अप्राप्तयातनास्थानाः श्रेष्ठा ये भुवि पञ्चधा । नानारूपास्तु जाता ये तिर्यग्योन्यादिजातिषु ॥ २,१०.
यदाहारा भवन्त्येते पितरो यत्र योनिषु । तासुतासु तदाहारः श्राद्धा अवतिष्ठति ॥ २,१०.
यथा गोषु प्रनष्टासु वत्सो विन्दति मातरम् । तथान्नं नयते विप्र जन्तुर्यत्रावतिष्ठते ॥ २,१०.
पितरः श्राद्धमोक्तारो विश्वेर्देवैः सदा सह । एते श्राद्धं सदा भुक्त्वा पितॄन्सन्तर्पयन्त्यतः ॥ २,१०.
वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । प्रीणयाते मनुष्याणां पितॄञ्श्राद्धेषु तर्पिताः ॥ २,१०.
आत्मानं गुर्विणी गर्भमपि प्रीणाति वै यथा । दोहदेन तथा देवाः श्राद्धैः स्वांश्च पितॄन्नृणाम् ॥ २,१०.
हृष्यन्ति पितरः श्रुत्वा श्राद्धकालमुपस्थितम् । अन्योन्यं मनसा ध्यात्वा सम्पतन्ति मनोजवम् ॥ २,१०.
ब्राह्मणैः सह चाश्नन्ति पितरो ह्यन्तरिक्षगाः । वायुभूताश्च तिष्ठन्ति भुक्त्वा यान्ति परां गतिम् ॥ २,१०.
निमन्त्रितास्तु ये विप्राः श्राद्धपूर्वदिनेः खग । प्रविश्य पितरस्तेषु भुक्त्वा यान्ति स्वमालयम् ॥ २,१०.
श्राद्धकर्त्रा तु यद्येकः श्राद्धे विप्रो निमन्त्रितः । उदरस्थः पिता तस्य वामपार्श्वे पितामहः ॥ २,१०.
प्रपितामहो दक्षिणतः पृष्ठतः पिण्डभक्षकः । श्राद्धकाले यमः प्रेतान्पितॄंश्चापि यमालयात् ॥ २,१०.
विसर्जयति मानुष्ये निरयस्थांश्च काश्यप । क्षुधार्ताः कीर्तयन्तश्च दुष्कृतञ्च स्वयङ्कृतम् ॥ २,१०.
काङ्क्षन्ति पुत्रपौत्रेभ्यः पायसं मधुसंयुतम् । तस्मात्तांस्तत्र विधिना तर्पयेत्पायसेन तु ॥ २,१०.
गरुड उवाच । स्वामिन्केनापि ते दृष्टा आगताः पितरो द्विज । लोकादमुष्मादागत्य भुञ्जन्तो भुवि मानद ॥ २,१०.
श्रीभगवानुवाच । गरुत्मञ्छृणु वक्ष्यामि यथा दृष्टास्तु सीतया । पितरो विप्रदेहे वै श्वशुराद्यास्त्रयः क्वचित् ॥ २,१०.
गृहीत्वा पितुराज्ञां वै रामो वनमुपागमत् । ततः पुष्करयात्रार्थं रामोऽयात्सीतया सह ॥ २,१०.
तीर्थं चापि समागत्य श्राद्धं प्रारब्धवांस्तु सः । फलं पक्वन्तु जानक्या सिद्धं रामे निवेदितम् ॥ २,१०.
स्नातप्रियोक्तवाक्यात्तु सुस्नाता नमपालयत् । नभोमध्यगते सूर्ये काले कुतुप आगते ॥ २,१०.
अयाता ऋःषयः सर्वे ये रामेण निमन्त्रिताः । तान्मुनीनागतान्दृष्ट्वा वैदेही जनकात्मका ॥ २,१०.
रामाज्ञयान्नमादाय परिवेष्टुमुपागता । अपासर्पत्ततो दूरे विप्रमध्ये तु संस्थिता ॥ २,१०.
गुल्मैराच्छाद्य चात्मानं निगूढं सा स्थिता तदा । एकान्ते तु तदा सीतां ज्ञात्वा राघवनन्दनः ॥ २,१०.
विमृश्य सुचिरं कालमिदं किमिति सत्वरम् । किञ्चित्क्वचिद्गता साध्वी त्रपायाः कारणेन हि ॥ २,१०.
किं वा न भोजयन्विप्रान्सी तामन्वेषयाम्यहम् । विमृशन्नेवमेवं स स्वयं विप्रानभोजयत् ॥ २,१०.
गतेषु द्विजमुख्येषु प्रियां रामोऽब्रवीदिदम् । कथं तलासु लीना त्वं मुनीन्दृष्ट्वा समागतान् ॥ २,१०.
तत्सर्वं मम तन्वङ्गि कारणं वद मा चिरम् । एवमुक्ता तदा भर्त्रा सीता साधोमुखी स्थिता । मुञ्चन्ती चाश्रुसंघातं राघवं वाक्यमब्रवीत् ॥ २,१०.
सीतोवाच । शृणु त्वं नाथ यद्दृष्टमाश्चर्यमिह यादृशम् ॥ २,१०.
पिता तव मया दृष्टो ब्राह्मणाग्रे तु राघवः । सर्वाभरणसंयुक्तोद्वौ चान्यौ च तथाविधौ ॥ २,१०.
दृष्ट्वा त्वत्पितरञ्चाहमपक्रान्ता तवान्तिकात् । वल्कलाजिनसंवीता कथं राज्ञः पुरः प्रभो ॥ २,१०.
भवामि रिपुवीरघ्न सत्यमेतदुहाहृतम् । स्वहस्तेन कथं देयं राज्ञे वा भोजनं मया ॥ २,१०.
दासानामपि ये दासा नोपभुञ्जन्ति कर्हिचित् । तृणपात्रे कथं तस्मै अन्नं दातुं हि शक्रुयाम् ॥ २,१०.