कलत्रं प्रतिकूलं स्यात्सा पीडा प्रेतसम्भवा । एवन्तु पीडया राजन्प्रेतज्ञानं भवेन्नृणाम् ॥ २,९.
वृषोत्सर्गो यदि भवेत्प्रेतत्वान्मुच्यते तदा । तस्मान्नृप त्वमप्येवं वृषोत्सर्गं कुरु प्रभो ॥ २,९.
मामुद्दिश्य नृपेऽप्यत्राधिकारोऽत्यनुकम्पया । राजपुत्रो हतः कश्चिन्मयैवाप्तस्ततो मया ॥ २,९.
कुरुष्व त्वं गृहीत्वा मे तद्धनेन वृषोत्सवम् । कार्तिक्यां पौर्णमास्यां वाऽश्वयुङ्मध्येऽथवा नृप ॥ २,९.
रेवतीयुक्तदिवसे कृषीष्ठा मे वृषोत्सवम् । पुण्यान्विप्रान्समाहूय वह्निं स्थाप्य विधानतः ॥ २,९.
मन्त्रैर्होमस्तथा कार्यः षड्भिर्नृप विधानतः । बहून्विप्रान् भोजयेथास्तद्रत्नाप्तधनेन वै । एवं कृते महीपाल मम मुक्तिर्भविष्यति ॥ २,९.
श्रीकृष्ण उवाच । तथेति प्रतिजग्राह मणिं राजा ततः खग ॥ २,९.
क्रियाधिकारस्तस्यैव यो धनग्राहको भवेत् । कुर्वतोस्तु तयोर्वार्तामेवं प्रेतमहीक्षितोः ॥ २,९.
झणत्कारस्तु घण्टानां भेरीणां भाङ्कृतिस्तथा । जातस्तदा राजसेना चतुरङ्गा समापतत् ॥ २,९.
तस्यामागतमात्रायां प्रेतश्चादृश्यतां गतः । तस्माद्वनाद्विनिःसृत्य राजापि पुरमागमत् ॥ २,९.
स कार्तिक्यां पूर्णिमायां प्रेतमुद्दिश्य संव्यधात् । वृषोत्सर्गं विधानेन तन्मण्याप्तधनेन च ॥ २,९.
प्रेतोऽप्ययं सपदिलब्धसुवर्णदेहः कर्मान्त आगत इति प्रणनाम भूपम् । देव त्वदीयमहिमायमिति स्तुवन् स यातो दिवं गरुड भूपतिना कृतज्ञः ॥ २,९.
एतत्ते सर्वमाख्यातं यथा भूपतिनापि सः । उद्धृतः प्रेतभावाद्वै किमन्यच्छ्रोतुमिच्छसि ॥ २,९.
श्रीगरुडमहापुराणम् १० गरुड उवाच । सपिण्डीकरण जाते आब्दिके च स्वकर्मभिः । देवत्वं वा मनुष्यत्वं पक्षित्वं वाप्नुयुर्नराः ॥ २,१०.
तेषां विभिन्नाहाराणां श्राद्धं वै तृप्तिदं कथम् । यदप्यन्यैर्द्विजैर्भुक्तं हूयते यदि वानले ॥ २,१०.
शुभाशुभात्मकैः प्रेतस्तद्दत्तं भुज्यते कथम् । श्राद्धस्यावश्यकत्वन्तु आमावास्यादिषु श्रुतम् ॥ २,१०.
श्रीभगवानुवाच । प्रेतानां शृणु पक्षीन्द्र यथा श्राद्धन्तु तृप्तिदम् । देवो यदपि जातोऽयं मनुष्यः कर्मयोगतः ॥ २,१०.
तस्यान्नममृतं भूत्वा देवत्वेऽप्यनुयाति च । गान्धर्व्ये भोगरूपेण पशुत्वे च तृणं भवेत् ॥ २,१०.
श्राद्धं हि वायुरूपेण नागत्वेऽप्यनुगच्छति । फलं भवति पक्षित्वे राक्षसेषु तथामिषम् ॥ २,१०.
दानवत्वे तथा मांसं प्रेतत्वे रुधिरं तथा । मनुष्यत्वेऽन्नपानादि बाल्ये भोगरसो भवेत् ॥ २,१०.
गरुड उवाच । कथं कव्यानि दत्तानि हव्यानि च जनैरिह । गच्छन्ति पितृलोकं वा प्रापकः कोऽत्र गद्यते ॥ २,१०.
मृतानामपि जन्तूनां श्राद्धमाप्यायनं यदि । निर्वाणस्य प्रदीपस्य तैलं संवर्धयेच्छिखाम् ॥ २,१०.
मृताश्च पुरुषाः स्वामिन् स्वकर्मजनितां गतिम् । गाहन्तः के कथं स्वस्य सुतस्य श्रेय आप्नुयुः ॥ २,१०.
श्रीभगवानुवाच । श्रुतेः प्रत्यक्षतस्तार्क्ष्य प्रामाण्यं बलवत्तरम् । श्रुत्या तुः बोधितार्थस्य पीयूषत्वादिरूपता ॥ २,१०.
नामगोत्रं पितॄणां वै प्रापकं हव्यकव्ययोः । श्राद्धस्य मन्त्रास्तद्वत्तु प्रापकाश्चैव भक्तितः ॥ २,१०.
अचेतनानि चैतानि प्रापयन्ति कथन्त्विति । सुपर्ण नावगन्तव्यं प्रापकं वच्मि तेऽपरम् ॥ २,१०.
अग्निष्वात्तादयस्तेषा माधिपत्ये व्यवस्थिताः । काले न्यायागतं पात्रे विधिना प्रतिपादितम् ॥ २,१०.
अन्नं नयन्ति तत्रैते जन्तुर्यत्रावतिष्ठते । नाम गोत्रञ्च मन्त्राश्च दत्तमन्नं नयन्ति ते ॥ २,१०.
अपि योनिशतं प्राप्तांस्तांस्तृप्तिरुपतिष्ठति । तेषां लोकान्तरस्थानां विविधैर्नामगोत्रकैः ॥ २,१०.
अपसव्यं क्षितौ दर्भे दत्ताः पिण्डास्त्रयस्तु वै । यान्ति तांस्तर्पयन्त्येवं प्रेतस्थानस्थितान्पितॄन् ॥ २,१०.