एवं वै क्रियमाणानां तेषां चैव द्विजन्मनाम् । कश्चिज्जलान्नविक्षेपः शुचिरुच्छिष्ट एव वा ॥ २,१०.
तेनान्नेन कुले तेषां ये वै जात्यन्तरं गताः । भवत्याप्यायनं तेषां सम्यक्श्राद्धे कृते सति ॥ २,१०.
अन्यायोपार्जितैर्द्रव्यैर्यच्छ्राद्धं क्रियते नरैः । तकृप्यन्ति तेन चण्डालाः पुक्कसाद्युपयोनिषु ॥ २,१०.
एवं संप्राप्यते पक्षिन् यद्दत्तमिह बान्धवैः । श्राद्धं कुर्वद्भिरन्नाम्वुशाकैस्तृप्तिर्हि जायते ॥ २,१०.
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । सद्यो देहान्तरप्राप्तिर्विलंबेनावनीतले ॥ २,१०.
पृष्टवानसि तत्तेऽहं प्रवक्ष्यामि समासतः । सद्यो विलम्बतञ्चैवोभयथापि कलेवरम् ॥ २,१०.
यतो हि मर्त्यः प्राप्नोति तद्विशेषञ्च मे शृणु । अधूमकज्योतिरिवाङ्गुष्ठमात्रः पुमांस्ततः ॥ २,१०.
देहमेकं सद्य एव वायवीयं प्रपद्यते । यथा नृणजलौका हि पश्चत्पादं तदोद्धरेत् ॥ २,१०.
स्थितिरग्र्यस्य पादस्य यदा जाता दृढा भवेत् । एवं देही पूर्वदेहं समुत्सृजति तं यदा ॥ २,१०.
भोगार्थमग्रे स्याद्देहो वायवीय उपस्थितः । विषयग्राहकं यद्वन्म्रियमाणस्य चेन्द्रियम् ॥ २,१०.
निर्व्यापारं तच्च देहे वायुनैव स गच्छति । शरीरं यदवाप्नोति तच्चाप्युत्क्वम्यति स्वयम् ॥ २,१०.
गृहीत्वा स्वं विनिर्याति जीवो गर्भ ईवाशयात् । उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ॥ २,१०.
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः । आतिवाहिकमित्येवं वायवीयं वदन्ति हि ॥ २,१०.
एवं तु यातुधानानां तमेव च वदन्ति हि । सुपर्ण ईदृशो देहो नृणां भवति पिण्डजः ॥ २,१०.
पुत्रादिभिः कृताश्चेत्स्युः पिण्डा दश दशाहिकाः । पिण्डजेन तु देहेन वायुजश्चैकतां व्रजेत् ॥ २,१०.
पिण्डजो यदि नैव स्याद्वायुजोऽर्हति यातनाम् । देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिः पक्षीन्द्रेत्यवधारय ॥ २,१०.
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ २,१०.
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २,१०.
वायवीयां तनुं याति सद्य इत्युक्तमेव ते । प्राप्तिर्विलंबतो यस्य तं देहं खलु मे शृणु ॥ २,१०.
क्वचिद्विलंबतो देहं पिण्डजं स समाप्नुयात् । अथो गतो याम्यलोकं स्वीयकर्मानुसारतः ॥ २,१०.
चित्रगुप्तस्यवाक्येन निरयाणि भुनक्ति सः । यातनाःसमवाप्याथ पशुपक्ष्यादिकीं तनुम् ॥ २,१०.
या गृह्णाति नरः सा स्यान्मोहेन ममतास्पदम् । शुभाशुभं कर्मफलं भुक्त्वा मुच्यते मानवः ॥ २,१०.
गरुड उवाच । तीर्त्वा दुः खभवाम्भोधिं भवन्तं कथमाप्नुयात् । बहुपातकयुक्तोऽपि तद्वदस्व दयानिधे ॥ २,१०.
भूयो दुः खस्य संसर्गो नरस्य न भवेद्यथा । ब्रूहि शुश्रूषमाणस्य पृच्छतो मे रमापते ॥ २,१०.
श्रीकृष्ण उवाच । स्वेस्वे कर्मण्यभिरतः संसिद्धिं लभते नरः । स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ २,१०.
कर्मविभ्रष्टकालुष्यो वासुदेवानुचिन्तया । बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ॥ २,१०.
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च । विरक्तसेवी लब्ध्वाशी यतवाक्कायमानसः ॥ २,१०.
ध्यानयोगपरो नित्यं वैरग्यं समुपाश्रितः । अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ॥ २,१०.
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते । अतः परं नृणां कृत्यं नास्ति कश्यपनन्दन ॥ २,१०.
श्रीगरुडमहापुराणम् ११ गरुड उवाच । मानुषत्वं लभेत्कस्मान्मृत्युमाप्नोति तत्कथम् । म्रियते कः सुरश्रेष्ठ देहमाश्रित्य कुत्रचित् ॥ २,११.