सपिण्डैर्वा सगोत्रैर्वा निष्टुरैर्न कृतो हिमे । वृषोत्सर्गस्ततो दुष्टं प्रेतत्वं प्राप्तवानहम् ॥ २,९.
क्षुत्तृषाविष्टदेहश्च भक्ष्यं पानं न चाप्नुयाम् । अतो विकृतिरेषा वै कृशात्वादिरमांसका ॥ २,९.
क्षुत्तृड्जन्यं महादुः खमनुभवामि पुनः पुनः । अकल्याणं हि प्रेतत्वं वृषोत्सर्गं विना कृतम् ॥ २,९.
तस्माद्राजन्दयासिन्धो प्रार्थयामि तवाग्रतः । राजोवाच । वर्तते मत्कुले प्रेत इति ज्ञेयं कथं नरैः ॥ २,९.
तन्ममाचक्ष्व हि प्रेत प्रेतत्वान्मुच्यते कथम् । प्रेत उवाच । लिङ्गेन पीडया प्रेतोऽनुमातव्यो नरैः सदा ॥ २,९.
वक्ष्यामि पीडास्ता राजन्या वै प्रेतकृता भुवि । ऋतुः स्यादफलः स्त्रीणां यदा वंशो न वर्धते ॥ २,९.
म्रियन्ते चाल्पवयसः सा पीडा प्रेतसम्भवा । अकस्माद्वृत्तिहरणमप्रतिष्ठा जनेषु वै ॥ २,९.
अकस्माद्गृहदाहः स्यात्सा पीडा प्रेतसम्भवा । स्वगेहे कलहो नित्यं स्याच्च मिथ्याभिशंसनम् ॥ २,९.
राजयक्ष्मादिसम्भूतिः सा पीडा प्रेतसम्भवा । अपि स्वयं धनं मुक्तं प्रयत्नादनवे पथि ॥ २,९.
नैव लभ्येत नश्येतः सा पीडा प्रेतसंमवा । सुवृष्टौ कृषिनाशः स्याद्वाणिज्याद्वृत्तिनाशनम् ॥ २,९.
कलत्रं प्रतिकूलं स्यात्सा पीडा प्रेतसम्भवा । एवन्तु पीडया राजन्प्रेतज्ञानं भवेन्नृणाम् ॥ २,९.
वृषोत्सर्गो यदि भवेत्प्रेतत्वान्मुच्यते तदा । तस्मान्नृप त्वमप्येवं वृषोत्सर्गं कुरु प्रभो ॥ २,९.
मामुद्दिश्य नृपेऽप्यत्राधिकारोऽत्यनुकम्पया । राजपुत्रो हतः कश्चिन्मयैवाप्तस्ततो मया ॥ २,९.
कुरुष्व त्वं गृहीत्वा मे तद्धनेन वृषोत्सवम् । कार्तिक्यां पौर्णमास्यां वाऽश्वयुङ्मध्येऽथवा नृप ॥ २,९.
रेवतीयुक्तदिवसे कृषीष्ठा मे वृषोत्सवम् । पुण्यान्विप्रान्समाहूय वह्निं स्थाप्य विधानतः ॥ २,९.
मन्त्रैर्होमस्तथा कार्यः षड्भिर्नृप विधानतः । बहून्विप्रान् भोजयेथास्तद्रत्नाप्तधनेन वै । एवं कृते महीपाल मम मुक्तिर्भविष्यति ॥ २,९.
श्रीकृष्ण उवाच । तथेति प्रतिजग्राह मणिं राजा ततः खग ॥ २,९.
क्रियाधिकारस्तस्यैव यो धनग्राहको भवेत् । कुर्वतोस्तु तयोर्वार्तामेवं प्रेतमहीक्षितोः ॥ २,९.
झणत्कारस्तु घण्टानां भेरीणां भाङ्कृतिस्तथा । जातस्तदा राजसेना चतुरङ्गा समापतत् ॥ २,९.
तस्यामागतमात्रायां प्रेतश्चादृश्यतां गतः । तस्माद्वनाद्विनिःसृत्य राजापि पुरमागमत् ॥ २,९.
स कार्तिक्यां पूर्णिमायां प्रेतमुद्दिश्य संव्यधात् । वृषोत्सर्गं विधानेन तन्मण्याप्तधनेन च ॥ २,९.
प्रेतोऽप्ययं सपदिलब्धसुवर्णदेहः कर्मान्त आगत इति प्रणनाम भूपम् । देव त्वदीयमहिमायमिति स्तुवन् स यातो दिवं गरुड भूपतिना कृतज्ञः ॥ २,९.
एतत्ते सर्वमाख्यातं यथा भूपतिनापि सः । उद्धृतः प्रेतभावाद्वै किमन्यच्छ्रोतुमिच्छसि ॥ २,९.
श्रीगरुडमहापुराणम् १० गरुड उवाच । सपिण्डीकरण जाते आब्दिके च स्वकर्मभिः । देवत्वं वा मनुष्यत्वं पक्षित्वं वाप्नुयुर्नराः ॥ २,१०.
तेषां विभिन्नाहाराणां श्राद्धं वै तृप्तिदं कथम् । यदप्यन्यैर्द्विजैर्भुक्तं हूयते यदि वानले ॥ २,१०.
शुभाशुभात्मकैः प्रेतस्तद्दत्तं भुज्यते कथम् । श्राद्धस्यावश्यकत्वन्तु आमावास्यादिषु श्रुतम् ॥ २,१०.
श्रीभगवानुवाच । प्रेतानां शृणु पक्षीन्द्र यथा श्राद्धन्तु तृप्तिदम् । देवो यदपि जातोऽयं मनुष्यः कर्मयोगतः ॥ २,१०.
तस्यान्नममृतं भूत्वा देवत्वेऽप्यनुयाति च । गान्धर्व्ये भोगरूपेण पशुत्वे च तृणं भवेत् ॥ २,१०.
श्राद्धं हि वायुरूपेण नागत्वेऽप्यनुगच्छति । फलं भवति पक्षित्वे राक्षसेषु तथामिषम् ॥ २,१०.
दानवत्वे तथा मांसं प्रेतत्वे रुधिरं तथा । मनुष्यत्वेऽन्नपानादि बाल्ये भोगरसो भवेत् ॥ २,१०.