बाहुजः । सार्धमासेन वैश्यस्तु शूद्रो मासेन शुध्यति ॥ २,१३.
दत्त्वा दानान्यशेषाणि सुतीर्थे म्रियते यदि । ब्रह्मचारी शुचिर्भूत्वा न स यातीह दुर्गतिम् ॥ २,१३.
वृषोत्सर्गादिकं कृत्वा यतिधर्मं समाचरेत् । यतित्वे मृत्युमाप्नोति स गच्छेद्ब्रह्मशाख्वतम् ॥ २,१३.
विकर्म कुरुते यस्तु शिष्टाचारविवर्जितः । वृषोत्सर्गादिकं कृत्वा न गच्छेद्यमशासनम् ॥ २,१३.
पुत्त्रो वा सोदरो वापि पौत्रो बन्धुजनस्तथा । गोत्रिणश्चार्थभागी च मृते कुर्याद्वृषोत्सवम् ॥ २,१३.
पुत्राभावे तु पत्नी स्याद्दौहित्त्रो दुहीतापि वा । पुत्त्रेषु विद्यमानेषु वृषं नान्येन कारयेत् ॥ २,१३.
गरुड उवाच । पुत्त्रा यस्य न विद्यन्ते नरा नार्यः सुरेश्वर । एतन्मे संशयं देव च्छेतुमर्हस्यशेषतः ॥ २,१३.