इन्द्रियाणि कुतो यान्ति ह्यस्पृश्यः स कथं भवेत् । क्व कर्माणि कृतानीह कथं भुङ्क्ते प्रसर्पति ॥ २,११.
प्रसादं कुरु मे मोहं छेत्तुमर्हस्यशेषतः । काश्यपोऽहं सुरश्रेष्ठ विनतागर्भ संभवः । यमलोकं कथं यान्ति विष्णुलोकं च मानवाः ॥ २,११.
श्रीकृष्ण उवाच । परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च ॥ २,११.
अरण्ये निर्जने देशे जायते ब्रह्मराक्षसः । हीनजातौ प्रजायेत रत्नानामपहारकः ॥ २,११.
यंयं काममभिध्यायेत्स तल्लिङ्गोऽभिजायते । नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ॥ २,११.
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः । वाक्चक्षुर्नासिका कर्णौ गुदं मूत्रस्य सञ्चरः ॥ २,११.
अण्डजादिकजन्तूनां छिद्राण्येतानि सर्वशः । आनाभेर्मूर्धपर्यन्तमूर्ध्वच्छिद्राणि चाष्ट वै ॥ २,११.
सन्तः सुकृतिनो मर्त्या ऊर्ध्वच्छिद्रेण यान्ति वै । मृताहे वार्षिकं यावद्यथोक्तविधिना खग ॥ २,११.
कुर्यात्सर्वाणि कर्माणि निर्धनोऽपि हि मानवः । देहे यत्र वसेज्जन्तुस्तत्र भुङ्क्ते शुभाशुभम् ॥ २,११.
मनोवाक्कायजान्दोषांस्तथां भुङ्क्ते खगेश्वर । मृतः स सुखमाप्नोति मायापाशैर्न बध्यते । पाशबद्धो नरो यस्तु विकर्मनिरतो भवेत् ॥ २,११.
श्रीगरुडमहापुराणम् १२ श्रीकृष्ण उवाच । एवं ते कथितस्तार्क्ष्य जीवितस्य विनर्णयः । मानुषाणां हितार्थाय प्रेतत्वविनिवृत्तये ॥ २,१२.
चतुरशीतिलक्षाणि चतुर्भेदाश्च जन्तवः । अण्डजाः स्वेदजाश्चैव उद्भिज्जाश्च जारायुजाः ॥ २,१२.
एकविंशतिलक्षाणि अण्डजाः परिकीर्तिताः । स्वेदजाश्च तथा प्रोक्ता उद्भिज्जाश्च क्रमेण तु ॥ २,१२.
जरायुजास्तथा प्रोक्ता मनुष्याद्यास्तथा परे । सर्वेषामेव जन्तूनां मानुषत्वं हि दुर्लभम् ॥ २,१२.
पञ्चेन्द्रियनिधानत्वं महापुण्यैरवाप्यते । ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्रास्तत्परजातयः ॥ २,१२.
रजकश्चर्मकारश्च नटो बुरुड एव च । कैवर्तमेदभिल्लाश्च सप्तैते ह्यन्त्यजाः स्मृताः ॥ २,१२.
म्लेच्छतुम्बविभेदेन जातिभेदास्त्वनेकशः । जन्तूनामेव सर्वेषां जातिभेदाः सहस्रशः ॥ २,१२.
जन्तूनामेव सर्वेषां भेदाश्चैव सहस्रशः । आहारो मैथुनं निद्रा भयं क्रोधस्तथैव च ॥ २,१२.
सर्वेषा मेव जन्तूनां विवेको दुर्लभः परः । एकपादादिरूपेण देहभेदास्त्वनेकशः ॥ २,१२.
कृष्णसारो मृगो यत्र धर्मदशः स उच्यते । ब्रह्माद्या देवताः सर्वास्तत्र तिष्ठन्ति सर्वशः ॥ २,१२.
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां मतिजीविनः । मतिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥ २,१२.
मानुष्यं यः समासाद्य स्वर्गमेक्षैकसाधकम् । तयोर्न साधयेदेकं तेनात्मा वञ्चितो ध्रुवम् ॥ २,१२.
इच्छति शती सहस्रं सहस्री लक्षमीहते कर्तुम् । लक्षाधिपती राज्यं राजापि सकलां धरां लब्धुम् ॥ २,१२.
चक्रधरोऽपि सुरत्वं सुरभावे सकलसुरपतिर्भवितुम् । सुरपतिरूर्ध्वगतित्वं तथापि ननिवर्तते तृष्णा ॥ २,१२.
तृष्णया चाभिभूतस्तु नरकं प्रतिपद्यते । तृष्णामुक्तास्तु ये केचित्स्वर्गवासं लभन्ति ते ॥ २,१२.
आत्माधीनः पुमांल्लोके सुखी भवति निश्चितम् । शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ॥ २,१२.
तथा च विषयाधीनो दुः खी भवति निश्चितम् ॥ २,१२.
कुरङ्गमताङ्गपतङ्गभृङ्गमीना हताः पञ्चभिरेव पञ्च । एकः प्रमादी स कथं न हन्यते यः सेवते पञ्चभिरेव पञ्च ॥ २,१२.
पितृमातृमयो बाल्ये यौवने दयितामयः । पुत्रपौत्रमयश्चान्ते मूढो नात्ममयः क्वचित् ॥ २,१२.
लोहदारुमयैः पाशैः पुमान्बद्धो विमुच्यते । पुत्रदारमयैः पाशैर्नैव बद्धो विमुच्यते ॥ २,१२.