याहं राज्ञा पुरा दृष्टा सर्वाभरणभूषिता । सा स्वेदमलदिग्धाङ्गी कथं यास्यामि भूपतिम् । अपकृष्टास्मि तेनाहं त्रपया रघुनन्दन । श्रीभागवानुवाच ॥ २,१०.
इति श्रुत्वा प्रियावाक्यं रामो विस्मितमानसः ॥ २,१०.
आश्चर्यमिति तज्ज्ञात्वा तदा स्वस्थानमागमत् । सीतया पितरो दृष्टा यथा तत्ते निवेदितम् ॥ २,१०.
अपरं श्राद्धमाहात्म्यं किञ्चिच्छृणु समासतः । अमावस्यादिने प्राप्ते गृहद्वारे समास्थिताः ॥ २,१०.
वायुभूताः प्रवाञ्छन्ति श्राद्धं पितृगणा नृणाम् । यावदस्तमयं भानोः क्षुत्पिपासासमाकुलाः ॥ २,१०.
ततश्चास्तं गते सूर्ये निराशा दुःखसंयुताः । निःश्वसन्तश्चिरं यान्ति गर्हयन्तस्तु वंशजम् ॥ २,१०.
तस्माच्छ्राद्धं प्रयत्नेन अमायां कर्तुमर्हति । यदि श्राद्धं प्रकुर्वन्ति पुत्राद्यास्तस्य बान्धवाः ॥ २,१०.
उद्धृता ये गयाश्राद्धे ब्रह्मलोकञ्च तैः सह । भजन्ते क्षुत्पिपासा वा न तेषां जायते क्वचित् ॥ २,१०.
तस्माच्छ्राद्धं प्रयत्नेन सम्यक्कुर्याद्विचक्षणः । तस्माच्छ्राद्धं चरेद्भक्त्या शाकैरपि यथाविधि ॥ २,१०.
कुर्वीत समये श्राद्धं कुले कश्चिन्न सीदति । आयुः पुत्रान्यशः स्वर्गं कीर्तिं पुष्टिं बलं श्रियम् ॥ २,१०.
पशून्सौख्यं धनं धान्यं प्राप्नुयात्पितृपूजनात् । देवकार्यादपि सदा पितृकार्यं विशिष्यते ॥ २,१०.
देवताभ्यः पितॄणां हि पूर्वमाप्यायनं शुभम् । ये यजन्ति पितॄन्देवान्ब्राह्मणांश्च हुताशनम् ॥ २,१०.
सर्वभूतान्तरात्मानं मामेव हि यजन्ति ते । स्मार्तेन विधिना श्राद्धं कृत्वा स्वविभवोचितम् ॥ २,१०.
आब्राह्मस्तम्बपर्यन्तं जगत्प्रीणाति मानवः । अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि ॥ २,१०.
तेन तृप्तिमुपायान्ति ये पिशाचत्वमागताः । यच्चाम्बुः स्नानवस्त्रेभ्यो भूमौ पतति खेचर ॥ २,१०.
तेन ये तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते । यानि गन्धाम्बूनि चैव पतन्ति धरणीतले ॥ २,१०.
तेन चाप्यायनं तेषां ये देवत्वमुपागताः । ये चापि स्वकुलाद्बाह्याः क्रियायोग्या ह्यसंस्कृताः ॥ २,१०.
विपन्नास्ते तु विकिरसंमार्जनजलाशिनः । भुक्त्वा चाचमनं यच्च जलं यच्चाह्नि सेवितम् ॥ २,१०.
ब्राह्मणानां तथैवान्यत्तेन तृप्तिं प्रयान्ति वै । पिशाचत्वमनुप्राप्ताः कृमिकीटत्वमेव ये ॥ २,१०.
उद्धृतेष्वन्नपिण्डेषु भुवि ये चान्नकाङ्क्षिणः । तैरेवाप्यायनं तेषां ये मनुष्यत्वमागताः ॥ २,१०.
एवं वै क्रियमाणानां तेषां चैव द्विजन्मनाम् । कश्चिज्जलान्नविक्षेपः शुचिरुच्छिष्ट एव वा ॥ २,१०.
तेनान्नेन कुले तेषां ये वै जात्यन्तरं गताः । भवत्याप्यायनं तेषां सम्यक्श्राद्धे कृते सति ॥ २,१०.
अन्यायोपार्जितैर्द्रव्यैर्यच्छ्राद्धं क्रियते नरैः । तकृप्यन्ति तेन चण्डालाः पुक्कसाद्युपयोनिषु ॥ २,१०.
एवं संप्राप्यते पक्षिन् यद्दत्तमिह बान्धवैः । श्राद्धं कुर्वद्भिरन्नाम्वुशाकैस्तृप्तिर्हि जायते ॥ २,१०.
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । सद्यो देहान्तरप्राप्तिर्विलंबेनावनीतले ॥ २,१०.
पृष्टवानसि तत्तेऽहं प्रवक्ष्यामि समासतः । सद्यो विलम्बतञ्चैवोभयथापि कलेवरम् ॥ २,१०.
यतो हि मर्त्यः प्राप्नोति तद्विशेषञ्च मे शृणु । अधूमकज्योतिरिवाङ्गुष्ठमात्रः पुमांस्ततः ॥ २,१०.
देहमेकं सद्य एव वायवीयं प्रपद्यते । यथा नृणजलौका हि पश्चत्पादं तदोद्धरेत् ॥ २,१०.
स्थितिरग्र्यस्य पादस्य यदा जाता दृढा भवेत् । एवं देही पूर्वदेहं समुत्सृजति तं यदा ॥ २,१०.
भोगार्थमग्रे स्याद्देहो वायवीय उपस्थितः । विषयग्राहकं यद्वन्म्रियमाणस्य चेन्द्रियम् ॥ २,१०.